Home
Prev 1.4.5
Next 1.4.7
ङिति ह्रस्वश्च 1-4-6 ङिति ह्रस्वः च आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी न इयङुवङ्_स्थानौ अस्त्री वा
Sampurna sutra Up
इयङ्-उवङ्-स्थानौ यू स्त्र्याख्यौ, ह्रस्वः च, ङिति नदी वा, अस्त्री
Neelesh Sanskrit Brief Up
"स्त्री" इति शब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः इयङ्स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गवाचिनः शब्दाः , तथा ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति । यथा - धी, भू, मति, भूरि, धेनु, लघु ।
Neelesh English Brief Up
Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश, and any ह्रस्व-इकारान्त/हस्व-उकारान्त word optionally gets the term नदी in presence of a ङित् प्रत्यय.
Kashika Up
दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति वा विधीयते। ङिति परतो ह्रस्वश्च य्वोः संबन्धी यः स्त्र्याख्यः, स्त्र्याख्यावियङुवङ्स्थानौ च यू वा नदीसंज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्रीत्येव — स्त्रियै। स्त्र्याख्यावित्येव — अग्नये। वायवे। भानवे॥
Siddhanta Kaumudi Up
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः <{SK268}> । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥
Laghu Siddhanta Kaumudi Up
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः मत्याः । मतेः मतेः॥
Neelesh Sanskrit Detailed Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति नदी इति संज्ञा । प्रकृतसूत्रेण अस्याः नदीसंज्ञायाः द्वयोः स्थलयोः विकल्पेन विधानं क्रियते । तदित्थम् - स्त्री इति शब्दं वर्जयित्वा अन्येषां दीर्घ-ईकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् इयङ्स्थानिशब्दानाम् (यथा - धी , श्री इत्यादीनाम्) तथा च दीर्घ-ऊकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् उवङ्स्थानिशब्दानाम् (यथा - भ्रू , भू इत्यादीनाम्) <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन प्राप्तायाः नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषेधे जाते, ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा पुनः विकल्पेन विधीयते - इति अस्य सूत्रस्य प्रथमः अंशः । अपि च, ह्रस्व-इकारान्तानाम् ह्रस्व-उकारान्तानां च स्त्रीलिङ्गवाचिनाम् (यथा - मति , धेनु इत्यादीनाम्) शब्दानाम् पूर्वसूत्रैः नदीसंज्ञायां नैव प्राप्तायाम्, ङित्-प्रत्ययेषु परेषु एतेषां शब्दानां इयं नदीसंज्ञा विकल्पेन विधीयते - इति अस्य सूत्रस्य द्वितीयः अंशः । क्रमेण विवरणम् एतादृशम् -
1. दीर्घ-ईकारान्त-नित्यस्त्रीलिङ्ग-इयङ्स्थानिनाम् /दीर्घ-ऊकारान्त-नित्यस्त्रीलिङ्ग-उवङ्स्थानिनाम् शब्दानाम् नदीसंज्ञा
स्त्री इति शब्दं विहाय ये शब्दाः दीर्घ-ईकारान्ताः इयङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - धी , श्री इत्यादयः) , उत दीर्घ-ऊकारान्ताः उवङ्स्थानिनः नित्यस्त्रीलिङ्गाः सन्ति (यथा - भ्रू , भू इत्यादयः) , तेषां विषये <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यनेन प्राप्तायाः नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषेधे जाते ङित्-प्रत्ययेषु परेषु (इत्युक्ते, ङे , ङसिँ , ङस् , ङि - एतेषु चतुर्षु प्रत्ययेषु परेषु) एतेषां शब्दानां नदीसंज्ञा पुनः विकल्पेन विधीयते । इत्युक्ते, एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं सिद्ध्यति - नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे अपरं रूपम् - इति । क्रमेण उदाहरणानि एतानि -
