लिटः कानज्वा

3-2-106 लिटः कानज्वा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते छन्दसि

Kashika

Up

index: 3.2.106 sutra: लिटः कानज्वा


छन्दसि लिटः कानजादेशो भवति वा। अग्निं चिक्यानः। सोमं सुषुवाणः। वरुणं सुषुवानम्। न च भवति। अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततान। लिड्ग्रहणं किम्, न पूर्वस्य एव प्रकृतस्य आदेशाविधाने विभक्तिविपरिणामो भविष्यति? लिण्मात्रस्य यथा स्यात्, योऽपि परोक्षे विहितस् तस्य अप्ययमादेशो भवति।

Siddhanta Kaumudi

Up

index: 3.2.106 sutra: लिटः कानज्वा


Balamanorama

Up

index: 3.2.106 sutra: लिटः कानज्वा


लिटः कानज्वा - लिटः कानज्वा ।

Padamanjari

Up

index: 3.2.106 sutra: लिटः कानज्वा


लिटः कानज्वा॥ चिक्यान इति।'चिञ् चयने' 'विभाषा चेः' इति कुत्वम्, ठेरनेकाचःऽ इति यणादेशः। न च भवतीति। वावचनस्य प्रयोजनं दर्शयति। वाऽसरूपविधिश्च लादेशेषु नास्ति,'हशश्वतोर्लङ् च' इति वचनादित्युक्तम्। नन्वनन्तरसूत्रविहितस्य लिटो नित्यमादेशोस्तु, यस्तु'च्छन्दसि लुङ्लङ्लिटः' इति लिट्, तत्र तिङं श्रवणं भविष्यति? न; तस्य धातुसम्बन्धविषयत्वादधातुसम्बन्धे तिङं श्रवणं न स्यात्। लिण्मात्रस्य च ग्रहणमित्यनन्तरमेव वक्ष्यति। पूर्वस्यैवेत्यादि। प्रत्ययान्तरं तु कानज् न भवति, वावचनाद्वाऽसरूपविधिनैव लुङदीनां सिद्धत्वादिति भावः। लिण्मात्रस्येति। भाष्ये त्वन्तरस्यैव लिटोऽयमादेशः, लिङ्ग्रहणं च प्रत्ययान्तरत्वं मा विज्ञायीति। वावचनं चोतरार्थमिति स्थितम्। कानचश्चित्करणं स्वरार्थम्। कित्करणं किमर्थम्, न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्, तेन ईजानस्तेपान इत्यादौ संप्रसारणैत्वाभ्यासलोपादिकार्य भविष्यति? संयोगान्तार्थम् -'बन्ध बन्धने' 'वृतस्य यद्वद्वधानस्य, त्वमर्णवान् बद्वधाना अरम्णा' अत्र ठनिदिताम्ऽ इति नलोपः, छान्दसत्वादभ्यासधकारस्य हलादिश्शेषेण निवृत्यभावे'झलां जश् झशि' इति जश्त्वं दकारः। ननु छान्दसः कानच् लिट् च च्छन्दसि सार्वधातुकमपि भवति,'च्छन्दस्युभयथा' इति वचनात्, तत्र'सार्वधातुकमपित्' इति ङ्त्विं ङ्तीत्युपिधालोपो भविष्यति? न च संयोगान्तेषु कित्वङ्त्वियोर्विशेषोऽस्ति। ऋकारान्तगुणप्रतिषेधार्थ तु, ठृच्छत्यृताम्ऽइति ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते स यथेह भवति - परितस्तरे इति, एवमिहापि स्यात् - परितिस्तिराण इति, तस्मात्कित्करणम्। कित्करणसामर्थ्याद्भाषायामपि कानजस्तीत्येततु भाष्यविरोधातुपेक्ष्यम्॥