घुमास्थागापाजहातिसां हलि

6-4-66 घुमास्थागापाजहातिसां हलि असिद्धवत् अत्र आभात् आर्धधातुके क्ङिति आतः ईत्

Kashika

Up

index: 6.4.66 sutra: घुमास्थागापाजहातिसां हलि


घुसंज्ञाकानामङ्गानां, मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परतः ईकारादेशो भवति। दीयते। धीयते। देदीयते। देधीयते। मीयते। मेमीयते। स्थीयते। तेष्ट्ःईयते। गीयते। जेगीयते। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। पीयते। पेपीयते। पातेरिह ग्रहणं न अस्ति, लुग्विकरणत्वात्। पायते इत्येव तस्य भवति। हीयते। जेहीयते। जहातेरिह निर्देशात् जिहातेर्ग्रहणं न भवति। हायते। षोऽन्तकर्मणि। अवसीयते। अवसेसीयते। हलि इति किम्? ददतुः। ददुः। आतो लोपाद्धि परत्वादीत्वम् स्यात्। एतदेव हल्ग्रहणं ज्ञापकमस्मिन् प्रकरणे विप्रतिषेधेन असिद्धत्वं भवति। क्ङिति इत्येव, दाता। धाता।

Siddhanta Kaumudi

Up

index: 6.4.66 sutra: घुमास्थागापाजहातिसां हलि


एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत- अध्यैष्यत ।{$ {!1047 इक्!} स्मरणे$} । अयमप्यधिपर्वः । अधीगर्थदयेशाम्-<{SK613}> इति लिङ्गात् । अन्यथा हीगर्थेत्येव ब्रूयात् ॥<!इण्वदिक इति वक्तव्यम् !> (वार्तिकम्) ॥ अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथाच भट्टिः-ससीतयो राघवयोरधीयन्इति ।{$ {!1048 वी!} गतिव्याप्तिप्रजनकान्त्यसनखादनेषु$} । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्वनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यत । एति । ईतः । इयन्ति । ईयात् । ऐषीत् ।{$ {!1049 या!} प्रापणे$} । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.66 sutra: घुमास्थागापाजहातिसां हलि


एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके। अध्यगीष्ट, अध्यैष्ट। अध्यगीष्यत, अध्यैष्यत॥ {$ {! 21 दुह !} प्रपूरणे $} ॥ दोग्धि। दुग्धः। दुहन्ति। धोक्षि। दुग्धे। दुहाते। दुहते। धुक्षे। दुहाथे। धुग्ध्वे। दुहे। दुह्वहे। दुह्महे। दुदोह, दुदुहे। दोग्धासि, दोग्धासे। धोक्ष्यति, धोक्ष्यते। दोग्धु, दुग्धात्। दुग्धाम्। दुहन्तु। दुग्धि, दुग्धात्। दुग्धम्। दुग्ध। दोहानि। दोहाव। दोहाम। दुग्धाम्। दुहाताम्। दुहताम्। धुक्ष्व। दुहाथाम्। धुग्घ्वम्। दोहै। दोहावहै। दोहामहै। अधोक्। अदुग्धाम्। अदुहन्। अदोहम्। अदुग्ध। अदुहाताम्। अदुहत। अधुग्ध्वम्। दुह्रात्, दुहीत॥

