ख्यत्यात् परस्य

6-1-112 ख्यत्यात् परस्य संहितायाम् अचि अति ङसिङसोः

Sampurna sutra

Up

ख्य-त्यात् परस्य ङसि-ङसोः अतः उत् ।

Neelesh Sanskrit Brief

Up

'ख्य्' / 'त्य्' इत्यस्मात् परस्य ङसिँ/ङस् प्रत्ययस्य अकारस्य उकारादेशः भवति ।

Neelesh English Brief

Up

The अकार of the ङसिँ/ङस् प्रत्यय following a 'ख्य्' / 'त्य्' is converted to उकार.

Kashika

Up

ङसिङसोरिति वर्तते, उदिति च। ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दती — शब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्, ताभ्यां परस्य ङसिङसोरत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्योदाहरणम् — सह खेन वर्तत इति सखस्तमिच्छतीति क्यच् सखीयति। सखीयतेः क्विप् सखीः, तस्य ङसिङसोः सख्युरिति। तीशब्दस्यापि — लूनमिच्छति लूनीयति। लूनीयतेः क्विपि लुप्ते, लून्युरागच्छति। लून्युः स्वम्। निष्ठानत्वम् ८.२.४४ <<पूर्वत्रासिद्धम्>> ८.२.१ इत्यसिद्धम्। विकृतनिर्देशादेवेह न भवति — अतिसखेरागच्छति, सेनापतेरागच्छतीति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते न तदन्तस्य॥

