लुटः प्रथमस्य डारौरसः

2-4-85 लुटः प्रथमस्यडारौरसः

Sampurna sutra

Up

लुटः प्रथमस्य डा-रौ-रसः

Neelesh Sanskrit Brief

Up

लुट्-लकारस्य प्रथमपुरुषस्य प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति ।

Neelesh English Brief

Up

The प्रथमपुरुष प्रत्ययाः of लुट्-लकार are converted respectively to डा, रौ and रस्.

Kashika

Up

लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डा रौ रस् इत्येत आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य — अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्येति किम्? श्वः कर्तासि। श्वोऽध्येतासे॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः॥

Siddhanta Kaumudi

Up

डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥

Laghu Siddhanta Kaumudi

Up

डा रौ रस् एते क्रमात् स्युः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥

Neelesh Sanskrit Detailed

Up

लुट्-लकारस्य विषये प्रथमपुरुषस्य परस्मैपदस्य तिप्-तस्-झि प्रत्ययानाम्, तथा आत्मनेपदस्य त-आताम्-झ प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति । यथा - 1) पठँ व्यक्तायां वाचि इति परस्मैपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतादृशं सिद्ध्यन्ति - (अ) पठ् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + तास् + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → पठ् + इ + तास् + डा [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति तिप्-प्रत्ययस्य डा-आदेशः] → पठ् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् <<टेः>> 6.4.143 इति अ-भस्य टिसंज्ञकस्य अपि लोपः] → पठि + ता [<<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → पठिता (आ) पठ् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + तास् + तस् [<<तिप्तस्..>> 3.4.78 इति तस् ] → पठ् + इ + तास् + रौ [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति तस्-प्रत्ययस्य रौ-आदेशः] → पठ् + इ + ता+ रौ [<<रि च>> 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठितारौ (इ) पठ् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + तास् + झि [<<तिप्तस्..>> 3.4.78 इति झि ] → पठ् + इ + तास् + रस् [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति झि-प्रत्ययस्य रस्-आदेशः] → पठ् + इ + ता+ रस् [<<रि च>> 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठि + तारस् [<<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → पठितारः [<<ससजुषो रुँः>> 8.2.66 इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 2) एधँ वृद्धौ इति आत्मनेपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतानि - एधिता, एधितारौ, एधितारः । (अ) एध् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → एध् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → एध् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → एध् + इ + तास् + त [<<तिप्तस्..>> 3.4.78 इति त] → एध् + इ + तास् + डा [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति त-प्रत्ययस्य डा-आदेशः] → एध् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् <<टेः>> 6.4.143 इति अ-भस्य टिसंज्ञकस्य अपि लोपः] → एधि + ता [<<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → एधिता (आ) एध् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → एध् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → एध् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → एध् + इ + तास् + आताम् [<<तिप्तस्..>> 3.4.78 इति आताम् ] → एध् + इ + तास् + रौ [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति आताम्-प्रत्ययस्य रौ-आदेशः] → एध् + इ + ता+ रौ [<<रि च>> 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → एधि + तारौ [<<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → एधितारौ इ) एध् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → एध् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → एध् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → एध् + इ + तास् + झ [<<तिप्तस्..>> 3.4.78 इति झ ] → एध् + इ + तास् + रस् [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति झ-प्रत्ययस्य रस्-आदेशः] → एध् + इ + ता+ रस् [<<रि च>> 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → एधि + तारस् [<<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते <<दीधीवेवीटाम्>> 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → एधितारः [<<ससजुषो रुँः>> 8.2.66 इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]

Balamanorama

Up

<<लुटः प्रथमस्य डारौरसः>> - भू इ तास् इति स्थिते — उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते — लुटः प्रथमस्य । डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'लुट' इति स्थानषष्ठी । लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति — यथासङ्ख्यलभ्यम । ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति — डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामर्थ्याट्टेरिति टिलोप इत्यर्थः ।

Padamanjari

Up

लुटः प्रथमस्य डारीरसः॥ परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा - सिद्धान्तेऽभस्यअपि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। रि चऽ इति तासस्त्योर्लोपः। अध्येतेति। ठिङ् अध्ययनेऽ। अथात्र डारौरस्सु कृतेषु टेरेत्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृतत्वात्। इह हि तशब्दस्य टेरेत्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा - पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम् - ये तिङदेशास्तेषां टेरेत्वं न भवतीति, अन्यथा'थासः स' इत्येव वाच्यं स्यात्। कर्तासीति।'तासस्त्योः' इति सलोपः॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो द्वितीयाध्यायस्य तुरीयश्चरणः॥