1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः
नदीसंज्ञापक्षे -
धी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
--> धी + आट् + ए [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> धी + ऐ [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> ध् इयङ् + ऐ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> धियै
नदीसंज्ञा-अभाव-पक्षे -
धी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
--> ध् इयङ् + ए [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> धिये
अनेन प्रकारेण धी इति शब्दस्य चतुर्थ्येकवचनस्य ङे -प्रत्यये परे आडागमं कृत्वा धियै , तथा च आडागमं विना धिये इति द्वे रूपे भवतः । एवमेव भ्रू शब्दस्य अपि भ्रुवै तथा च भ्रुवे एते द्वे रूपे सिद्ध्यतः ।
2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः
नदीसंज्ञापक्षे -
धी + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> धी + आट् + असि / अस् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> धी + आस् / आस् [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> ध् इयङ् + आस् / आस् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> धियाः [रुत्वविसर्गौ]
नदीसंज्ञा-अभाव-पक्षे -
धी + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> ध् इयङ् + अस् / अस् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> धियः [रुत्वविसर्गौ]
अनेन प्रकारेण धी इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः ङसिँ /ङस् -प्रत्यययोः परयोः आडागमं कृत्वा धियाः , तथा च आडागमं विना धियः इति द्वे रूपे भवतः । एवमेव भ्रू शब्दस्य अपि भ्रुवाः तथा च भ्रुवः एते द्वे रूपे सिद्ध्यतः ।
3. सप्तम्येकवचनस्य आम्-प्रत्ययः
नदीसंज्ञापक्षे -
धी + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> धी + आम् [नदीसंज्ञायां सत्याम् <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इति प्रत्ययस्य आम्-आदेशः]
--> धी + आट् + आम् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> धी + आम् [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> ध् इयङ् + आम् [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> धियाम्
नदीसंज्ञा-अभाव-पक्षे -
धी + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> ध् इयङ् + इ [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> धियि
अनेन प्रकारेण धी इति शब्दस्य सप्तम्येकवचनस्य ङि -प्रत्यये परे आमादेशम् आडागमं च कृत्वा धियाम् , तथा च तयोः विना धियि इति द्वे रूपे भवतः । एवमेव भ्रू शब्दस्य अपि भ्रुवाम् तथा च भ्रुवि एते द्वे रूपे सिद्ध्यतः ।
2. ह्रस्व-इकारान्त-उकारान्त-शब्दानां नदीसंज्ञा
मति , बुद्धि , शक्ति , कृति , भूरि इत्यादयः ये ह्रस्व-इकारान्ताः स्त्रीलिङ्गशब्दाः, तथा च धेनु , गुरु , रेणु , रज्जु , तनु इत्यादयः ये ह्रस्व-उकारान्ताः स्त्रीलिङ्गशब्दाः, तेषां विषये पूर्वसूत्रैः अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण ङित्-प्रत्ययेषु परेषु (इत्युक्ते, ङे , ङसिँ , ङस् , ङि - एतेषु चतुर्षु प्रत्ययेषु परेषु) विकल्पेन विधीयते । अतः एतेषां शब्दानां ङित्-प्रत्ययेषु परेषु प्रत्येकं रूपद्वयं भवति - नदीसंज्ञापक्षे तद्विशिष्टानि कार्याणि कृत्वा एकं रूपम्, तथा च नदीसंज्ञा-अभावपक्षे <<शेषो घ्यसखि>> 1.4.7 इत्यनेन घिसंज्ञां कृत्वा अपरं रूपम् - इति । क्रमेण उदाहरणानि एतानि -
