6-3-82 वा उपसर्जनस्य उत्तरपदे सहस्य
index: 6.3.82 sutra: वोपसर्जनस्य
उपसर्जनसर्वावयवः समासः उपसर्जनम्। यस्य सर्वेऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते। तदवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति। सपुत्रः, सहपुत्रः। सच्छात्रः, सहच्छात्रः। उपसर्जनस्य इति किम्? सहयुध्वा। सहकृत्वा। सहकृत्वप्रियः, प्रियसहकृत्वा इति इह बहुव्रीहौ यदुत्तरपदं तत् परः सहशब्दो न भवतीति सभावो न भवति।
index: 6.3.82 sutra: वोपसर्जनस्य
बहुव्रीह्यवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकमर्कः । सलोमकः ॥
index: 6.3.82 sutra: वोपसर्जनस्य
वोपसर्जनस्य - वोपसर्जनस्य । 'उत्तरपदे' इत्यधिकृतम् ।सहस्य सः संज्ञाया॑मित्यतः 'सहस्य स' इत्यनुवर्तते । उपसर्जनमस्यास्तीत्युपसर्जनः, मत्वर्थे अर्शाअद्यच् । उत्तरपदाक्षिप्तसमासो विशेष्यम् । उपसर्जवनतः समासस्येत्यर्थः । यद्यपि सर्वेषामपि समासानां कश्चिदवयव उपसर्जनमेव, तथापि सामर्थ्यादुपसर्जनसर्वावयवकस्येति लभ्यते । तथाच उपसर्जनस्येत्यनेन बहुव्रीहेरिति लब्धम् । अवयवषष्ठएषा । तदाह — बहुव्रीहेरवयवस्येत्यादिना । बहुव्रीहेरिति किम् । सहयुध्वा ।राजनि युधि कृञः,सहे चे॑ति क्वनिप् । उपपदसमासः । अबहुव्रीह्रवयवस्य सहस्य सत्वं न । सुपुत्र इति । सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः । प्रायिकमिति । इतिशब्दादिदं लभ्यते ।विभाषा सपूर्वस्ये॑त्यादिनिर्देशाच्चेति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगाऽभावेऽपि सहस्य सः ।
index: 6.3.82 sutra: वोपसर्जनस्य
उपसर्जनस्येत्यस्य सहशब्दे विशेष्ये सहयुध्वा, सहकृतवेत्यत्रापि स्यात्, अनर्थकञ्च विशेषणं स्यात्, सहशब्दस्य चासत्ववाचित्वाद् द्वन्द्वो न सम्भवति, समासान्तरे च सह उपसर्जनमेव तस्मादुतरपदेन सन्निधापितस्य समासस्यैवेदं विशेषणं विज्ञायते । तत्राप्यवयवद्वारा । समासस्योपर्जनसंज्ञायां अभावात् सर्वत्र च समासे कश्चिदवयव उपसर्जनमेव । उच्यते चेदमुपसर्जनस्येति, ततश्च सर्वावयवद्वारा विज्ञायते, तदिदमुक्तम् - उपसर्जनसर्वक्यव इति । तदवयवस्येति । उपसर्जनस्य इत्यवयवयोगो षष्ठीति दर्शयति । सहकृत्वप्रिय इति । वा प्रियस्य इति पूर्वनिपात्विकल्पः । इह बहुव्रीहौ यदुतरपदमिति । उतरपदाधिकारात्, सर्वोपसर्जनस्य बहुव्रीहेराश्रयणाच्च तत्सम्बन्धिन्येवोतरपदे उतरपदाधिकारात्, सर्वोपसर्जनस्य बहुव्रीहेराश्रयणाच्च तत्सम्बन्धिन्येवोतरपदे सहशब्दस्यानन्तरे सभावेन भाव्यमिति भावः । तत्परः सहशब्दो न भवतीति । पूर्वत्र तावन्न भवति, कृत्वशब्देन व्यवधानात्, उतरत्रापि सहकृत्वेत्येतदुतरपदम्, न कृत्वशब्दः ॥