3-2-124 लटः शतृशानचौ अप्रथमासमानाधिकरणे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
लटः अप्रथमासमानाधिकरणे वर्तमाने शतृशानचौ धातोः परः
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
वर्तमानार्थे प्रथमाभिन्नविभक्तेः विषये लट्-लकारस्य शतृ-शानच्-आदेशौ भवतः ।
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
The लट्-लकार gets शतृ and शानच् as आदेशाः to denote the present-tense, provided a विभक्ति other than प्रथमा is used along with these.
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
लटः शतृशानचौ इत्येतावादेशौ भवतः, अप्रथमान्तेन चेत् तस्य सामानाधिकरण्यं भवति। पचन्तं देवदत्तं पश्य। पचमानं देवदत्तं पश्य। पचता कृतम्। पचमनेन कृतम्। अप्रथमासमानाधिकरणे इति किम्? देवदत्तः पचति। लटिति वर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम्। क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणमनुवर्तयन्ति नन्वोर्विभाषा 3.2.121 इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः।
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
अनेन सूत्रेण लट्-लकारस्य स्थाने 'शतृँ' तथा 'शानच्' एतयोः द्वयोः कृत्-प्रत्यययोः विधानम् क्रियते । अयमादेशः 'वर्तमानकालस्य' अर्थे भवति । अस्मिन् सूत्रे 'अप्रथमासमानाधिकरणे' इत्यपि उक्तमस्ति, अतः अयमादेशः प्रथमाभिन्नविभक्तेः विवक्षा अस्ति चेदेव भवति ।
लः परस्मैपदम् 1.4.99 इत्यनेन शतृ-प्रत्ययः परस्मैपदसंज्ञकः भवति, तथा तङानावात्मनेपदम् 1.4.100 इत्यनेन शानच्-प्रत्ययः आत्मनेपदसंज्ञकः भवति । अतः शतृँ-प्रत्ययस्य प्रयोगः केवलं परस्मैपदस्य प्रयोगे एव भवति, तथा शानच्-प्रत्ययस्य प्रयोगः केवलमात्मनेपदस्य प्रयोगे एव भवति ।
'शतृँ'प्रत्यये शकारऋँकारौ इत्संज्ञकौ स्तः, अतः प्रयोगे केवलम् 'अत्' इत्यस्यैव प्रयोगः भवति । यथा - पठ् + शतृँ → पठत् ।
'शानच्' प्रत्यये शकारचकारौ इत्संज्ञकौ स्तः, अतः प्रयोगे केवलम् 'आन' इत्यस्यैव प्रयोगः भवति । यथा - वन्द् + शानच् → वन्दमान ।
प्रक्रिया -
1) पठ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ पठ् + शतृँ [लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति शतृँ]
→ पठ् + शप् + अत् [कर्तरि शप् 3.1.68 इति विकरणम् शप्]
→ पठत्
2) वन्द् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ वन्द् + शानच् [लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति शानच् ]
→ वन्द् + शप् + आन [कर्तरि शप् 3.1.68 इति विकरणम् शप्]
→ वन्द् + अ + मुक् + आन [आने मुक् 7.2.82 इति मुक्-आगमः]
→ वन्दमान
