5-1-74 योजनं गच्छति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत्
index: 5.1.74 sutra: योजनं गच्छति
'तत् योजनम् गच्छति' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः
index: 5.1.74 sutra: योजनं गच्छति
'गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात् 'योजन'शब्दात् ठञ् प्रत्ययः भवति ।
index: 5.1.74 sutra: योजनं गच्छति
योजनशब्दात् द्वितीयासमर्थाद् गच्छति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति यौजनिकः। क्रोशशतयोजनशतयोरुपसङ्ख्यानम्। क्रोशशतम् गच्छति क्रौशशतिकः। यौजनशतिकः। ततोऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसङ्ख्यानम्। क्रोशशतादभिगमनमर्हति क्रौशशतिको भिक्षुः। यौजनशतिक आचार्यः।
index: 5.1.74 sutra: योजनं गच्छति
यौजनिकः ।<!क्रोशशतयोजनशतयोरुपसंख्यानम् !> (वार्तिकम्) ॥ क्रोशशतं गच्छति क्रौशशतिकः ।<!ततोऽभिगमनमर्हतीति च वक्तव्यम् !> (वार्तिकम्) ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥
index: 5.1.74 sutra: योजनं गच्छति
'योजन' इति अन्तरस्य किञ्चन परिमाणम् । (योजन is a unit of distance, 1 योजन = approximately 7 km). योजनम् यावत् अन्तरम् यः गच्छति, तस्य निर्देशं कर्तुम् 'योजन'शब्दात् ठञ्-प्रत्ययः भवति । योजनं गच्छति सः यौजनिकः ।
असमासे निष्कादिभ्यः 5.1.20 इत्यत्र निर्दिष्टेन <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन संङ्ख्यापूर्वपदस्य विषये अत्र तदन्तविधिः अपि इष्यते । यथा - द्वे योजने गच्छति सः द्वियौजनिकः । परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इति अत्र उत्तरपदवृद्धिः जायते ।
अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -
<! क्रोशशत-योजनशतयोः उपसंख्यानम्!> । इत्युक्ते, 'क्रोशशत' तथा 'योजनशत' शब्दयोः विषये अपि अनेन सूत्रेण ठञ्-प्रत्ययः कर्तव्यः । क्रोशशतं गच्छति सः क्रौशशतिकः । योजनशतं गच्छति सः यौजनशतिकः ।
<!ततोऽभिगमनमर्हतीति क्रोशशतयोजनशतयोरुपसङ्ख्यानम्!> । इत्युक्ते, 'क्रोशशत' तथा 'योजनशत' शब्दयोः विषये पञ्चमीसमर्थात् 'अभिगमनमर्हति' (तस्मात् अग्रे अपि गन्तुं शक्नोति / can even go beyond इत्यर्थः) अस्मिन् अर्थे अपि ठञ्-प्रत्ययः कर्तव्यः । क्रोशशतात् अभिगमनमर्हति सः क्रौशशतिकः । योजनशतात् अभिगमनमर्हति सः यौजनशतिकः ।
index: 5.1.74 sutra: योजनं गच्छति
योजनं गच्छति - योजनं गच्छति । द्वितायान्ताद्योजनशब्दाद्गच्छतीत्यर्थे ठञ्स्यादित्यर्थः । क्रोशशतेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठञ उपसङ्ख्यानमित्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी । क्रोशशतमतीत्येत्यर्थः ।
index: 5.1.74 sutra: योजनं गच्छति
क्रोशशतयोजनशतयोरिति। गुणेन नेति प्रतिषेधः संख्याया न भवति; अत एव निर्देशात्,'शतस्हस्रान्ताच्च निष्कात्' इति वचनाच्च। ततोऽभिगमनमिति। अत्र पञ्चम्यन्तात्प्रत्यः ॥