तेन निर्वृत्तम्

5-1-79 तेन निर्वृत्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्

Sampurna sutra

Up

'तेन निर्वृत्तम्' (इति) समर्थानाम् प्रथमात् कालात् ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचीप्रातिपदिकात् ठञ्-प्रत्ययः भवति ।

Kashika

Up

तेनेति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकाद् निर्वृत्तमित्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना निर्वृत्तम् आह्निकम्। आर्धमासिकम्। सांवत्सरिकम्॥

Siddhanta Kaumudi

Up

अह्ना निर्वृत्तमाह्निकम् ॥

Laghu Siddhanta Kaumudi

Up

अह्ना निर्वृत्तम् आह्निकम् ॥ इति ठञोऽवधिः ॥ १० ॥

Neelesh Sanskrit Detailed

Up

'निवृत्तम्' इत्युक्ते 'कृतम् / निष्पादितम्' । 'निर्मितम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा - 1. मासेन निर्वृत्तम् = मास + ठञ् → मासिक । तत् कार्यम् यत् एकमासेन निष्पाद्यते (a task accomplished in a month) , मासिकम् नाम्ना ज्ञायते । 2. अह्ना निर्वृत्तमाह्निकम् । प्रकिया इयम् - अहन् + ठञ् → अहन् + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → आहन् + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आह् न् + इक [<<नस्तद्धिते>> 6.4.144 इति टिलोपे प्राप्ते <<अह्नष्टखोरेव>> 6.4.145 इति सः प्रतिषिध्यते, अतः <<अल्लोपोऽनः>> 6.4.134 इति उपधा-अकारलोपः भवति ।] → आह्निक । a task accomplished in a day इत्यर्थः । 3. वर्षेण निर्वृत्तम् वार्षिकम् । 4. अर्धमासेन निर्वृत्तमार्धमासिकम् । ज्ञातव्यम् - अस्मिन् सूत्रे 'तेन' इति 'करणे' प्रयुज्यते । तथा च, <<कालात्>> 5.1.78 इति अधिकारः अत्र प्रवर्तते, अतः 'निर्वृत्तम्' अस्य अर्थः अत्र 'निष्पादितम्' ( accomplished / achieved / done / prepared) इति स्वीकर्तव्यः । अत्र क्त-प्रत्ययः भूते न प्रयुज्यते, अपितु वर्तमाने प्रयुज्यते ।

Balamanorama

Up

<<तेन निर्वृत्तम्>> - तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमान्न टिलोपः ।

Padamanjari

Up

तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