प्रयोगस्य उदाहरणानि - पचन्तं देवदत्तम् पश्य । गच्छता रामेण सह लक्ष्मणः अपि याति । वन्दमानाय शिष्याय गुरुः दत्ते । कम्पमानात् वृक्षात् फलानि पतन्ति । ब्रूवाणस्य आचार्यस्य नाम देवदत्तः । धावति अश्वे अर्जुनः उपविशति ।
ज्ञातव्यम् -
शतृशानच्-प्रत्ययौ 'कृत्-प्रत्ययौ' स्तः । एतयोः प्रयोगेण प्रातिपदिकनिर्माणम् भवति ।
तिङ्शित् सार्वधातुकम् 3.4.113 इत्यनेन शतृशानच्-प्रत्यययोः सार्वधातुकसंज्ञा भवति, अतः एतयोः प्रयोगे गणविकरणप्रत्ययः अपि यथायोग्यमागच्छति । यथा - नृत् + शतृँ → नृत्यत् । ज्ञा + शानच् → जानान । आप् + शतृँ → आप्नुवत् । कृ + शानच् → कुर्वाण ।
'अप्रथमासमानाधिकरणम्' शब्दस्य निर्माणम् एतादृशम् क्रियते -
अप्रथमा = प्रथमाभिन्नम् (इत्युक्ते - द्वितीया, तृतीया - आदयः) ।
समानाधिकरणम् = समानमभिधेयम् ।
अतः अप्रथमासमानाधिकरणम् = अप्रथमया समानाधिकरणम् = प्रथमाभिन्नम् यस्य (प्रत्ययस्य) अभिधेयम्, सः । इत्युक्ते, शतृ/शानच्- प्रत्ययान्त-प्रातिपदिकात् परः तस्यैव सुप्-प्रत्ययस्य प्रयोगः भवितुमर्हति यः प्रथमाभिन्नविभक्तेः अभिधेयम् स्वीकरोति । यथा - पच् + शतृ + अम् → पचन्तम् । वन्द + शानच् + शस् → वन्दमानान् - आदयः ।
केचन वैयाकरणाः अस्मिन् सूत्रे नन्वोर्विभाषा 3.2.121 इत्यस्मात् 'विभाषा' इति अपि अनुवर्तयन्ति । 'विभाषा' इत्युक्ते विकल्पः । अयम् विकल्पः 'प्रथमासमानाधिकरणार्थम्' अस्ति । इत्युक्ते, प्रथमायाः विषये अपि शतृ-शानच्-प्रत्यययोः प्रयोगः 'विकल्पेन' भवितुमर्हति । यथा - रामः पठन् अस्ति । छात्रः वन्दमानः अस्ति । माता पचन्ती अस्ति - आदयः । अस्मिन् विषये भाष्ये उक्तमस्ति - 'किम् तर्हि इदानीम् विभाषा? - प्रथमासमानाधिकरणे । यथा - पचन् पचति, पचमानः पचते - इति' ।
यद्यपि अनेन सूत्रेण शतृ-शानच्-प्रत्यययोः प्रयोगः 'वर्तमाने' उक्तः अस्ति, तथापि लृटः सद्वा 3.3.14 अनेन सूत्रेण अनयोः प्रत्यययोः प्रयोगः लृट्-लकारस्य स्थाने ('भविष्यति' अस्मिन् अर्थे) अपि भवति । यथा - करिष्यन्तम् पश्य । करिष्यमाणम् पश्य ।
संस्कृतभाषायाम् वर्तमानकालः एकः एव अस्ति, तस्य 'present continuous / present perfect' आदयः भेदाः न सन्ति । अतः शतृ-प्रत्ययस्य शानच्-प्रत्ययस्य च प्रथमाविभक्तेः प्रयोगः तमेव वर्तमानम् निर्देशयति यम् 'लट्लकारः' निर्देशयति । इत्युक्ते, 'रामः पठन् अस्ति' इत्युक्ते 'रामः पठति' इत्येव । द्वयोः वाक्ययोः अर्थयोः भेदः नास्ति ।
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