1. चतुर्थ्येकवचनस्य ङे-प्रत्ययः
नदीसंज्ञापक्षे -
मति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
--> मति + आट् + ए [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> मति + ऐ [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> मत्यै [<<इको यणचि>> 6.1.77 इति यणादेशः]
नदीसंज्ञा-अभाव-पक्षे <<शेषो घ्यसखि>> 1.4.7 इति घिसंज्ञां कृत्वा -
मति + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
--> मते + ए [<<घेर्ङिति>> 7.3.111 इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः]
--> मतय् + ए [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः]
--> मतये
अनेन प्रकारेण मति इति शब्दस्य चतुर्थ्येकवचनस्य ङे -प्रत्यये परे नदीसंज्ञापक्षे आडागमं कृत्वा मत्यै , तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा मतये इति द्वे रूपे भवतः । एवमेव धेनु शब्दस्य अपि धेनवे तथा च धेन्वै एते द्वे रूपे सिद्ध्यतः ।
2. पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययः
नदीसंज्ञापक्षे -
मति + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> मति + आट् + असि / अस् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> मति + आस् / आस् [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> मत्याः [<<इको यणचि>> 6.1.77 इति यणादेशः]
नदीसंज्ञा-अभाव-पक्षे <<शेषो घ्यसखि>> 1.4.7 इति घिसंज्ञां कृत्वा -
मति + ङसि / ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
--> मते + ए [<<घेर्ङिति>> 7.3.111 इति घिसंज्ञकस्य ङित्-प्रत्यये परे गुणः]
--> मतेः [<<ङसिङसोश्च>> 6.1.110 इति पूर्वपरयोः एकादेशः]
अनेन प्रकारेण मति इति शब्दस्य पञ्चमी-षष्ठी-एकवचनयोः ङसिँ /ङस् -प्रत्यययोः परयोः नदीसंज्ञापक्षे आडागमं कृत्वा मत्याः , तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् गुणं कृत्वा मतेः इति द्वे रूपे भवतः । एवमेव धेनु शब्दस्य अपि धेन्वाः तथा च धेनोः एते द्वे रूपे सिद्ध्यतः ।
3. सप्तम्येकवचनस्य आम्-प्रत्ययः
नदीसंज्ञापक्षे -
मति + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> मति + आम् [नदीसंज्ञायां सत्याम् <<इदुद्भ्याम्>> 7.3.117 इति ङि-प्रत्ययस्य आम्-आदेशः]
--> मति + आट् + आम् [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> मति + आम् [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> मत्याम् [<<इको यणचि>> 6.1.77 इति यणादेशः]
नदीसंज्ञा-अभाव-पक्षे <<शेषो घ्यसखि>> 1.4.7 इति घिसंज्ञां कृत्वा -
मति + ङि [सप्तमी-एकवचनस्य प्रत्ययः]
--> मत + औ [<<अच्च घेः>> 7.3.119 इति प्रत्ययस्य औकारादेशः, अङ्गस्य च अकारादेशः]
--> मतौ
अनेन प्रकारेण मति इति शब्दस्य सप्तम्येकवचनस्य ङि -प्रत्यये परे नदीसंज्ञापक्षे आमादेशम् आडागमं च कृत्वा मत्याम् , तथा च नदीसंज्ञा-अभावपक्षे घिसंज्ञासामर्थ्यात् अत्वं प्रत्ययादेशं च कृत्वा मतौ इति द्वे रूपे भवतः । एवमेव धेनु शब्दस्य अपि धेन्वाम् तथा च धेनौ एते द्वे रूपे सिद्ध्यतः ।
