3-3-112 आक्रोशे नञि अनिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां
विभाषेति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति। क्तिन्नादीनामपवादः। अकरणिस्ते वृषल भूयात्। आक्रोश इति किम्? अकृतिस्तस्य कटस्य। नञीति किम्? मृतिस्ते वृषल भूयात्॥
विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् <{SK2841}> भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-<{SK3090}> ॥
आक्रेशःउशपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ॥