आने मुक्

7-2-82 आने मुक् अतः

Kashika

Up

index: 7.2.82 sutra: आने मुक्


आने परतोऽङ्गस्यातः मुगागमो भवति। पचमानः। यजमानः। अकारमात्रभक्तोऽयं मुकदुपदेशग्रहणेन गृह्यते इति अदुपदेशादिति लसार्वधातुकानुदत्तत्वं भवति। यद्येवमातो ङितः 7.2.81 इत्ययमपि चिधिः प्राप्नोति? तपरनिर्देशान् न भविष्यति। मुकि सति अध्यर्धमात्रो भवति। लसार्वधातुकानुदात्तत्वमपि तर्हि न प्राप्नोति? न एष दोषः। उपदेशग्रहणं तत्र क्रियते। तेन उपदेशादूर्धं सत्यपि कालभेदे भवितव्यम्। तथा च पचवः, पचामः इत्यत्रापि भवति।

Siddhanta Kaumudi

Up

index: 7.2.82 sutra: आने मुक्


अङ्गस्यातो मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् ब्राह्मणः ।<!माड्याक्रोशे इति वाच्यम् !> (वार्तिकम्) ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङ् <{SK2219}> इति प्राप्ते एतद्वचनसामर्थ्यालुक् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.82 sutra: आने मुक्


अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित्। सन् द्विजः॥

Balamanorama

Up

index: 7.2.82 sutra: आने मुक्


आने मुक् - आने मुक् ।अङ्गस्ये॑त्यधिकृतम् 'अतो येयः' इति पूर्वसूत्रादनुवृत्तेन षष्ठआ विपरिणतेन अता विशेष्यते । तदन्तविधिः । तदाह — अदन्तस्येति । मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः । अनुवर्तमाने इति ।वर्तमाने ल॑डिति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठआ विपरिमाणेन उक्तार्थलाभे सतीत्यर्थः । अधिकेति । सूत्राक्षराऽनारूढस्यापि अर्थस्य लाभार्थमित्यर्थः । सन् ब्राआहृण इति । 'अस भुवि' शतृप्रत्यये शपो लुक्, श्नसोरल्लोपः । माङीति । माङि प्रयुज्यमाने आक्रोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः । मा जीवन्निति । न जीवत्ययम् । अनुपकारित्वान्मृतप्राय इत्यर्थः । 'मा पचमान' इत्यप्युदाहार्यम् । 'लटः शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह — माङि लुङितीति ।

Padamanjari

Up

index: 7.2.82 sutra: आने मुक्


अत्र आने इति सप्तम्यचरितार्था पूर्वत्र कृतार्थायाः अतः इति पञ्चम्याः षष्ठी प्रकल्पयति तस्मिन्निति निर्दिष्टे पूर्वस्य इति , तत्र विशेषणविशेष्यभावे कामचारादङ्गेनाद्विशेष्यते, न त्वाताऽङ्गमित्यभिप्रायेणाह - अकारमात्रभक्तोऽयमिति । अङ्गस्यावयवो योऽकारस्तस्य मुगित्यर्थः । किमेषं सति भवति इत्याह - अदुपदेशाग्रहणेनेति । उपदेशे अत् अदुपदेशः, यदि त्वकारान्ताङ्गभक्तः स्यात्, ततस्तदेशाह्गं न व्यावदध्यात्, तदवयवं त्वकारं व्यवदधात्येवेति स्वरो न स्यात् । न च स्वरविधौ व्यञ्जनमविद्यमानवत, किं कारणम् हल्सवरप्राप्तौ व्यञ्जनमविद्यमानवदिति परिभाषाया भाष्यकारेण शिक्षितत्वात् । अन्यथाऽग्निचिद्वानित्यादौ ह्रस्वनुड्भ्यां मतुप् इति स्वरप्रसङ्गात् । यदि पुनरयमभक्तो मकारो विकरणवन्मध्ये क्रियते, अभक्ते मुकि स्वरो न स्यादित्येव । यदि पुनरयं परादिझ क्रियेत - आनस्य मुडिति, परादित्वे दीर्घत्वप्रसङ्गः - पचमान इति अतो दीर्घो यञि इति दीर्घत्वं प्राप्नोति पाक्षिक एष दोषः । कतरस्मिन्पक्षे यदि सार्वधातुक इत्येव तत् । अथ ङीत्येव ततदा न दोषः । तदयं भक्तस्तत्रापि पूर्वान्तः, तत्राप्यकारस्य मुगिति स्थितम् । यद्येवमइति । यद्यकारमात्रभक्तत्वातद्ग्रहणेन गृह्यत इत्यर्थः । अध्यर्द्धमात्र इति । अर्धमधिकं यस्याः सा अध्यर्धा, अध्यर्धा मात्रा यस्यासावध्यर्धमात्रः । लसावंधातुकानुदातत्वमपि तर्हि न प्राप्नोतीति । यद्विधावपि तपरनिर्द्देशात् । तत्राह - उपदेशग्रहणमिह क्रियत इति । तथा चेति । यदा द्विमात्रत्वेऽपि भवति, तदा का शङ्काऽध्यर्धमात्रत्वे एइति भावः ॥