Siddhanta Kaumudi

Up

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥

Laghu Siddhanta Kaumudi

Up

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥

Neelesh Sanskrit Detailed

Up

'खि / खी' इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः 'ख्य्' शब्दः, तथा च 'ति / ती' इत्यस्मात् शब्दात् यणादेशे कृते प्राप्तः यः 'त्य्' शब्दः, तस्मात् परस्य पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य तथा च षष्ठी-एकवचनस्य ङस्-प्रत्ययस्य अकारस्य उकारादेशः भवति । खि/ति/खी/ती इत्येतेषु कश्चन शब्दः यस्य प्रातिपदिकस्य अन्ते अस्ति, तादृशस्य प्रातिपदिकस्य सुबन्तप्रक्रियायाम् एव अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति । क्रमेण उदाहरणानि एतानि — 1. खि-अक्षरान्तः सखि-शब्दः सखि-शब्दस्य पञ्चमी-षष्ठी-एकवचने प्रकृतसूत्रेण उकारादेशं कृत्वा 'सख्युः' इति रूपं भवति । प्रकिया इयम् — सखि + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः] → सखि + अस् [इत्संज्ञालोपः] → सख्य् अस् [<<इको यणचि>> 6.1.77 इति यणादेशः] → सख्य् उस् [<<ख्यत्यात् परस्य>> 6.1.112 इति अकारस्य उकारः] → सख्युः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 2. ति-अक्षरान्तः पति-शब्दः पति + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः] → पति + अस् [इत्संज्ञालोपः] → पत्य् अस् [<<इको यणचि>> 6.1.77 इति यणादेशः] → पत्य् उस् [<<ख्यत्यात् परस्य>> 6.1.112 इति अकारस्य उकारः] → पत्युः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 3. खी-अक्षरान्तः सखी-शब्दः 'सखी' इति कश्चन ईकारान्तपुंलिङ्गशब्दः 'सखम् आत्मनः इच्छति' (the one that likes an aerial entity, like airplane etc for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्य शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते — सखी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः] → सखी + अस् [इत्संज्ञालोपः] → सख्य् अस् [<<इको यणचि>> 6.1.77 इति यणादेशः] → सख्य् उस् [<<ख्यत्यात् परस्य>> 6.1.112 इति अकारस्य उकारः] → सख्युः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 4) ती-अक्षरान्तः लूती-शब्दः 'लूनी' इति कश्चन (नकारोपधः) ईकारान्तपुंलिङ्गशब्दः 'लूनम् आत्मनः इच्छति' (the one that likes sliced entities for himself) अस्मिन् अर्थे सिद्ध्यति । अस्य सिद्धिः अधः पृथग् रूपेण दर्शिता अस्ति । अस्मिन् शब्दे विद्यमानः उपधानकारः त्रिपादीसूत्रेण निर्मितः अस्ति, ततः सुबुत्पत्तेः समये अयम् नकारः असिद्धः वर्तते, तस्य स्थाने मूलरूपेण विद्यमानः तकारः एव दृश्यते । अतः लूती-इति शब्दात् सुबुत्पत्तिं कृत्वा, तत्र पञ्चमी-षष्ठी-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः कृतः दृश्यते — लूती + ङसिँ/ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः] → लूती + अस् [इत्संज्ञालोपः] → लूत्य् अस् [<<इको यणचि>> 6.1.77 इति यणादेशः] → लूत्य् उस् [<<ख्यत्यात् परस्य>> 6.1.112 इति अकारस्य उकारः] → लून्य् उस् [ <<ल्वादिभ्यः>> 8.2.34 इति निष्ठातकारस्य नकारः] → लून्युः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] सूत्रप्रयोगस्य नियमः यद्यपि इदं सूत्रम् 'ति/ती/खि/खी' इत्यन्तानाम् शब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् प्रयोगम् अर्हति, तथापि इदम् सूत्रम् बहुषु स्थलेषु अङ्गकार्यस्य सूत्रैः बाध्यते । इत्युक्ते, यत्र किञ्चन अङ्गकार्यम् सम्भवति, तत्र <<वार्णादाङ्गं बलीयः>> इति परिभाषया अङ्गकार्यस्यैव प्राधान्यम् वर्तते अतः तेन अङ्गकार्येण प्रकृतसूत्रस्य बाधः भवति । प्रकृतसूत्रस्य प्रयोगः अङ्गकार्यस्य अप्राप्तौ एव सम्भवति इत्याशयः । उदाहरणद्वयम् एतादृशम् — 1. घिसंज्ञाविशिष्टेन कार्येण प्रकृतसूत्रस्य बाधः — यत्र इकारान्तशब्दानाम् घि-संज्ञा भवति, तत्र <<घेर्ङिति>> 7.3.111 इत्यनेन ङित्-प्रत्यये परे अङ्गस्य गुणः सम्भवति । अस्मिन् गुणे कृते अग्रे यणादेशस्य प्राप्तिः नास्ति, अतः एतेषाम् शब्दानाम् प्रक्रियायाम् प्रकृतसूत्रम् नैव प्रवर्तते । i) प्रायेण सर्वेषाम् अपि ति/खि-अक्षरान्त-पुंलिङ्शब्दानाम् <<शेषो घ्यसखि>> 1.4.7 इति सूत्रेण घिसंज्ञा भवति । यथा —‌ मारुति, पदाति । ii) समस्तपदे उत्तरपदरूपेण विद्यमानस्य पति-शब्दस्य <<पतिः समास एव>> 1.4.8 इति सूत्रेण घिसंज्ञा भवति । यथा — भूपति, गजपति । ii) <<शेषो घ्यसखि>> 1.4.7 इत्यत्र निर्दिष्टेन 'सखि'शब्देन तदन्तस्य ग्रहणं न क्रियते (<<ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति>>), अतः 'सख्यन्त'शब्दानाम् घिसंज्ञा अवश्यं भवति । यथा — अतिसखि, सुसखि । iv) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे <<ङिति ह्रस्वश्च>> 1.4.6 इत्यनेन प्राप्तायाः वैकल्पिक-नदीसंज्ञायाः अभावपक्षे <<शेषो घ्यसखि>> 1.4.7 इति सूत्रेण घिसंज्ञा भवति । यथा — मति, गति । 