कृत्यचः

8-4-29 कृति अचः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्

Sampurna sutra

Up

रषाभ्याम् उपसर्गात् कृति अचः नः णः

Neelesh Sanskrit Brief

Up

रेफयुक्तेन उपसर्गेण सह प्रयुज्यमानात् धातोः विहितस्य कृत्-प्रत्ययस्य अच्-वर्णात् परस्य नकारस्य णत्वं भवति ।

Kashika

Up

कृत्स्थो यो नकारोऽच उत्तरस्तस्योपसर्गस्थात् निमित्तादुत्तरस्य णकारादेशो भवति। अन, मान, अनीय, अनि, इनि, निष्ठादेश एते णत्वं प्रयोजयन्ति। अन — प्रयाणम्। परियाणम्। प्रमाणम्। परिमाणम्। मान — प्रयायमाणम्। परियायमाणम्। अनीय — प्रयाणीयम्। परियाणीयम्। अनि — अप्रयाणिः। अपरियाणिः। इनि — प्रयायिणौ। परियायिणौ। निष्ठादेशः — प्रहीणः। परिहीणः। प्रहीणवान्। परिहीणवान्। अच इति किम्? प्रमग्नः। परिभुग्नः। <<भुजो कौटिल्ये>>, अस्य निष्ठाप्रत्ययः। <<ओदितश्च>> ८.२.४५ इति निष्ठानत्वम्, <<चोः कुः>> ८.२.३० इति कुत्वे सिद्धं परिभुग्न इति ॥ कृत्स्थस्य णत्वे निर्विण्णस्योपसंख्यानं कर्तव्यम्॥ निर्विण्णोऽस्मि खलसङ्गेन। निर्विण्णोऽहमत्र वासेन॥

