3-2-129 ताच्छील्यवयोवचनशक्तिषु चानश् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने
ताच्छील्यं तत्स्वभावता। क्यः शरीरावस्था यौवनादिः। शक्तिः सामर्थ्यम्। ताच्छील्यादिषु धातोश्चानश् प्रत्ययो भवति। ताच्छील्ये तावत् — कतीह मण्डयमानाः। कतीह भूषयमाणाः। वयोवचने — कतीह कवचं पर्यस्यमानाः। कतीह शिखण्डं वहमानाः। शक्तौ — कतीह निघ्नानाः। कतीह पचमानाः॥
एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥
<<ताच्छील्यवयोवचनशक्तिषु चानश्>> - ताच्छील्य । चानशि शचावितौ । भोगं भुञ्जान इति । भोगशील इत्यर्थः । कवचं विभ्राण इति । यौवनबालदिति भावः । शत्रुं निघ्ना इति । निहन्तुं शक्त इत्यर्थः । अतः परत्वाऽभावान्न मुक् । चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः ।
ताच्छील्यवयोवचनशक्तिषु चानश्॥ मण्डयमाना इत्यादि।'मडि भूषायाम्' 'भूष अलङ्कारे' चुरादी, ठसु क्षेपणेऽ,पर्यासःऊउसन्नहनम्, शिखापर्यायः शिखण्डशब्दः। वचनग्रहणं विस्पष्टार्थम्॥