2. नदीसंज्ञाविशिष्टेन कार्येण प्रकृतसूत्रस्य बाधः — यत्र इकारान्तशब्दानाम् / ईकारान्तशब्दानाम् नदी-संज्ञा भवति, तत्र <<आण्नद्याः>> 7.3.112 इत्यनेन प्रक्रियायाम् आडागमः क्रियते । अस्मात् आडागमात् परस्य ङसिँ/ङस्-प्रत्यय-अकारस्य <<आटश्च>> 6.1.90 इति वृद्ध्येकादेशः भवति, अतः तत्र अस्य सूत्रस्य प्रयोगः नैव सम्भवति । i) ईकारान्तस्त्रीलिङ्गशब्दानाम् <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन नदीसंज्ञा भवति । यथा — जगती, बृहती, युवती । ii) इकारान्त-स्त्रीलिङ्गशब्दानाम् ङित्-प्रत्यये परे <<ङिति ह्रस्वश्च>> 1.4.6 इत्यनेन विकल्पेन नदीसंज्ञा भवति । यथा — मति, गति । सखी यथा लूनी (लूती) इति शब्दयोः सिद्धिः उपरि निर्दिष्टे तृतीये उदाहरणे निर्दिष्टस्य सखी-शब्दस्य सिद्धिः एतादृशी अस्ति — 1. खेन (= आकाशेन) सह वर्तते सः अस्मिन् अर्थे <<तेन सहेति तुल्ययोगे>> 2.2.28 इत्यनेन बहुव्रीहिसमासं कृत्वा <<वोपसर्जनस्य>> 6.3.82 इत्यनेन सह-इत्यस्य -आदेशः भवति, येन सख इति प्रातिपदिकम् सिद्ध्यति । 2. सख इत्यस्मात् प्रातिपदिकात् सखम् आत्मनः इच्छति अस्मिन् अर्थे <<सुपः आत्मनः क्यच्>> 3.1.8 इत्यनेन क्यच्-प्रत्ययं कृत्वा सख + य इति जाते, <<क्यचि च>> 7.4.33 इत्यनेन अङ्गस्य ईकारादेशं कृत्वा सखीय इति शब्दः सिद्ध्यति । <<सनाद्यन्ताः धातवः>> 3.1.32 इत्यनेन अस्य धातुसंज्ञा भवति । 3. सखीय अस्मात् धातोः <<क्विप् च>> 3.2.76 इत्यनेन कर्त्रर्थे क्विप्-प्रत्यये कृते सखीय + क्विप् इति स्थिते <<अतो लोपः>> 6.4.48 इत्यनेन यकारात् परस्य अकारस्य लोपः, ततश्च <<लोपो व्योर्वलि>> 6.1.66 इत्यनेन यकारस्य अपि लोपः भवति । अत्र प्रक्रियायाम् लुप्त-अकारस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन स्थानिवद्भावे प्राप्ते, <<न पदान्तद्विर्वचनवरेयलोप...>> 1.1.58 इत्यनेन स्थानिवद्भावः निषिध्यते । अतः अत्र यकारलोपः सम्भवति, यकारलोपे च कृते सखी इति प्रातिपदिकम् सिद्ध्यति । सखम् आत्मनः इच्छति सः सखीः इति अस्य शब्दस्य अर्थः । उपरि निर्दिष्टे चतुर्थे उदाहरणे निर्दिष्टस्य लुती-शब्दस्य सिद्धिः अनेनैव प्रकारेण लूञ् (छेदने, क्र्यादिः, <{9.16}>) इत्यस्मात् धातोः क्रियते । तत्र प्रक्रियायाम् लूयते इति अस्मिन् अर्थे लू-धातोः <<निष्ठा>> 3.2.102 इति सूत्रेण क्त-प्रत्ययः, तत्र 'आत्मनः इच्छति' अस्मिन् अर्थे <<सुप आत्मनः क्यच्>> 3.1.8 इत्यनेन क्यच्, ततश्च कर्तृनिर्देशार्थम् <<क्विप् च>> 3.2.76 इत्यनेन क्विप्-प्रत्ययः भवति । प्रक्रिया इयम् — लूञ् (छेदने, क्र्यादिः, <{9.16}>) → लू + क्त + क्यच् + क्विप् [<<निष्ठा>> 3.2.102, <<सुप आत्मनः क्यच्>> 3.1.8, <<क्विप् च>> 3.2.76 → लू + त + य + ० [इत्संज्ञालोपः । क्विप्-प्रत्यये वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः भवति ।] → लू + त् + ई + य [<<क्यचि च>> 7.4.33 इति अकारस्य इकारादेशः] → लू + त् + ई [लुप्त-क्विप्-प्रत्यययविशिष्टम् कार्यम् <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन अवश्यं प्रवर्तते, अतः यकारोत्तरस्य अकारस्य <<अतो लोपः>> 6.4.48 इत्यनेन लोपः भवति, यकारस्य च <<लोपो व्योर्वलि>> 6.1.66 इति लोपः विधीयते ।] →लू + न् + ई [<<ल्वादिभ्यः>> 8.2.44 इति निष्ठातकारस्य नकारः । इदम् सूत्रम् यद्यपि अत्र निर्दिष्टम् अस्ति, तथापि इदम् त्रिपादीसूत्रम् अस्ति अतः सपादसप्तयाध्याय्याः कृते असिद्धम् अस्ति । अतः, अत्र क्विबन्तात् प्रातिपदिकात् यदा सुबुत्पत्तिः भवति, तदा तत्र लूती इत्येव प्रातिपदिकं दृश्यते । अतः उपरि चतुर्थ्यां प्रक्रियायाम् लूती-प्रातिपदिकात् सुबुत्पत्तिं कृत्वा ततः एव <<ल्वादिभ्यः>> 8.2.44 इत्यनेन नत्वम् कृतम् अस्ति ।] →‌ लूनी