Siddhanta Kaumudi

Up

उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः ।<!निर्विण्णस्योपसंख्यानम् !> (वार्तिकम्) ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यदि - 1) कश्चन धातुः रेफयुक्त-उपसर्गेण सह प्रयुज्यते 2) तथा च, तस्मात् धातोः कश्चन कृत्-प्रत्ययः विधीयते 3) तस्मिन् कृत्-प्रत्यये विद्यमानः नकारः अच्-वर्णात् परः अस्ति - तर्हि प्रत्ययस्थ-नकारस्य वर्तमानसूत्रेण णकारादेशः भवति । केषु केषु कृत्-प्रत्ययेषु नकारः विद्यते ? सर्वप्रकाराणामुदाहरणानि एतानि - [1] ल्युट् प्रत्ययः - प्र + या + ल्युट् → प्र + या + अन [<<युवोरनाकौ>> 7.1.1 इति अन-आदेशः] → प्रयान [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः आकारः ] → प्रयाण [<<कृत्यचः>> 8.4.29 इति णत्वम् । अत्र नकारः आकारोत्तरः अस्ति ।] एवमेव - परि + मा + ल्युट् → परि + मा + अन → परिमाण । [2] शानच् प्रत्ययः प्र + या + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्लकारः] → प्र + या + शानच् [कर्मणिप्रयोगविवक्षायाम् <<भावकर्मणोः>> 1.3.13 इति आत्मनेपदविवक्षा । <<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इति शानच्-प्रत्ययः] → प्र + या + यक् + आन [<<सार्वधातुके यक्>> 3.1.67 इति यक् प्रत्ययः] → प्र + या + य + मुक् + आन [ <<आने मुक्>> 7.2.82 इति मुगागमः] → प्रयायमान [इत्संज्ञालोपः, वर्णमेलनम्] → प्रयायमाण [<<कृत्यचः>> 8.4.29 इति णत्वम्] एवमेव परि + मा + शानच् → परिमायमाण । [3] कानच् प्रत्ययः [अयं केवलं वेदेषु दृश्यते ।] प्र + या + लिट् [<<छन्दसि लिट्>> 3.2.105 इति लिट्] → प्र + या + कानच् [<<लिटः कानच् वा>> 3.2.106 इति 'लिट्' इत्यस्य 'कानच्' इति आदेशः] → प्र + या + आन [इत्संज्ञालोपः] → प्रययाण [द्वित्वकार्यम्, ततः <<कृत्यचः>> 8.4.29 इति णत्वम्] [4] चानश् प्रत्ययः प्र + या + चानश् [<<ताच्छील्यवयोवचनशक्तिषु चानश्>> 3.2.129 इति चानश्] → प्र + या + शप् + आन [<<कर्तरि शप्>> 3.1.68 इति शप्] → प्र + या + मुक् +आन [ <<आने मुक्>> 7.2.82 इति मुगागमः] → प्र + या + मान [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → प्रयामान [इत्संज्ञालोपः, वर्णमेलनम्] → प्रयामाण [<<कृत्यचः>> 8.4.29 इति णत्वम्] एवमेव परि + मा + चानश् → परिमामाण । [5] अनीयर् प्रत्ययः प्र + या + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर् प्रत्ययः] → प्रयानीय [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः आकारः ] → प्रयाणीय [<<कृत्यचः>> 8.4.29 इति णत्वम्] एवमेव - परि + मा + अनीयर् → परिमाणीय । [6] अनि प्रत्ययः प्र + या + अनि [<<आक्रोशे नञ्यनिः>> 3.3.112 इति अनि-प्रत्ययः ।] → प्रयानि [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः आकारः ] → प्रयाणि [<<कृत्यचः>> 8.4.29 इति णत्वम्] विशेषः - 'अनि' प्रत्ययः नित्यम् 'नञ्' उपपदेन सह एव प्रयुज्यते, अतः प्रयोगसमये 'न प्रयाणि = अप्रयाणि' इत्येव प्रयोक्तव्यम् । केवलम् 'प्रयाणि' इत्यस्य प्रयोगः न साधु । एवमेव परि + या + अनि → परियाणि । (प्रयोगे - अपरियाणि) । [7] णिनि प्रत्ययः प्र + या + णिनि [<<आवश्यकाधमर्ण्ययोर्णिनिः>>3.3.170 इति णिनि-प्रत्ययः / <<सुप्यजातौ णिनिस्ताच्छील्ये>> 3.2.78 इति णिनि-प्रत्ययः] → प्र + या + इन् [इत्संज्ञालोपः] → प्र + या + युक् + इन् [<<आतो युक् चिण्कृतोः>>7.3.33 इति युगागमः] → प्रयायिन् [वर्णमेलनम् । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा] → प्रयायिन् + औ [प्रथमाद्विवचनस्य विवक्षायाम् 'औ' प्रत्ययः] → प्रयायिनौ → प्रयायिणौ [<<कृत्यचः>> 8.2.29 इति णत्वम् । अत्र नकारः इकारात् परः आगच्छति ।] विशेषः - प्रयायिणौ इत्यत्र <<प्रातिपदिकान्तनुम्विभक्तिषु च>> 8.4.11 इत्यनेन केवलं विकल्पेन णत्वं भवेत्, परन्तु वर्तमानसूत्रेण नित्यं विधीयते । एवमेव - परि + या + णिनि + जस् → परियायिणः इत्यपि सिद्ध्यति । [8] निष्ठाप्रत्ययौ (क्त , क्तवतु) प्र + हा + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → प्र + ही + त [<<घुमास्थागापाजहातिसां हलि>> 6.4.66 इति ईकारादेशः ] → प्र + ही + न ['हा' धातोः औपदेशिकरूपे ओकारः इत्संज्ञकः विद्यते (ओँहाक् त्यागे) अतः <<ओदितश्च>> 8.2.45 इत्यनेन निष्ठातकारस्य नकारादेशः भवति ।] → प्रहीण [<<कृत्यचः>> 8.2.29 इति णत्वम् । अत्र नकारः ईकारात् परः आगच्छति ।] एवमेव - परि + हा + क्तवतु → परिहीणवत् । स्मर्तव्यम् - यदि धातौ णत्वनिषेधकस्य वर्णस्य (इत्युक्ते - अट्, कु, पु, आङ्, नुम् - एतान् विहाय अन्यवर्णस्य) व्यवधानं अस्ति, तर्हि वर्तमानसूत्रेण णत्वं न भवति । यथा - प्र + स्था + ल्युट् → प्रस्थान । अत्र यद्यपि रेफयुक्तः उपसर्गः प्रयुज्यते, अपि च धातुः अपि अजन्तः अस्ति, तथापि रेफनकारयोर्मध्ये थकारस्य व्यवधानेन णत्वं न जायते । सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् - 1) उपसर्गात् इति किम् ? या + ल्युट् → यान इत्यत्र न भवति । 2) अच्-वर्णात् परस्य इति किम् ? प्र + मस्ज् + क्त → प्रमग्न - इत्यत्र न भवति, यतः अत्र नकारात् पूर्वमच् वर्णः न विद्यते । 3) कृत्प्रत्ययस्य इति किम् ? परि + मी + श्ना + ति → परिमीनाति इत्यत्र न भवति । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!कृत्स्थस्य णत्वे निर्विण्णस्य उपसंख्यानं कर्तव्यम्!> । इत्युक्ते, 'निर्विण्ण' शब्दस्य सिद्धौ प्रत्ययस्थः नकारः यद्यपि अच्-वर्णात् परः नास्ति, तथापि तस्य णत्वं भवति । 'निर्विण्ण' शब्दस्य प्रक्रिया इयम् - निर् + विद् (सत्तायाम्) + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → निर् + विन् न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> 8.2.42 इति दकारतकारयोः उभयोः नकारः] → निर्विन् ण [<!कृत्स्थस्य णत्वे निर्विण्णस्य उपसंख्यानं कर्तव्यम्!> इति वार्त्तिकेन प्रत्ययस्थस्य नकारस्य णत्वम् ] → निर्विण् ण [<<ष्टुना ष्टुः>> 8.4.41 इति धातोः अन्ते विद्यमानस्य नकारस्य ष्टुत्वे णकारः] → निर्विण्ण । अत्र द्वौ नकारौ विद्येते । एताभ्यां प्रथमनकारः प्रत्ययस्य नकारः नास्ति, अतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । द्वितीयः नकारः यद्यपि प्रत्ययस्य नकारः अस्ति, तथापि सः अच्-वर्णात् परः नास्ति, अतः अत्रापि णत्वस्य प्रसक्तिः नास्ति । परन्तु अस्य द्वितीयनकारस्य णत्वमत्र वार्त्तिकेन दीयते । एतादृशं प्रत्ययनकारस्य णत्वे कृते ततः ष्टुत्वेन पूर्वनकारस्यापि णत्वं भवति । अरः अन्ते उभयोः नकारयोः णत्वं श्रूयते । यथा, देवीसप्तशत्यां 'निर्विण्णोऽतिममत्वेन राज्यापहरणेन च' इति प्रयोगः दृश्यते । अस्य साधुत्वं अनेनैव वार्त्तिकेण सिद्ध्यति । स्मर्तव्यम् - अस्मिन् सूत्रे षष्ठ्यन्तं पदं नास्ति, केवलं पञ्चम्यन्तं पदम् (अचः) तथा सप्तम्यन्तं पदम् (कृति) इति विद्यते । अस्यां स्थितौ <<उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्>> अनया परिभाषया सप्तम्यन्तं पदम् स्थानिनं निर्देशयति । अतः 'कृत्-प्रत्ययस्य नकारस्य णत्वं भवति' इति अर्थः निष्पद्यते ।

