तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्

3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भविष्यतीत्येव। क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययो भवतः। भोक्तुं व्रजति। भोजको व्रजति। भुजिक्रियार्थो व्रजिरत्रोपपदम्। क्रियायामिति किम्? भिक्षिष्य इत्यस्य जटाः। क्रियार्थायामिति किम्? धावतस्ते पतिष्यति दण्डः। अथ किमर्थं ण्वुल् विधीयते, यावता <<ण्वुल्तृचौ>> ३.१.१३३ इति सामान्येन विहित एव, सोऽस्मिन्नपि विषये भविष्यति? लृटा क्रियार्थोपपदेन बाध्यते। वासरूपविधिना सोऽपि भविष्यति? एवं तर्ह्येतज् ज्ञाप्यते — क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्ति (महाभाष्य २.१४१) इति। तेन कर्ता व्रजति, विक्षिपो व्रजतीत्येवमादि निवर्त्यते॥

Siddhanta Kaumudi

Up

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ॥

Laghu Siddhanta Kaumudi

Up

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

भिक्षिष्य इत्यस्य जटा इति । अत्र भिक्षणक्रियार्थत्वं जटानाम्, न तु क्रियात्वम्; द्रव्यत्वाज्जटानाम् । धावतस्ते पतिष्यति दण्ड इति । अस्त्यत्र धावनक्रियोपपदम्, न त्वसौ दण्डपातनार्थं धावति, किं तर्हि ? धावतोऽर्थात्पतिष्यति दण्डः । उद्दे शेन हि तादर्थ्यं विविच्यते, न तु हेतुत्वमात्रेण तादर्थ्यम् । अथेत्यादि चोद्यम् । परिहरति - लृटा क्रियार्थोपपदेनेति । तुमुना तु बाधो नाशङ्कनीयः; भिन्नार्थत्वात् - कर्तरि ण्वुल्, तुमुन् पुनर्भावे । कथम् ?'तुमर्थे सेसेन्' इत्यत्र तुमर्थग्रहणात् । यदि हि'कर्तरि कृत्' इति वचनात्कर्तरि तुमुन् स्यातद्वदेव सेसेन्प्रभृतयोऽपि कर्तरि भविष्यन्ति । अतस्तुमर्थग्रहणात्कर्तुस्तावदयमपकृष्यते । न चान्योऽर्थो निदिश्यते, अनिदिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति । कश्च धातोः स्वार्थः ? भाव एव । लृट् तु यद्यपि भावकर्मणोश्चरितार्थस्तथापि क्रियायां क्रियार्थायामुपपदे भविष्यति काले च विधानाद्विसेषविहितः । ण्वुल्विधौ तु कर्तरीति न श्रूयते, अतोऽसौ विशेषविहितेन लृटा बाध्यते । अथ वा किं न एतेन विशेषविहित इति, द्वयोःसावकाशत्वेऽपि परत्वाल्लृट् ण्वुलं बाधएत । पुनश्चोदयति - वासरूपविधिनेति । परिहरति - एवं तर्हीति । नन्वसति प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् ? ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्ठीप्रतिषेधो भविष्यदधिकारविहितस्याकस्य प्रयोगे यथा स्यात्, वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र मा भूदिति ? एवं मन्यते - पदान्तरसन्निधानादत्र भविष्यत्कालत्वं गम्यते । यदा हि बालविषयमेतत्प्रयुज्यते तदा तस्यामवस्थायां वर्षशतपूरणस्य पुत्रपौत्रदर्शनस्य चासम्भवातावन्तमसौ कालं जीविष्यतीत्यर्थाद्गम्यते, न त्वत्र पदार्थो भविष्यत्कालत्वमिति । स्थिते त्वस्मिन् ण्वुल्विधाने'वषशतस्य पूरकः' इत्यादौ भविष्यत्कालस्य पदार्थत्वेऽपि न दोष इत्यभिप्रायेण ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यत्रोक्तम् - भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्, तेन वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र न भवतीति ॥