सम्पादिनि

5-1-99 सम्पादिनि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ्

Sampurna sutra

Up

'तेन सम्पादिनि' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'सम्पादिनि' (शोभते) अस्मिन् अर्थे तृतीयासमर्थात् ठञ् प्रत्ययः भवति ।

Kashika

Up

तेनेत्येव। तृतीयासमर्थात् संपादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः संपत्तिः। आवश्यके णिनिः ३.३.१७०। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेण विशेषतः शोभत इत्यर्थः॥

Siddhanta Kaumudi

Up

ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'सम्पादिनि' इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते 'यः शोभते सः' (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् 'सम्पादी' अस्मिन् अर्थे वर्तमानसूत्रेण ठञ् प्रत्ययः भवति । यथा - 1. कर्णवेष्टकाभ्याम् सम्पादि मुखम् = कार्णवेष्टिकम् मुखम् । कर्णयोः आभूषणेन यस्य सौन्दर्यम् वर्धते, तादृशम् मुखम् 'कार्णवेष्टिकम्' मुखम् नाम्ना ज्ञायते । 2. नूपुराभ्याम् सम्पादिनौ पादौ = नौपुरिकौ पादौ । यौ पादौ नूपुरयोः शोभेते तौ नौपुरिकौ पादौ । 3. वस्त्रयुगेण सम्पादि शरीरम् = वास्त्रयुगिकम् शरीरम् । यत् शरीरम् द्वयोः वस्त्रयोः सुशोभते, तत् वास्त्रयुगिकम् शरीरम् । ज्ञातव्यम् - 'सम्पाद' शब्दात् <<आवश्यकाधमर्णयोर्णिनिः>> 3.3.170 अनेन सूत्रेण 'णिनि' प्रत्ययं कृत्वा 'सम्पादिन्' इति इन्नन्तः शब्दः सिद्ध्यति ।

Balamanorama

Up

<<सम्पादिनि>> - सम्पादिनि । तेनेत्येवेति । संपाद=संपत्तिः, शोभा, अस्यास्तीति-संपादी । तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः ।

Padamanjari

Up

सम्पादिनीत्यत्र सम्पदेरर्थमाह - गुणोत्कर्षः सम्पतिरिति। कर्णवेष्टकमुकर्णाभरणम्। वस्त्रयुगेणेति।'कुमचि च' इति णत्वम् ॥