Balamanorama

Up

<<ख्यत्यात् परस्य>> - ख्यत्यात्परस्य ।खिखी॑-त्यनयोः, ति-ती॑त्यनयोश्च कृतयणादेशयोः 'ख्य' 'त्य' इति निर्देशः । यकारादकार उच्चारणार्थः ।एङः पदान्ता॑दित्यतोऽतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात्षष्ठन्ततया विपरिणम्यते ।ङसिङसोश्चे॑त्योङसिङसो॑रित्यनुवर्तते । अवयवषष्ठएषा । ततश्च 'ङसिङसोरवयवस्य अत' इति लभ्यते ।ऋत् उ॑दित्यत, उदित्यनुवर्तते । 'एकः पूर्वपरयोः' इति तु निवृत्तम्,पर॑ग्रहणसामर्थ्यात् । अन्यथाख्यत्या॑दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन । तदाह — खितिशब्दाभ्यामित्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ ।

Padamanjari

Up

खिशब्दशीशब्दयोरित्यादि। यणादेशे कृते तुल्यरूपत्वाद् द्वयोरपि ग्रहणम्। एतदर्थमेवागन्तुकेनाकारेण यणादेशं कृत्वा विकृतनिर्द्देशः कृतः; अन्यथा खित्योरिति ह्रस्वयोर्गहणे दीर्घयोर्न स्यात्, दीर्घयोर्गहणे ह्रस्वयोर्नस्यात्। विकृतनिर्द्देशे तु द्वयोरपि भवति। अकारान्तयोस्तु मुख्यापत्यादिवर्तिनोर्ग्रहणं न भवति,'सख्युर्यः' 'पत्युर्नो' ठापत्यस्य चऽ इत्यादिर्निर्द्देशात्। सखीयतेः क्विप् सखीरिति। ननु चाल्लोपस्य स्थानिवद्भावद्याणा भाव्यम्, तत्र कृते यलोपे स्थानिवत्वनिषेधादादिष्टदचः पूर्वत्वाच्च पूनः स्थानिवत्वाभावात्'लोपो व्योर्वलि' इति यलोपे सश्युरित्यादि न सिद्ध्यति ? नैतदस्ति;'क्वौ लुप्तं न स्यानिवत्' इति स्थानिवत्वनिषेधात्। विकृतनिर्द्देशश्य प्रयोजनान्तरमप्याह -विकृतनिर्देशादिति। अतिसखेरिति। अतिक्रान्तः सखा येनेति बहुव्रीहिः। यद्वा -शोभनः सखा अतिसखा,'न पूजनात्' इति समासान्तनिषेधः। अथ स एव यणादेशोऽत्र कस्मान्न भवति,'घेङिति' इति गुणेन बाधितत्वादिति चेत्? न;'शेषो घ्यसखि' इति घिसंज्ञाप्रतिषेधादित्यत आह -सखिशब्दस्य केवलस्यैव हीति। एतच्च तत्रैव प्रतिपादितम् ॥