8-4-11 प्रातिपदिकान्तनुम्विभक्तिषु च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् वा
वेति वर्तते। प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारस्तस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य वा णकार आदेशो भवति। प्रातिपदिकान्ते तावत् — माषवापिणौ, माषवापिनौ। नुमि — माषवापाणि, माषवापानि। व्रीहिवापाणि, व्रीहिवापानि। विभक्तौ — माषवापेण, माषवापेन। व्रीहिवापेण, व्रीहिवापेन। पूर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो योऽन्त्यो नकारस्तस्येदं णत्वमिष्यते। इह हि न भवति — गर्गाणां भगिनी गर्गभगिनी। यदा त्वेवं भवति — गर्गाणां भगो गर्गभगः। गर्गभगोऽस्या अस्तीति गर्गभगिणीति। तदा मातृभोगीणवद् नित्यमेव णत्वेन भवितव्यम्। माषवापिणी, माषवापिनीत्यत्र तु <<गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः>>इति कृदन्तेनैव समासे सति प्रातिपदिकस्योत्तरपदस्यैव सतो नकारो भवति। तथा चात्र नुम्ग्रहणं कृतम्। स हि समुदायभक्तत्वादुत्तरपदस्यान्तो न भवति॥ युवादीनां प्रतिषेधो वक्तव्यः॥ आर्ययूना॥ क्षत्रिययूना। प्रपक्वानि। दीर्घाह्नी शरत्॥
पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ।<!उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् !> (वार्तिकम्) ॥ नेह । गर्गाणां भगिनी गर्गभगिनी । अतएव नुङ्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुङ्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुभ्नादित्वान्न ।<!युवादेर्न !> (वार्तिकम्) ॥ रम्ययूना । परिपक्वानि । एकाजुत्तरपदे णः <{SK307}> । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥
<<प्रातिपदिकान्तनुम्विभक्तिषु च>> - प्रातिपदिकान्त । पूर्वपदस्थादिति ।पूर्वपदात्संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति ।वा भावकरणयो॑रित्यतस्तदनुवृत्तेरिति भावः । प्रातिपदिकान्ते इति । 'उदाहरणं वक्ष्यते' इति शेषः । माषवापिणाविति । माषान् वपेते इति विग्रहः ।बहुलमाक्षीक्ष्ण्ये॑ इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात्तदन्तनस्य णत्वमिति भावः । नुमीति । 'उदाह्यियते' इति शेषः । व्रीहिवापाणीति ।कृषीवलकुलानी॑ति शेषः । व्रीहिन्वपन्ती॑ति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् 'जश्शसोश्शिः' 'नपुंसकस्य झलचः' इति नुमिसर्वनामस्थाने चे॑ति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्ताविति । 'उदाह्यियते' इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति । णत्वाऽभावपक्षे माषवापिनौ, माषवापानि, माषवापेनेत्युदाहार्यमिंति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र ङीप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वान्नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आह — उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम् । तच्च प्रातिपदिकस्यैव विशेषणं, नतु तदन्तस्य, नापि नुम्विभक्त्योः, असंभवादिति भावः । नेहेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रहणे ।ञपि तदन्तमीकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य संमतमित्याह — अत एवेति । प्रातिपदकस्य उत्तरपदत्वविशेषणादेव, सूत्रकारेण कृतं नुङ्ग्रहणमर्थवत्, अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह — अङ्गस्येति । 'नपुंसकस्य झलचः' इति नुम्विधावङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याऽजन्तस्य चाऽङ्गस्य क्लीबस्य नुम् स्यात्सर्वनामस्थाने इत्यर्थो लभ्यते ।माषवापाणी॑त्यत्र तु सर्वनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्दस्यैवाऽवयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाऽभावात्प्रातिपदिकान्ते॑त्यनेन णत्वविकल्पस्याऽप्राप्तौ नुङ्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वं विशेषणाऽभावे तु माषवापशब्दान्तावयवस्य नुमो माषवापेति प्रातिपदिकान्तावयवत्वस्य सत्त्वात्प्रातिपदिकान्ते॑त्येव सिद्धे नुङ्ग्रहणं व्यर्थं स्यादित्यर्थः । तदेव#ं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुङ्ग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तुं नेदं लिङ्गमित्याह — किंञ्चेति । किञ्चेति विशेषप्रदर्शने । 