लटः शतृशनचावप्रथमासमानाधिकरणे - लटः शतृशानचौ ।वर्तमाने ल॑डिति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ, अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये' इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारावितौ । पचन्तमिति । पाकानुकूलव्यापाराश्रयमित्यर्थः,क्रियाप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि॑ति सिद्धान्तात् । शतुः शित्त्वेन सार्वधातुकच्छपि 'अतो गुणे' इति पररूपम् । शानचि शाचवितौ ।
index: 3.2.124 sutra: लटः शतृशानचावप्रथमासमानाधिकरणे
लटः शतृशानचावप्रथमासमानाधिकरणे॥ शकारः सार्वधातुकसंज्ञार्थः, ऋकार उगित्कार्यार्थः, चकारः स्वरार्थः। प्रथमाशब्दस्सुपामाद्ये त्रिके प्रसिद्धः, प्रथमाया अन्याऽप्रथमाउद्वितीयादिः, तत्र प्रत्ययग्रहणपरिभाषया तदन्तविधिः, अप्रथमान्तं द्वितीयाद्यन्तमित्यर्थः। अधिकरणमुअभिधेयम्, समानमुसाधारणम्, अभिधेयं यस्य तत्समानाधिकरणम्, अप्रथमान्तेन समानाधिकरणमप्रथमासमानाधिकरणम्। तृतीयेति योगविभागात्समासः। द्विपदो वा बहुव्रीहीः - -अप्रथमासमानाधिकरणं यस्येति।'यस्य च भावेन' इति सप्तमी अप्रथमासमानाधिकरणे लटि सति, तस्य लट इति षष्ठ।ल्र्थे सप्तमी। एष पर्युदासपक्षो दर्शितः। प्रसज्यप्रतिषेधपक्षे तु नञो भवतिना संबन्धः। प्रथमाशब्देन प्रथमान्तं गृह्यते। शेषं समानम्। तत्राद्ये पक्षे कुर्वतोऽपत्यं कौर्वतः, पाचतः, कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोतरपदयोः शतृशानचौ न स्याताम्, न ह्यत्र द्वितीयाद्यन्तेन सामानाधिकरण्यम्, न हि कुर्वतो देवदतस्य भक्तिः कुर्वतो देवदतस्यापत्यमित्यत्र समासतद्धितौ भवतः, सापेक्षत्वात् पदान्तरनिरपेक्षत्वे प्रथमान्तेन सामानाधिकरण्याभावः। प्रसज्यप्रतिषेधे तु प्रथमान्तेन सामानाधिकरण्याभावाददोषः। अस्तु तर्हि स एव? एवमपि कुर्वतो भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिरत्र न प्राप्नोति, ये चाप्येते समानाधिकरणवृतयस्तद्धितास्तेषु न स्यात् - कुर्वतरः, कुर्वाणतरः; कुर्वद्रूपः कुर्वत्कल्प इति? पर्युदासेऽप्येष दोषो द्रष्टव्यः। एवं तर्हि'प्रत्ययोतरपदयोश्च' इति लक्षणशेषः कर्तव्यः, तत्र पृथगुतरपदग्रहणम् ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति समासार्थाया विभक्तेर्लुकिकृते प्रत्ययलक्षणप्रतिषेधात्प्रत्ययपरत्वार्थम्। ननु च प्रत्ययोतरपदयोः सतोः शतृशानचौ भवतः, तयोश्च कृत्वात्प्रातिपदिकत्वे सति विभक्त्युत्पतौ सत्यां तद्धिताः, समासश्च, समासे च सत्युतरपदं तदितरेतराश्रयं भवति? नैष दोषः; ड।