3-3-15 अनद्यतने लुट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम् लृट् शेषे
index: 3.3.15 sutra: अनद्यतने लुट्
अनद्यतने भविष्यति धातोः परः लुट्-प्रत्ययः
index: 3.3.15 sutra: अनद्यतने लुट्
अनद्यतन-भविष्यकालं द्योतयितुम् धातोः परः लुट्-लकारः प्रयुज्यते ।
index: 3.3.15 sutra: अनद्यतने लुट्
लुट्-लकार is used to indicate actions that will happen tomorrow or later.
index: 3.3.15 sutra: अनद्यतने लुट्
भविष्यति इत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोः लुट् प्रत्ययो भवति। लृटोऽपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतने इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यति। परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या। इयं नु कदा गन्ता, या एवं पादौ निदधाति। अयं नु कदाऽध्येता, य एवमनभियुक्तः।
index: 3.3.15 sutra: अनद्यतने लुट्
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥
index: 3.3.15 sutra: अनद्यतने लुट्
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् ॥
index: 3.3.15 sutra: अनद्यतने लुट्
'अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । अनद्यतनकाले भविष्यमाणां क्रियां दर्शयितुम् लुट्-लकारः प्रयुज्यते ।
यथा - सः श्वः विद्यालयं गन्ता । अहं अग्रिमसप्ताहे व्याकरणम् पठितास्मि । ते अग्रिमवर्षे स्नातकाः भवितारः ।
ज्ञातव्यम् - एतत् सूत्रम् लृट् शेषे च 3.3.13 इत्यस्य अपवादरूपेण आगच्छति । लृट्-शेषे च इत्यनेन शुद्ध-भविष्यकालार्थम् सर्वत्र लृट्-प्रत्ययः विधीयते । तस्य बाधकरूपेण अनेन सूत्रेण अनद्यतन-भविष्यकालार्थम् लुट्-लकारः पाठ्यते । अतः यदि क्रियायाः 'अनद्यनत्वम्' वाक्ये स्पष्टमस्ति, तर्हि लुट्-लकारस्यैव प्रयोगः करणीयः, लृट्-लकारस्य न । अतः 'सः श्वः विद्यालयं गमिष्यति' इति वाक्यम् व्याकरणदृष्ट्या असाधु अस्ति । यत्र कालः स्पष्टः नास्ति, तत्र तु लृट्-लकारः एव प्रयोक्तव्यः । यथा - सः विद्यालयं गमिष्यति । सः अद्य श्वः वा विद्यालयं गमिष्यति ।
index: 3.3.15 sutra: अनद्यतने लुट्
अनद्यतने लुट् - अनद्यतने लुट् । धातोरित्यधिकृतम् । 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति । तदाह — भविष्यत्यनद्यतन इति । अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्याख्यातः । उटावितौ । लुटस्तिबादयः ।
index: 3.3.15 sutra: अनद्यतने लुट्
अनद्यतन इति बहुव्रीहिनिर्द्देश इति । ठनद्यतने लङ्ऽ इत्यत्रैवैतद्व्याख्यातं तत एवावधार्यम् । परिदेवने इति । परिदेवनमुअनुशोचनम् । श्वस्तनीति । लुटः पूर्वाचार्यसंज्ञा । भविष्यन्त्यर्थ इति । भविष्यन्तीति लृटः संज्ञा, तस्या अर्थे भविष्यत्सामान्यैत्यर्थः । भावष्यदर्थ इति वा पाठः । भविष्यत्सामान्यरूपेऽर्थ इत्यर्थः । येवमिति । विलम्बितम् । अनभियुक्तःउपरिचयरहितः ॥