आण्नद्याः

7-3-112 आण् नद्याः घेः ङिति

Sampurna sutra

Up

index: 7.3.112 sutra: आण्नद्याः


नद्याः अङ्गात् ङिति आट्

Neelesh Sanskrit Brief

Up

index: 7.3.112 sutra: आण्नद्याः


नदीसंज्ञकात् अङ्गात् परस्य ङित्-प्रत्ययस्य आट्-आगमः भवति ।

Neelesh English Brief

Up

index: 7.3.112 sutra: आण्नद्याः


A ङित्-प्रत्यय that comes after a नदीसंज्ञक अङ्ग get an आट् आगम.

Kashika

Up

index: 7.3.112 sutra: आण्नद्याः


नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य आडागमो भवति। कुमार्यै। ब्राहमबन्ध्वै। कुमार्याः। ब्रह्मबन्ध्वाः।

Siddhanta Kaumudi

Up

index: 7.3.112 sutra: आण्नद्याः


नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.112 sutra: आण्नद्याः


नद्यन्तात्परेषां ङितामाडागमः॥

Neelesh Sanskrit Detailed

Up

index: 7.3.112 sutra: आण्नद्याः


नदीसंज्ञकात् शब्दात् परस्य ङे / ङसिँ / ङस् / ङि एतेषां प्रत्ययानाम् 'आट्' आगमः भवति । यथा -

नदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]

→ नदी + आट् + ए [ आण्नद्याः 7.3.112 इति आट्-आगमः]

→ नदी + आ + ए [हलन्त्यम् 1.3.3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः ]

→ नदी + ऐ [आटश्च 6.1.90 इति आकार-एकारयोः वृद्धि-एकादेशः ऐकारः]

→ नद्यै [इको यणचि 6.1.77 इति यणादेशः]

अनेनैव प्रकारैण मत्यै, वध्वै , धेन्वे, मत्याः, नद्याः, वध्वाः, धेन्वाः, मत्याम्, नद्याम्, वध्वाम्, धेन्वाम् - आदिषु सर्वत्र अस्य सूत्रस्य प्रयोगः भवति ।

ज्ञातव्यम् -

1) नदीसंज्ञा - यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः] । ङिति ह्रस्वश्च 1.4.6 इत्यनेन ह्रस्व-इकारान्त-उकारान्तशब्दानाम् ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति - यथा मति, बुद्धि, धेनु, आदयः ।

2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः ।

3) यद्यपि केषुचन स्थलेषु तृतीया-एकवचनस्य प्रत्ययः 'आङ्' इति निर्दिष्टः अस्ति, तथापि अयं प्रत्ययः 'ङित्' नास्ति । तृतीयैकवचनस्य प्रत्ययः 'टा' इत्येव अस्ति, आङ्-इति तस्य केवलं अन्यत् नाम ।

4) उपरि-निर्दिष्टायां प्रक्रियायाम् 'नदी + आ + ए' इत्यत्र प्रथमम् 'आ + ए' अयं कार्यम् करणीयम्, न तु 'नदी + आ' अयम् । अनया परिभाषया आट्-आगमः प्रत्ययस्य गुणिभूतः अस्ति, अतः प्रत्ययेन सह एव सः ग्रहितव्यः । अतः आट्-इत्यस्य सन्धिः ए-इत्यनेन सह एव करणीया ।

5) आद्यन्तौ टकितौ 1.1.46 इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति ।

Balamanorama

Up

index: 7.3.112 sutra: आण्नद्याः


आण्नद्याः - आण्नद्याः ।अङ्गस्ये॑-त्यधिकृतं पञ्चम्या विपरिणम्यते ।नद्या॑इति पञ्चम्यन्तेन विशेष्यते, तदन्तविधिः ।घेर्ङिती॑त्यतोङिती॑त्यनुवृत्तं षष्टआ विपरिणम्यते, तदाह-नद्यन्तादित्यादिना ।

Padamanjari

Up

index: 7.3.112 sutra: आण्नद्याः


'नद्याः' इति पञ्चम्यकृतार्था ङ्तीइति सप्तम्याः षष्ठआआ प्रकल्पयति, तेन ङ्ति एवायमागमो विज्ञायत इत्याह - नद्यन्तादङ्गादुतरस्येति । कुमार्या इति । ठाटश्चऽ इति वृद्धिः । अथ दीर्घोच्चारणं किमर्थम्, अडेवोच्येत,'वृद्धिरेचि' इति वृद्ध्या सवर्णदीर्घत्वेन च कुमार्यै, कुमार्या इति सिद्धम् ? न सिद्ध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति । अड्वचनसामर्थ्यान्न भविष्यति ? अस्त्यड्वचने प्रयोजनम्, किम् ? श्रियै, श्रिया इत्यत्र'सावेकाचः' इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । आगमानुदातत्वं हि प्रत्ययस्वरमिव विभक्तिस्वरमपि बाधते, विशेषतोऽत्राड्वचनसार्थ्यात् ॥