Balamanorama

Up

index: 6.4.66 sutra: घुमास्थागापाजहातिसां हलि


घुमास्थागापाजहातिसां हलि - घुमसाथा । 'षो अन्तकर्मणि' इत्यस्य कृतात्वस्य निर्देशः । घु मा स्था गा पा जहाति साएषां द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् । 'आतो लोप इटि चे' त्यत आत इतिईद्यती॑त्यत ईदिति,अनुदात्तोपदेशे॑त्यतः क्ङिति — इति चानुवर्तते । तदाह — एषामित्यादिना । अध्यगीष्टेति । अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः । 'गातिस्थे' तिन सिज्लोपः, परस्मैपदाऽभावात् । अध्यगीषातामध्यगीषत । अध्यगीष्टाः अध्यगीढ्वम् । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । गाङभावपक्षे आह — अध्यैष्टेति । अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषातामध्यैषत । अध्यैष्ठाः अध्यैषाथामध्यैढ्वम् ।धि चे॑ति सलोपः । अध्यैषि अध्यैष्वहि अध्यैष्महि । लृडआह — अध्यगीष्यतेति ।विभाषा लुङ्लृङो॑रिति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः' इति ङित्त्वेघुमास्थे॑ति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाङभावपक्षे आह — अध्यैष्यतेति । अध्यैष्येतामित्यादि । इक्स्मरणे । अयमपीति । इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य 'नित्यमधिपूर्व' इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम्, अस्य तु तथात्वे किं प्रमाणमित्यत आह — अधीगर्थेति । तत्र हि अधीगर्थेत्यनेन स्मरणार्थदातुर्विवक्षितः । इग्धातोरधिपूर्वकत्वाऽभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात्तत्र अधीति व्यर्थं स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः । इण्वदिक इति । षष्ठन्ताद्वतिः । इणो यत् कार्यम् 'इणो यणि' त्यादि, तदिको भवतीत्यर्थः । अध्येति, अधीत इति सिद्धवत्कृत्य आह — अधियन्तीति । अन्तादेशे इयङपवादः ।इणो य॑णिति यणिति भावः । अध्येषि अधीथः अधीथ । अध्येमि अधीवः अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थितेइणो य॑णिति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्यदीर्घ इणः किती॑ति दीर्घे सवर्णदीर्घे — अधीयतुः अधीयुः । अधीययिथ — अथीयेथ अधीयथुः अधीय । अधीयाय — अधीयय अधीयिव अधीयिम । अध्येता । अध्येष्यति । अध्येतु- अधीतात् अधीतामधियन्तु । अधीहि — अधीतात् अधीतमधीत । अध्ययानि अध्ययाव अध्ययाम । अध्यैत् अध्यैतामध्यायन् । अध्यैः अध्यैतमध्यैत । अध्यायमध्यैव अध्यैम । इति सिद्धवत्कृत्य लुङ्याह — अध्यगादिति । इण्वत्त्वात्इणो गा लुङी॑ति गादेशे 'गातिस्थे' तिसिचो लुका लुप्तत्वात्घुमास्थे॑ति ईत्त्वं न । अध्यगाताम् । अध्यगामध्यगाव । अध्यैष्यत् । केचित्त्विति । 'आर्धधातुके' इत्यधिकारेइणो गा लुङी॑ति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणमुपस्थितत्वादिति भावः । तन्मते यण् नेति ।इणो य॑णित्यस् आर्धधातुकाधिकारस्थत्वाऽभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्रम् । राघवयोरधीयन्निति ।अधीगर्थे॑ति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वादिग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयदिति शत्रन्तात्सुबुत्पत्तौ सौ रूपम् । वी गतीति ।अजेव्र्यघञपो॑रिति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति । एकाच्त्वाद्यणभावादियङिति भावः । लोटि वेतु — वीतात् वीताम् वियन्तु । इति सिद्धवत्कृत्याह — वीहीति । हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वीतात् वीतम् वीत । वयानि वयाव वयाम । लडआह — अवेदिति । अवियन्निति । वी — अन्निति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः । मतान्तरमाह — अडागमे सतीति ।लावस्थायाम॑डिति पक्षे इयङं बाधित्वा अनेकाच्त्वाद्यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरसं सूचयति । तद्बीजं तुकृतेऽप्यटि यणि कर्तव्ये आभीयतया अटोऽसिद्धत्वादनेकाच्त्वाऽभावाद्यणभावादियङेवोचित इति शब्देन्दुशेखरे विस्तरः । अत्रेति । वी-ई इति सवर्णदीर्घे॑ वी गती॑ति निर्देश इति भावः । ईयादिति । विधिलिङि आशीर्लिङि च रूपमिदं समानम् । 'स्को' रिति सलोपः । तत्र विधिलिङि ईयातामित्यादि, आशिषितु ईयास्तामित्यादी॑ति विशेषः । ऐषीदिति । सिचि वृद्धिः । या प्रापणे इति । ननु गच्छतीत्यर्थे यातीति कथमित्यत आह — प्रापणमिह गतिरिति । णिजर्थस्त्वविवक्षित इति भावः । प्राणियातीति ।नेर्गदे॑ति णत्वम् । ययौ । याता । यास्यति । यातु । अयात् अयाताम् ।

Padamanjari

Up

index: 6.4.66 sutra: घुमास्थागापाजहातिसां हलि


माग्रहणेन मेङ् प्रणिदाने, माङ् माने, मा माने इति सर्वेषां ग्रहणम् । एवं गा इत्यत्रापि गाङ्गतौ, गैशब्दे, गा स्तुतौ च्छन्दसि, इणो गा लुङ्, इण्विदिक इति कक्तव्यम्, गाङ् लिटि इति सर्वेषां गारुपाणां ग्रहणम् गामादाग्रहणेष्वविशेषः इति वचनात् । जहतेरिति । ओहाक् त्यागे । जिहातेरिति । ओहाङ् गतौ इत्यस्य । भृञामित् इत्यभ्यासस्येत्वे सति जहातीति निर्देशो नोपपद्यते । कामं हागित्यपि निर्देशेन भवति जिहातेः प्रसङ्गः, तथा तु न कृतामित्येव । एतदेवत्यादि । यथा चैतज्ज्ञापकं तथा जनसनखनाम् इत्यत्रोक्तम् । ईत्वे वकारप्रतिषेधः, वकारस्य निमितभावेन प्रतिषेधो वकारप्रतिषेधः । वकारादावीत्यं न भवतीत्यर्थः । आतो मनिन्क्वनिब्वनिपश्च - घृतं पिबन्ति घृतपावानः, वसां पिबन्ति वसापावानः । क्वनिपीत्वं न भवति । धीवरी, पीवरीत्वत्र त्वौणादिकमीत्वं धायाप्योर्वा सम्प्रसारणम् तथा च स्थः क च इत्यत्र क्विपि ईत्वाभाव उदाहृतः ॥