<<इदुद्भ्याम्>> 7.3.117 इति सूत्रम् विशिष्टरूपेण ह्रस्व-इकारान्त-नदीसंज्ञकशब्दानां विषये, ह्रस्व-उकारान्त-नदीसंज्ञकशब्दानां विषये च पाठितम् अस्ति । एतादृशेभ्यः शब्देभ्यः परस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य अनेन सूत्रेण आम् आदेशः भवति ।
ह्रस्व-इकारान्त-उकारान्त-शब्दानां कृते नित्यस्त्रीत्वम् न आवश्यकम्
प्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य कृतायाः अनुवृत्त्याः केवलं स्त्री इति शब्दः एव ह्रस्व-इकारान्त-शब्दानां विषये, तथा च ह्रस्व-उकारान्त-शब्दानां विषये उपयुज्यते । अस्य द्वौ अर्थौ स्तः -
1. ह्रस्व-इकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते, तथैव ह्रस्व-उकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानां कृते प्रकृतसूत्रं न प्रवर्तते । अतएव मुनि , वारि , साधु , मधु - इत्यादिशब्दानां कुत्रापि नदीसंज्ञा न भवति ।
2. ये ह्रस्व-इकारान्त-शब्दाः ह्रस्व-उकारान्त-शब्दाः च स्त्रीलिङ्गवाचिनः सन्ति, ते नित्यस्त्रीलिङ्गवाचिनः स्युः उत न स्युः, तेषां विषये स्त्रीलिङ्गप्रयोगे प्रकृतसूत्रस्य प्रयोगः अवश्यम् एव भवति । यथा, भूरि , सुमति इत्यादयः ह्रस्व-इकारान्ताः सर्वलिङ्गकाः शब्दाः, तथा च लघु , गुरु , इत्यादयः ह्रस्व-उकारान्ताः सर्वलिङ्गकाः शब्दाः अपि स्त्रीलिङ्गप्रयोगे ङित्-प्रत्ययेषु परेषु अवश्यम् एव विकल्पेन नदीसंज्ञकाः भवन्ति ।
अस्त्री इति निषेधः
स्त्री इति शब्दः अपि इयङ्स्थानी अस्ति, यतो हि <<स्त्रियाः>> 6.4.79 इति सूत्रेण स्त्री -शब्दस्य अजादिप्रत्ययेषु परेषु इयङ् -आदेशः भवति । तथापि अस्य शब्दस्य नदीसंज्ञायाः <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषेधः नैव कृतः अस्ति । अस्यां स्थितौ, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री -शब्दस्य विषये अपि प्रवर्तेत वा - इति प्रश्ने जाते, प्रकृतसूत्रेण उक्तः विकल्पः स्त्री -शब्दस्य विषये नैव प्रवर्तते - इति स्पष्टीकर्तुम् प्रकृतसूत्रे <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यस्मात् सूत्रात् अस्त्री इत्यस्य पदस्य अनुवृत्तिः स्वीकृता अस्ति । अतएव स्त्री -शब्दस्य विषये ङित्-प्रत्ययेषु परेषु नित्यम् एव नदीसंज्ञाविशिष्टानि कार्याणि भवन्ति -
स्त्री + (ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]
--> स्त्री + (ङे / ङसिँ / ङस् / आम्) [नदीसंज्ञायां सत्याम् <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इति सप्तमी-एकवचनस्य प्रत्ययस्य आम्-आदेशः]
--> स्त्री + आट् + (ए / अस् / अस् / आम्) [नदीसंज्ञायां सत्याम् <<आण्नद्याः>> 7.3.112 इति आडागमः]
--> स्त्री + (ऐ / आस् / आस् / आम्) [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> स्त्रिय् + (ऐ / आस् / आस् / आम्) [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः]
--> स्त्रियै / स्त्रियाः / स्त्रियाः / स्त्रियाम्
अस्य अस्त्री इति निषेधस्य विषये तदन्तविधिः नास्ति । अतः, महास्त्री , श्रेष्ठस्त्री , परमस्त्री इत्यादीनां स्त्र्यन्तशब्दानां विषये <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन प्राप्तः नदीसंज्ञायाः निषेधः ङित्-प्रत्ययेषु परेषु अवश्यं विकल्प्यते । इत्युक्ते एतेषां ङित्-प्रत्ययेषु रूपेषु नदीसंज्ञकं कार्यं कृत्वा महास्त्रियै , महास्त्रियाः , महास्त्रियाः , महास्त्रियाम् इत्यादीनि रूपाणि, तथा च पक्षे नदीसंज्ञां विना महास्त्रिये , महास्त्रियः महास्त्रियः ,महास्त्रियि इत्यादीनि अपि रूपाणि सिद्ध्यन्ति ।
