2-2-28 तेन सह इति तुल्ययोगे आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा बहुव्रीहिः अनेकम्
सहेत्येतच्छब्दरूपं तुल्ययोगे वर्तमानं तेनेति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति। सह पुत्रेणागतः, सपुत्रः। सच्छात्रः। सकर्मकरः। तुल्ययोग इति किम्? सहैव दशभिः पुत्रैर्भारं वहति गर्दभी। विद्यमानैरेव दशभिः पुत्रैर्भारं वहतीत्यर्थः। कथं सकर्मकः सलोमकः सपक्षक इति, न ह्यत्र तुल्ययोगो गम्यते? किं तर्हि? विद्यमानता। प्रायिकं तुल्ययोग इति विशेषणम्। अन्यत्रापि समासो दृश्यते॥
तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥
<<तेन सहेति तुल्ययोगे>> - तेन सहेति । तुल्ययोगे इति । युगपत्कालिकक्रियायोगे इत्यर्थः । तृतीयान्तेनेति । तेनेत्यनेन तल्लाभादिति भावः । प्राग्वदिति समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थं कबभावार्थं चेदम् ।
तेन सहेति तुल्ययोगे॥ तुल्ययोग इति। तुल्ययोगःऊसमानसम्बन्धः। सपुत्र इति।'वोपसर्जनस्य' इति सभावः। नन्वत्र पिता प्रधानमन्यपदार्थोऽभिधेयः, सत्यम्; व्यधिकरणयोः प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः, कबभावार्थं च। उक्तश्चात्र कबभावः। दशभिः पुत्रैरिति। इत्थम्भूतेत्यर्थः। प्रायिकमिति। ज्ञापकात्, यदयं'विभाषा साकाङ्क्षे' ,'च्छन्दस्यनेकमपि साकाङ्क्षम्' ,'पूर्वादिनिः' 'सपूर्वाच्च' ,'सपूर्वायाः प्रथमायाः' 'विभाषा सपूर्वस्य' इति विद्यमानार्थेऽपि समासं निर्द्दिशति, तज्ज्ञापयति - प्रायिकं विशेषणमिति॥