प्राग्वतेष्ठञ्

5-1-18 प्राग् वतेः ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः

Sampurna sutra

Up

प्राक् वतेः ठञ्

Neelesh Sanskrit Brief

Up

प्राक्-वतीय-अर्थेषु ठञ्-प्रत्ययः औत्सर्गिकरूपेण भवति ।

Neelesh English Brief

Up

The ठञ् प्रत्यय is used as a default for the प्राग्वतीय meanings.

Kashika

Up

<<तेन तुल्यं क्रिया चेद् वतिः>> ५.१.११५ इति वक्ष्यति। प्रागेतस्माद् वतिसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, ठञ् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — <<पारायणतुरायणचान्द्रायणं वर्तयति>> ५.१.७२ — पारायणिकः। तौरायणिकः। चान्द्रायणिकः॥

Siddhanta Kaumudi

Up

तेन तुल्यम् <{SK1778}> इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥

Neelesh Sanskrit Detailed

Up

तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः पञ्चम (अन्तिमः) महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तेन तुल्यं क्रिया चेद्वतिः>> 5.1.115 इति यावत्सु सूत्रेषु आहत्य सप्तविंशतिः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राक्-वतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । अस्य ठञ्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । ठञ्-प्रत्ययस्य कानिचन उदाहरणानि - अ) शूर्पेण क्रीतम् = शूर्प + ठञ् = शौर्पिक आ) योजनं शतं गच्छति = योजन + ठञ् = यौजनिक इ) मासं ब्रह्मचर्यं यस्य = मास + ठञ् = मासिक प्रक्रिया इयम् - शूर्प + ठञ् → शूर्प + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक-आदेशः] → शौर्प + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → शौर्प् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → शौर्पिक 27 प्राग्वतीयाः अर्थाः एते - 1. <<तेन क्रीतम्>> 5.1.37 2. <<तस्य निमित्तं संयोगोत्पातौ>> 5.1.38 3. <<तस्येश्वरः>> 5.1.42 4. <<तत्र विदित इति च>> 5.1.43 5. <<तस्य वापः>> 5.1.45 6. <<तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते>> 5.1.47 7. <<तद्धरति वहत्यावहति भाराद्वंशादिभ्यः>> 5.1.50 8. <<सम्भवत्यवहरति पचति>> 5.1.52 9. <<सोऽस्यांशवस्नभृतयः>> 5.1.56 10. <<तदस्य परिमाणम्>> 5.1.57 11. <<तद् अर्हति>> 5.1.63 12. <<पारायणतुरायणचान्द्रायणं वर्तयति>> 5.1.72 13. <<संशयमापन्नः>> 5.1.73 14. <<योजनं गच्छति>> 5.1.74 15. <<उत्तरपथेनाहृतं च>> 5.1.77 16. <<तेन निर्वृत्तम्>> 5.1.79 17. <<तमधीष्टो भृतो भूतो भावी>> 5.1.80 18. <<षष्टिकाः षष्टिरात्रेण पच्यन्ते>> 5.1.90 19. <<तेन परिजय्यलभ्यकार्यसुकरम्>> 5.1.93 20. <<तदस्य ब्रह्मचर्यम्>> 5.1.94 21. <<तस्य च दक्षिणा यज्ञाख्येभ्यः>> 5.1.95 22. <<तत्र च दीयते कार्यं भववत्>> 5.1.96 23. <<सम्पादिनि>> 5.1.99 24. <<तस्मै प्रभवति>> 5.1.101 25. <<समयस्तदस्य प्राप्तम्>> 5.1.104 26. <<प्रकृष्टे ठञ्>> 5.1.108 27. <<प्रयोजनम्>> 5.1.109

Balamanorama

Up

<<प्राग्वतेष्ठञ्>> - अथ आर्हीयाः । प्राग्वतेः । वतिशब्दस्तद्धटितसूत्रपरः । तदाह — तेन तुल्यमिति ।तेनतुल्य॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठञित्युपतिष्ठत इति यावत् ।

Padamanjari

Up

वक्ष्यति पारायणतुरायणेति। अत्र तु प्रदेशेऽस्य करणमुतरसूत्रे येषां पर्यु दासस्तेभ्यष्ठञ्यथा स्यादिति - गौपुच्छिकः, साम्प्रतिकः। ठञित्येवाधिकारे सिद्धे'प्राग्वतेः' इति वचनं मध्ये योऽधिकारवानपवादः'सर्वभूमिपृथिवीभ्यामणञौ' ,'शीर्षच्छेदाद्यच्च' इत्येवमादिस्तेन विच्छेदेऽपि'पारायणतुरायण' इत्येवमादौ ठञेव यथा स्यादित्येवमर्थम्। यद्यप्यत्र प्रत्ययोऽवधित्वेन गृहीतः, तथाप्यर्थेष्वेवोपतिष्ठते, न तु प्रकृतिषु; तेनापवादविषये न भवति। तता च'शूर्पादञन्यतरस्याम्' इत्यन्यतरस्यांग्रहणमर्थवद्भवति ॥