3-3-170 आवश्यकाधमर्ण्ययोः णिनिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
अवश्यंभाव आवश्यकम्। उपाधिरयम्, नोपपदम्। अवश्यंभावविशिष्ट आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति। अवश्यंकारी। मयूरव्यंसकादित्वात् समासः। आधमर्ण्ये खल्वपि — शतं दायी। सहस्रं दायी। निष्कं दायी॥
अवश्यङ्कारि । शतंदायी ॥
अवश्यं भाव आवश्यकमिति । मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः । उपाधिरिति । प्रत्ययार्थविशेषणमित्यर्थः । नोपपदमिति ।'शीतोष्णाभ्यां कारिणि' ,'सेनान्तलक्षणकारिभ्यस्च' इति निर्देशात् । उपपदत्वे हि केवलाण्णिनिर्न स्यात्, तत्साहचर्यादाधमर्ण्यमप्युपाधिरेव, नोपपदम् । शतं दायीति । ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्टीप्रतिषेधाद् द्वितीयैव भवति ॥