'हिवि प्रीणने' भ्वादिः, इदित्त्वात् नुम्, लटः शत्रादेशः ।माषवापाणी॑त्यत्र नुमो नस्य प्रातिपदिकान्तत्वेपि प्रहिण्बन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाऽभावात्प्रातिपपदिकान्ते॑त्यनेन णत्वविकल्पस्याऽप्राप्तेस्तदर्थं नुङ्ग्रहणमावश्यकम् । अत उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुङ्ग्रहणं लिङ्गं स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्रवापिन्नि॑ति प्रातिपदिकस्य कथमुत्तरपदत्वं,गतिकारकोपपदानां कृद्भिः सह समासवचन॑मिति सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरिति चेत्, न उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु 'इवि व्याप्तौ' इदित्त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह — प्रेन्वनमिति । युवादेर्नेति । 'उक्तणत्वविकल्प' इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्चासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकार त्वात्प्राप्तिः । परिपक्वानीति । इह नुमो नकारस्यप्रातिपदिकान्ते॑ति विकल्पं बाधित्वाकुमति चे॑ति नित्यं णत्वं प्राप्तम्, तदिह, युवादित्वान्निषिध्यते । एकाजुत्तरपदे णः । अजन्तस्त्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात्स्मर्यते । नित्यमित्युक्तमिति ।आरम्भसामर्थ्यान्नित्यमिदं णत्व॑मिति तत्रैवोक्तमित्यर्थः । हरिमाणीति । मनेण्र्यन्तात्क्विप् चे॑ति क्विपिगतिकारकोपपदाना॑मिति सुबुत्पत्तेः प्राक् समासः । नान्तत्वान्ङीप् । अत्र॒मा॑निति प्रातिपदिकमुत्तरपदं तदन्तत्वान्नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । 'उदाह्यियते' इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पाधातोः 'आतोऽनुपसर्गे कः' इति कः,आतो लोप इटि चे॑त्याल्लोपः । क्षीरपशब्दाज्जश्शसोश्शिः । अजन्तलक्षणो नुम् । दीर्घः । तस्य नित्यं णत्वमम् । विभक्ताविति । 'उदाह्यियते' इति । शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्न नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह — रम्यविणेति । विः=पक्षी, रम्यश्चासौ विश्च, तेनेति विग्रहः । नचात्रपदव्यवायेऽपी॑ति निषेधः शङ्क्यः । किमिह प्रत्ययलक्षणे अन्तर्वर्तिर्नीं विभक्तिमाश्रित्यसुप्तिङन्त॑मिति पदत्वमभिमतम्, उत तृतीयाविभक्तौ परतः 'स्वादिषु' इति पदत्वम् । नाद्यः ।उत्तरपदत्वे चापदादिविधौ॑ इति प्रत्ययलक्षमप्रतिषेधात् । न द्वितीयः । 'स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य , तृतीयाविभक्तेः समुदायादेव विधानात् । अत एवपुनर्भूणा॑मित्यत्र नामि भूशब्दमात्रस्य पदत्वाऽभावात् 'पदव्यवायेऽपि' इति निषेधाऽभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत्पदत्वयवायेऽपीत्यत्रानुपदमेव वक्ष्यते ।
माषवापिणाविति ।'बहुलमाभीक्ष्ण्ये' इति णिनिः । माषवापाणीति । माषान्वपन्तीति'कर्मण्यण्' ,'जश्शसोः शि' ,'नपुंसकस्य झलचः' इति नुम् । इह कस्मान्न भवति - गर्गाणां भगिनी गर्गभगिनीति । भगिन्नित्यस्य प्रातिपदिकस्यान्तो नकार इत्यस्ति प्राप्तिः ? इत्यत आह - पूर्वपदाधिकारादिति । एतच्च'पूर्वपदात्संज्ञायाम्' इत्यत्रैव व्याख्यातम् । किमिदानीं नैव भवति - गर्गभगिणीति, भवति विवक्षान्तरे शास्त्रान्तेरेण नित्यम्, न त्वनेन ? इत्याह - यदा त्विति । मातृभोगीणवदिति । एतदपि तत्रैव व्याख्यातम् । यद्यौतरपदं प्रातिपदिकं गृह्यते माषवापिणीत्यत्र णत्वं न प्राप्नोति, यदुतरपदं वापिनीति न तस्यान्तो नकारः, यस्य चान्तो नकारो वापिन्निति न तदुतरपदम् ? अत आह - माषवापिणीत्यादि । ठुपपदमतिङ्ऽ इत्यत्रैतद्व्याख्यातम् । ठुतरपदभूतं प्रातिपदिकं गृह्यतेऽ इत्यत्र ज्ञापकमाह - तथा चेति । कथमेतज्ज्ञापकम् ? इत्याह - स हीति । अङ्गस्य नुम्विधीयते, ततश्च तद्भक्तो नुम् तद्ग्रहणेनैव गृह्यते, नोतरपदग्रहणेन । यदि च यत्किञ्चन प्रातिपदिकं गृह्यएत नोतरपदमेव, ततो नुम्ग्रहणमकर्तव्यमेव स्यात्;'समासप्रातिपदिकान्त' इत्येव सिद्धत्वात् । आर्ययूनेति । विशेषणमासः ।'श्वयुवमघोनामतद्धिते' इति सम्प्रसारणम् । प्रपक्वानीति । गतिसमासः । अत्र'कुमति च' इति नित्यं णत्वं प्राप्नोति । दीर्घाह्नी शरदिति । अयमपि युवादिषु द्रष्टव्य इत्युक्तम् ॥