8-2-44 ल्वादिभ्यः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
<<लूञ् छेदने>> इत्येतत्प्रभृति <<व्री वरणे>> इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते। तेभ्य उत्तरस्य निष्ठातकारस्य नकारादेशो भवति। लूनः। लूनवान्। धूनः। धूनवान्। जीनः। जीनवान्॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद् भवतीति वक्तव्यम्॥ कीर्णिः। गीर्णिः। शीर्णिः। लूनिः। धूनिः॥ दुग्वोर्दीर्घश्चेति वक्तव्यम्॥ दु — आदूनः। गु — विगूनः॥ पूञो विनाश इति वक्तव्यम्॥ पूना यवाः। विनष्टा इत्यर्थः। विनाश इति किम्? पूतं धान्यम्॥ सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्॥ सिनो ग्रासः स्वयमेव। ग्रासकर्मकर्तृकस्येति किम्? सिता पाशेन सूकरी। ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति — सितो ग्रासो देवदत्तेनेति॥
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या -<{SK2412}> । जीनः ॥<!दुग्वोर्दीर्घश्च !> (वार्तिकम्) ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ।<!पूञो विनाशे !> (वार्तिकम्) ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् ।<!सिनोतेर्ग्रासकर्मकर्तृकस्य !> (वार्तिकम्) ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