5-1-73 संशयम् आपन्नः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत्
index: 5.1.73 sutra: संशयमापन्नः
'तत् संशयमापन्नः' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः
index: 5.1.73 sutra: संशयमापन्नः
'आपन्नः' अस्मिन् अर्थे द्वितीयासमर्थात् 'संशय'शब्दात् ठञ्-प्रत्ययः भवति ।
index: 5.1.73 sutra: संशयमापन्नः
संशयशब्दाद् द्वितीयासमर्थातापन्नः इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः।
index: 5.1.73 sutra: संशयमापन्नः
संशयविषयीभूतोऽर्थः सांशयिकः ॥
index: 5.1.73 sutra: संशयमापन्नः
आपन्नः इत्युक्ते प्राप्तः । 'आ + पद्' धातोः 'क्त'प्रत्यये कृते अयम् शब्दः सिद्ध्यति । 'आपन्नः' अस्मिन् अर्थे द्वितीयासमर्थात् 'संशय'शब्दात् संशयस्य अधिष्ठानम् (कर्म) निर्देशयितुम् ठञ्-प्रत्ययः भवति । संशयमापन्नः सांशयिकः ।
कः अस्य अर्थः ? उदाहरणम् एकम् पश्यामः । कश्चन स्थाणुः (pillar / stem) अस्तीति मन्यामहे । कश्चन देवदत्तः रात्रौ प्रकाशस्य अभावात् एतम् स्थाणुं दृष्ट्वा 'अयम् कोऽपि पशुः / मनुष्यः अस्ति वा' इति चिन्तयति । अत्र अन्धःकारस्य कारणात् भ्रमवशात् 'पशुरूपेण / मनुष्यरूपेण भासमानः स्थाणुः संशयम् प्राप्तः अस्ति' इति उच्यते ।अत्र संशयस्य कर्ता अस्ति देवदत्तः, तथा च संशयस्य कर्म अस्ति स्थाणुः । अस्यां स्थितौ अस्य संशयस्य कर्मणः (इत्युक्ते स्थाणोः) निर्देशः 'सांशयिकः स्थाणुः' इति क्रियते । संशयमापन्नः सांशयिकः स्थाणुः । The object of the confusion / doubt is called सांशयिक ।
ज्ञातव्यम् -
अत्र स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययः विधीयते । यथा, अन्धःकारे सर्परूपेण भासमाना रज्जूः संशयमापन्ना, अतः सा 'सांशयिकी रज्जूः' अस्तीति उच्यते ।
यः संशयस्य कर्ता अस्ति (इत्युक्ते यस्य मनसि संशयः जायते) तस्य विषये अस्य सूत्रस्य प्रयोगः न भवति । संशयस्य यत् कर्म (इत्युक्ते यस्मिन् वस्तुनि संशयस्य अधिष्ठानम् भवति), तस्य विषये एव 'सांशयिक' शब्दस्य प्रयोगः भवति । यथा, उपरिनिर्दिष्टे उदाहरणे 'सांशयिकः' इति स्थाणोः विशेषणमस्ति, न हि देवदत्तस्य ।
index: 5.1.73 sutra: संशयमापन्नः
संशयमापन्नः - संशयमापन्नः । अस्मिन्नर्थे संशयशब्दाद्द्वितीयान्ताट्ठक्स्यादित्यर्थः । अत्र 'आपन्न' इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थः, उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे संदेग्धरिनायं प्रत्यय इति भावः । अमरस्तुसांशयिकः संशयापन्नमानसः॑ इत्याह ।
index: 5.1.73 sutra: संशयमापन्नः
सांशयिकः स्थाणुरिति। स्थाणुर्वा पुरुषो वेत्येवंरूपस्य संशयस्य विषय इत्यर्थः। अननैतद्दर्शयति-यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयकः संशयस्तत्रैव प्रत्ययो भवति, न कर्तरि परुषे; अनभिधानाधिति ॥