लप्प्रतिपदिकातद्धिताः, ते लकारस्य कृत्वाद्भविष्यन्ति, उतरपदेऽपि विधानसामर्थ्यातिङदेशं बाधित्वा लान्तस्य प्रातिपदिकत्वमाश्रित्य सुबुत्पतौ समास इति सिद्धम्। एवमपि वीक्षमाणस्यापत्यं वैक्षमाणिरित्यकृते शानचि अकारान्तत्वाभावादत इञोऽप्रसङ्गः, पचतितरामित्यत्र शतृशानचौ प्राप्नुतः, तथा पचतिरूपमित्यादौ'तिङ्श्च' इत्येततु लङदिविषयमेव स्यात्। तदेवं सर्वत्र दोषसद्भावे समासोऽपि तावन्न्याय्यो भवतीति पर्युदासमाश्रित्याह - अप्रथमान्तेन चेदित्यादि। तस्येति। लटः। कथं पुनर्लटो द्वितीयाद्यन्तेन सामानाधिकरण्यम्, यावता'लः कर्मणि च' इत्यनेन कर्तृकर्मणोर्विधीयमानो लकारः क्रियां प्रति गुणभूते कर्तृकर्मणी प्रतिपादयति, तथा च क्रियाप्रधात्वादाख्यातस्य क्रियान्तरयोगाभावाच्छक्त्यन्तरावेशाभावः, न हि भवति पचत्योदनं देवदतं पश्य पच्यते ओदनेन तृप्तः अपचदोदनं देवदतं पश्य पच्यते ओदनेन तृप्त इति, यथा - अन्येषु कृत्सु पाकं पश्य, पाकेन तृप्त इति? सत्यम्; तिङ्भाविनो लकारस्यायं स्वभावः यदुक्तगुणभूते कर्तृकर्मणी प्रतिपादयति, शत्रादिविषयस्य क्रियोपसर्जनकर्त्राद्यभिधानम्, ततश्च क्रियान्तरयोगे सति तन्निमितं द्वितीयाद्यन्तसामानाघिकरण्यमुपपद्यते। यद्यपि केवलस्य लटः प्रयोगाभावादप्रथमान्तेन सामानाधिकरण्यं न क्वचिदुपलब्धम्, तथापि तदादेशयोः शतृशानचोर्दर्शनात् स्थानिनो लकारस्यापि तद्योग्यत्वमनुमीयते, तेन लटः प्रक्रियार्थ विहितस्य काल्पनिकप्रथमान्तेन सामानाधिकरण्यमस्तीति दोषाभावः। अथ लड्ग्रहणं किमर्थम् - आदेशौ यथा स्यातां प्रत्ययान्तरं मा भूतामिति? नैतदस्ति; पूर्वसूत्रत एव लड्ग्रहणं स्वरयिष्यते, तस्येहानुवृतस्यार्थात् षष्ठ।ल विपरिणामे तस्यैवादेशौ भविष्यतः, न प्रत्ययान्तरमत आह - लडिति वर्तमाने पुनर्लड्ग्रहणमिति। क्वचित्प्रथमासामानाधिकरण्येऽपि भवत इति। अप्रथमासमानाधकरणत्वाभावोपलक्षणमिदम्, तेन कौर्वतः, कुर्वद्भक्तिरित्यादयोऽपि भवन्ति। सन्निति। ठस् भुविऽ'श्नसोरल्लोपः' । विद्यमान इति।'विद सतायाम्' 'दिवादिरनुदातेत्। जुह्वदिति।'नाभ्यस्ताच्छतुः' इति नुमभावः। माङ्याक्रोश इति। माङ् लुङे' पिवादः, तथा पुनर्लड्ग्रहणाद्योऽपि भूते लट्'ननौ पृष्टप्रतिवचने' इति तस्यापि भवतः - ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणम्पश्येति। एतच्च'ननौ पृष्टप्रतिवचने' इत्यत्र भाष्यकारेणोक्तम्। केचिदित्यादि। न चैवं पचन्तम्पश्येत्यादावपि विकल्पप्रसङ्ग इत्यत आह - व्यवस्थितविभाषा चेयमिति। यथादर्शनमिति। प्रथमासमानाधिकरणे विकल्पः, पचन्तं पश्येत्यादौ'प्रत्ययोतरपदयोश्च' नित्यम्पचतितरामित्यादौ नैव भवतः, अन्यथा तिङेऽपि स्थानिवद्भावात्स्यात्प्रसङ्गः। न तर्हीदानीमिदं वक्तव्यम् - अप्रथमासमानाधिकरण इति? वक्तव्यं च। किं प्रयोजनम्? नित्यार्थम्। नन्वेतदपि विभाषयैव सिद्धम्? सत्यम्; स एवार्थो वचनेन स्पष्टीक्रियते। एतेन'सम्बीधनै च' 'लक्षणहेत्वोः' इति च व्याख्यातम्॥