प्रथमस्य अंशस्य कृते स्त्र्याख्यौ इति सम्पूर्णा अनुवृत्तिः
प्रकृतसूत्रे <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यस्मात् सूत्रात् स्त्र्याख्यौ इति शब्दस्य अनुवृत्तिः स्वीकृता अस्ति । अस्य शब्दस्य अर्थः नित्यस्त्रीलिङ्गवाच्यत्वम् इति स्वीकृतः अस्ति । एतादृशं नित्यस्त्रीलिङ्गत्वं केवलम् दीर्घ-ईकारान्तशब्दानां कृते, दीर्घ-ऊकारान्तशब्दानां कृते एव गृह्यते । इत्युक्ते, नित्यस्त्रीलिङ्गत्वस्य नियमः अस्य सूत्रस्य प्रथमस्य अंशस्य कृते एव अस्ति ।
अत्र इदं स्मर्तव्यम्, यत् <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इति सूत्रे स्त्राख्यौ इत्यस्य अनुवृत्तिः न वर्तते , अतः तत्र उक्तः नदीसंज्ञायाः निषेधः इयङ्स्थानिनाम् उवङ्स्थानिनां च पुंलिङ्गशब्दानां स्त्रीलिङ्गशब्दानां च विषये समानरूपेण एव विधीयते । परन्तु प्रकृतसूत्रेण उक्तः विकल्पः तु एतेभ्यः केवलं नित्यस्त्रीलिङ्गशब्दानां सन्दर्भेण एव प्रवर्तते । इत्युक्ते, ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः न सन्ति, तेषां विषये ङित्-प्रत्ययेषु परेषु <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन उक्तः नदीसंज्ञायाः निषेधः तादृशः एव तिष्ठति; अतश्च एतादृशानां शब्दानां एतेषु रूपेषु आडागमः / आमादेशः अपि न भवति -
परमधी [परमा धीः यस्य सः इत्यस्मिन् अर्थे सिद्धः दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः । अयम् इयङ्स्थानी अस्ति, अतः अस्य इति सूत्रेण विहिता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषिध्यते ]
--> परमधी +(ङे / ङसिँ / ङस् / ङि) [चतुर्थी/पञ्चमी/षष्ठी/सप्तमी-एकवचनस्य प्रत्ययः]
--> परमध् इयङ् + (ए / अस् / अस् / इ) [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः ]
--> परमधिये / परमधियः / परमधियः / परमधियि क
विशेषः - परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये अपि <<यू स्त्र्याख्यौ नदी >> 1.4.3 इत्यनेन प्राप्ता नदीसंज्ञा <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इत्यनेन निषिध्यते । परन्तु तदनन्तरम्, ङित्-प्रत्ययेषु परेषु अस्य शब्दस्य पुनः विकल्पेन नदीसंज्ञा भवति वा - इति प्रश्ने जाते अस्य उत्तरं कैयटेन काशिकाकारेण च भिन्नप्रकारेण दत्तम् अस्ति इति <<वाऽऽमि>> 1.4.5 इत्यत्र सिद्धान्तकौमुदीकारः स्पष्टीकरोति । तत्र कैयटस्य पक्षं स्पष्टीकुर्वन् सः ब्रूते - लिङ्गान्तराभिधायकत्वं नित्यस्त्रीत्वम् । यः शब्दः कदापि स्त्रीलिङ्गं विहाय अन्यस्मिन् लिङ्गे नैव प्रयुज्यते, सः एव नित्यस्त्रीलिङ्गशब्दः स्वीकर्तव्यः - इति अत्र कैयटकृता व्याख्या अस्ति । इमां व्याख्याम् अनुसृत्य परमा धी यस्याः सा इत्यस्मिन् अर्थे विहितस्य परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नित्यस्त्रीलिङ्गत्वं नैव स्वीकर्तुं शक्यते, यतो हि पुंलिङ्गे अपि परमधी इत्येव शब्दः प्रयुज्यते । अतः अस्यां स्थितौ परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य विषये <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इति सूत्रेण नदीसंज्ञायाः कृतः निषेधः प्रकृतसूत्रेण नैवं विकल्पयितुम् शक्यः । इत्युक्ते, ङित्-प्रत्ययेषु परेषु परमधी इति दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दस्य नदीसंज्ञा नैव विधीयते । एतत् सर्वम् कैयटमतेन अस्ति । काशिकाकारस्य पक्षः तु अस्मात् भिन्नः । अमुं पक्षं स्पष्टीकुर्वन् कौमुदीकारः वदति - पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति (वृत्तिकारमतम्) । यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे नित्यस्त्रीलिङ्गत्वम् अवश्यं स्वीक्रियते - इति अत्र काशिकाकारेण दत्ता व्याक्या अस्ति । यथा, परमा धीः यस्य सः / यस्याः सा इत्यस्मिन् अर्थे सिद्धः प्रधी इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च अत्र स्त्रीलिङ्गवाचिनः प्रधी -शब्दस्य अवश्यं हि नित्यस्त्रीत्वं स्वीकर्तुं शक्यते - इति । एतादृशे नित्यस्त्रीत्वे सिद्धे, इदानीं ङित्-प्रत्ययेषु अस्य पूर्वं निषिद्धा नदीसंज्ञा अवश्यम् एव विकल्प्यते । अयं काशिकाकारस्य पक्षः अस्ति ।
काशिकाकारस्य पक्षस्य अधिकं विस्तरेण स्पष्टीकरणम् <<यू स्त्र्याख्यौ नदी>> 1.4.3 इत्यस्मिन् सूत्रे दत्तम् अस्ति । जिज्ञासुभिः तत् अवश्यं द्रष्टव्यम् ।
अप्राप्तविभाषा इयम्
अस्मिन् सूत्रे उक्तयोः द्वयोः अपि अंशयोः सन्दर्भेण पूर्वसूत्रेण अप्राप्ता नदीसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदं सूत्रम् अप्राप्तविभाषायाः उदाहरणम् अस्ति ।
##Balamanorama
<<ङिति ह्रस्वश्च>> - इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह — ङिति ह्रस्वश्च । अत्र चकाराद्वाक्यद्वयं, तथा हियूस्त्र्याख्यौ नदी॑त्यनुवर्तते । ईश्च ऊश्च यू ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः । स्त्रियमेवाचक्षाते स्त्र्याख्यौ । नित्यस्त्रीलिङ्गाविति यावत् ।नेयङ्वङ्स्थानावस्त्री॑ति सूत्रं नञ्वर्जमनुवर्तते । इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः । इयङुवङ्प्राप्तियोग्यावित्यर्थः ।वामी॑त्यतोवे॑त्यनुवर्तते । ततश्चइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात् ।वामी॑त्यतो वेति चानुवर्तते । ततश्चस्त्रीलिङ्गौह्रस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते ।तदाह — इयङुवङ्स्थानाविति । द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम् । तत्र ह्रस्वयोकप्राप्ते दीर्घयोस्तुनेयङुवङ्स्थाना॑विति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह — आण्नद्या इति । मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह — मत्यै इति । मतये इति । नदीत्वाऽभावपक्षेशेषो घ्यसखी॑ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण् । मत्याः । नदीत्वाऽभावे-मतेः । आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः । मतीनाम् । ङौ विशेषमाह — नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाऽभावात् 'अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वं न भवति । किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः ।
##Padamanjari
यद्यत्र ह्रस्वविशेषणार्थम्'यू' इति नानुवर्त्यत, तदेहापिस्याद् - मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह - ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं'यू' ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः'यू' इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद्'यू' इति लभ्यते। स्वरितत्वादनुवृतं तु'यू' इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