उपसर्गाद् बहुलम्

8-4-28 उपसर्गाद् अनोत्परः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे नः च

Kashika

Up

index: 8.4.28 sutra: उपसर्गाद् बहुलम्


उपसर्गस्थान् निमित्तातुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम्। प्रणः शूद्रः। प्रणसः। प्रणो राजा। न च भवति। प्र नो मुञ्चतम्। बहुलग्रहणाद् भाषायामपि भवति, प्रणसं मुखम्। उपसर्गाच् चेति नासिकाया नसादेशः।

Siddhanta Kaumudi

Up

index: 8.4.28 sutra: उपसर्गाद् बहुलम्


उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ।<!वेर्ग्रो वक्तव्यः !> (वार्तिकम्) ॥ विगता नासिकाऽस्य विग्रः ।<!ख्यश्च !> (वार्तिकम्) ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥

Padamanjari

Up

index: 8.4.28 sutra: उपसर्गाद् बहुलम्


न सम्प्रति क्रियायोगाभावात् प्राद्यौपलक्षणमुपसर्गग्रहणम् । प्रण इत्यस्मदो नसादेशः, प्रणस इति बहुव्रीहिः, ठुपसर्गाच्चऽ इत्यच् समासान्तः, नासिकायाश्च नस्भावः । उपसर्गादनोत्पर इति पाठान्तरम्, उपसर्गात्परस्य नसो नकारस्य णत्वं भवति, ओतः परस्य ओकारे वा न भवतीत्यर्थः । उभयथाप्यतिव्याप्त्यव्याप्तिसम्भवाद्व्याख्यात एव पाठो वृत्तिकारेणाश्रितः ॥