Balamanorama

Up

<<कृत्यचः>> - कृत्यचः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादनोत्परः' इत्यत उपसर्गादिति च । उपसर्गस्थादिति विवक्षितम् ।कृती॑त्यनन्तरंविद्यमानस्ये॑ति शेषः । अचेति पञ्चमी । तदाह — उपसर्गस्थादिति । असमानपदत्वादप्राप्तौ वचनम् ।अट्कुप्वाङ्नुम् व्यवायेऽपी॑त्यनुवर्तते । तदाह - प्रयाणीयमिति । निर्विण्णस्येति । नस्यण इत्युपसङ्ख्यानमित्यर्थः । अचः परत्वाभावादिति । विदेः क्तप्रत्ययेरदाभ्या॑मिति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे 'निर्विन् न ' इति स्थिते नकारस्य अचः परत्वाऽभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः । नकारेण व्यवदानाच्च णत्वस्याऽप्राप्तिर्बोध्या । पूर्वस्येति । नस्य णत्वे, ष्टुत्वेन णत्वमित्यर्थः ।तथा च द्विणकारकं रूपम् ।

Padamanjari

Up

कृत्स्थो यो नकार अच उतर इत्यनेनाचेति नकारस्येदं विशेषणम्, न कृत इति दर्शयति । यदि हि कृत एतद्विशेषणं स्यात्, प्रापणमित्यादौ न स्यात्,'न भाभूपूकमिगमिष्यायिवेपाम्' इत्यत्र च कम्यादीनां प्रतिषेधोऽनर्थकः स्यात् । अनमानेत्यादि । सम्भवोदाहरणदर्शनपरम्, न परिगणनम्; अन्यस्यासम्भवात् । अन इति । योरनादेशः । मान इत्यागतमुक, शानजादिः । तव्यदादिसूत्रविहितोऽनीयः, ठाक्रोशे नञ्यनिःऽ।'सुप्यजातौ णिनिः' , आवश्यके णिनिः । निष्ठादेशः रदाभ्याम्ऽ इति विहितः । प्रहीण इति ।'घुमास्था' इत्यादिना ईत्वम् । प्रमग्नः, प्रभुग्न इति । ठोदितश्चऽ इति निष्ठानत्वम् । निर्विण्णस्येति । अचः परः कृत्स्थो नकारो न भवतीति वचनम् । तत्र परस्य नस्य णत्वम्, पूर्वस्य ष्टुअत्वम् ॥