साढ्यै साढ्वा साढेति निगमे

6-3-113 साढ्यै साढ्वा साढ इति निगमे उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

साढ्यै साढ्वा साढा इति निगमे निपात्यन्ते। सा॑ढ्य॒ै (मै० सं० १.६.३) समन्तात्। सा॒ढ्वा॑ (मै०सं० ३.८.५) शत्रून्। सहेः क्त्वाप्रत्यय ओत्त्वाभावः। पक्षे क्त्वाप्रत्ययस्य ध्यैभावः। साढेति तृचि रूपमेतत्। निगम इति किम्? सोढ्वा सोढेति भाषायाम्॥

Siddhanta Kaumudi

Up

सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुग्रः पृतनासु साह्ला (म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साह्ला॑) । अचोर्मध्यस्थस्य डस्य ळः ढस्य ह्लाश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्लाकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

साढेअति तृचि रुपमिति । अपपाठोऽयम्, आपाढोऽग्निर्बुहद्वयाः, आपाढमुग्रं सहमानम्, आषाढ्ंअ युत्सु पृतनासु, आषाढाय सहमानाय इत्यादौ निष्ठायामात्वादर्शनात् । तस्मान्नष्ठायां रुपमिति पाठः । सूत्रवृतौ च साढेअति ह्रस्वान्तं छेतव्यम् । यदि तृजन्तेऽपि क्वचिदात्वं दृश्यते, तदान्यतरत्सूत्रे इतिकरणस्य प्रकारार्थत्वात्साध्यम् ॥