8-2-34 नहः धः पदस्य पूर्वत्र असिद्धम् झलि अन्ते हः धातोः
नहः हः धः झलि पदस्य अन्ते
नह्-धातोः अन्तिमहकारस्य पदान्ते झल्-वर्णे वा परे धकारादेशः भवति ।
The हकार for the verb नह् is converted to धकार at पदान्त or when followed by a झल् letter.
नहो हकारस्य धकारादेशो भवति झलि परे, पदान्ते च। नद्धम्। नद्धुम्। नद्धव्यम्। उपानत्। परीणत्॥
नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्स्मात् ऋत्विक् <{SK373}>आदिना क्विन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतस्रादेशः । चतस्रः 2 । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्ववत् ॥
नहो हस्य धः स्याज्झलि पदान्ते च॥
णहँ (बन्धने) अस्य धातोः हकारस्य झलि परे पदान्ते च <<हो ढः>> 8.2.31 इत्यनेन ढत्वे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन धत्वम् विधीयते । यथा - 1) 'उप+नह्' इत्यस्य क्विप्-प्रत्यये कृते 'उपानह्' अयं हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचने - उपानह् + सुँ → उपानह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः । लोपेऽपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति नह्-इत्यस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा] → उपानध् [<<नहो धः>> 8.2.34 इति पदान्ते हकारस्य धकारः] → उपानद् [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम्] → उपानद् / उपानत् [<<वा पदान्तस्य>> 8.4.56 इति वैकल्पिकं चर्त्वम्] 2) नह्-धातोः क्त-प्रत्ययान्तरूपम् - नह् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → नध् + त [हकारस्य <<नहो धः>> 8.2.34 इति झलि परे धकारः] → नध् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन तकारस्य धकारः] → नद् + ध [<<झलां जश् झशि>> 8.4.55 इति धकारस्य दकारः] → नद्ध