5-1-115 तेन तुल्यं क्रिया चेत् वतिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ्
'तेन तुल्यम्' (इति) क्रिया चेत् वतिः
'तुल्यम् क्रियाम् करोति' अस्मिन् अर्थे तृतीयासमर्थात् वति-प्रत्ययः भवति ।
तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत् तुल्यं क्रिया चेत् सा भवति। ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत्। राजवत्। क्रियाग्रहणं किम् ? गुणद्रव्यतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यः पिङ्गलः। पुत्रेण तुल्यो गोमान्॥
ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेदिति किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
'तुल्यम्' इत्युक्ते 'समानम्' (similar / comparable) । कस्यचन पदार्थस्य क्रिया केनचित् अन्येन सह समाना / तुल्या अस्ति, तर्हि तस्य पदार्थस्य निर्देशं कर्तुम् 'येन सह तुल्यम्' तस्मात् प्रातिपदिकात् 'वति' प्रत्ययः भवति । यथा - 'अयम् देवदत्तः क्षत्रियः, परन्तु यथा ब्राह्मणः अध्ययनं करोति तथैव अयमपि करोति' अस्मिन् अर्थे 'देवदत्तः ब्राह्मणवत् अधीते' इति प्रयोगः क्रियते । 'ब्राह्मणेन तुल्यमधीते सः ब्राह्मणवत्' - इति अत्र विग्रहवाक्यम् । अत्र अध्ययनक्रियायाः समानता / तुल्यभावः उक्तः अस्ति, अतः 'वति' प्रत्ययस्य प्रयोगः भवति । प्रक्रिया इयम् - ब्राह्मणेन तुल्यमधीते = ब्राह्मण + वति → ब्राह्मण + वत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति] → ब्राह्मणवत् तथैव - द्रोणः क्षत्रियवत् युद्ध्यति । आञ्जनेयः पवनवत् डयते । लक्ष्मणः रामवत् आचरति । विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - <<तेन तुल्यं क्रिया चेद्वतिः>> 5.1.115, <<तत्र तस्येव>> 5.1.116, <<तदर्हम्>> 5.1.117, तथा च <<उपसर्गाच्छन्दसि धात्वर्थे>> 5.1.118 । एते चत्वारः अर्थाः सामान्यरूपेण 'वत्यर्थाः' नाम्ना ज्ञायन्ते । एतेभ्यः प्रथमः अर्थः वर्तमानसूत्रेण दीयते । ज्ञातव्यम् - 1. द्वयोः पदार्थयोः तुलना भिन्नैः प्रकारैः भवितुमर्हति । यथा - गुणस्य आधारेण, क्रियायाः आधारेण, द्रव्यस्य आधारेण - आदयः । एतेभ्यः केवलं क्रियायाः आधारेण तुलना क्रियते चेदेव वर्तमानसूत्रेण 'वति' प्रत्ययः क्रियते । गुणस्य आधारेण / द्रव्यस्य आधारेण तुलना भवति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'अयम् देवदत्तः यज्ञदत्तेन तुल्यः स्थूलः' अस्मिन् वाक्ये देवदत्त-यज्ञदत्तयोः तुलना 'स्थुलता' इति गुणमनुसृत्य कृता अस्ति, न हि क्रियामनुसृत्य । अतः अत्र 'वति' प्रत्ययः न प्रयुज्यते । इत्युक्ते, 'देवदत्तः यज्ञदत्तवत् स्थूलः' इति अशुद्धम् वाक्यमस्ति । तथैव, 'अयम् देवदत्तः यज्ञदत्तेन तुल्यः धनिकः अस्ति' अस्मिन् वाक्ये देवदत्त-यज्ञदत्तयोः तुलना 'धनम्' इति द्रव्यमनुसृत्य कृता अस्ति, न हि क्रियामनुसृत्य। अतः अत्रापि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 2. <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति । इत्युक्ते, एतेभ्यः विहितः सुप्-प्रत्ययः <<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन लुप्यति । यथा - अ) ब्राह्मणवत् आचरन्तम् देवदत्तम् रामः वदति । आ) ब्राह्मणवत् आचरता देवदत्तेन कार्यं क्रियते । इ) ब्राह्मणवत् आचरते देवदत्ताय धनम् ददामि । आदयः । 3. वति-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति । यथा - अ) राज्ञा तुल्यं शास्ते सः = राजन् + वति → राज + वत् [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → राजवत् देवदत्तः राजवत् शास्ते - इत्युक्ते यथा राजा शासनं करोति तथैव देवदत्तः अपि करोति । आ) मरुता तुल्यं वहति सः = मरुत् + वत् → मरुद् + वत् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्त-तकारस्य दकारः] → मरुद्वत् हनुमान् मरुद्वत् वहति । स्मर्तव्यम् - 'मरुत्वत्' इति कश्चन भिन्नः शब्दः अस्ति । मरुत्-शब्दात् <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इत्यनेन मतुप्-प्रत्ययं कृत्वा 'मरुत्वत्' शब्दः जायते । अयम् 'मरुत्वत्' शब्दः अव्ययसंज्ञकः नास्ति । अस्य अर्थः अपि भिन्नः - 'मरुत् अस्मिन् अस्ति तत् मरुत्वत्' । 'मरुत्वत्' तथा 'मरुद्वत्' द्वयोर्मध्ये सम्भ्रमः न कदापि कर्तव्यः । विशेषः - एतादृशानाम् सूक्ष्मभेदानाम् सम्यक् अध्ययनार्थमेव व्याकरणमध्येतव्यम् इति पस्पशाह्निके भाष्यकारः वदति । 4. 'वति' प्रत्यये इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र इकारः केवलमुच्चारणार्थः स्थापितः अस्ति । किमर्थमयमावश्यकः ? यदि केवलम् 'वत्' इति प्रत्ययविधानम् क्रियते, तर्हि प्रत्ययान्ते विद्यमानस्य तकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा लोपश्च भवेत् - यः न इष्यते । अतः अस्य तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुमत्र इकारः स्थाप्यते । 5. तद्धिताधिकारे <<तस्यापत्यम्>> 4.1.92 इत्यस्मात् आरभ्य <<धान्यानां भवने क्षेत्रे खञ्>> 5.2.1 इति यावत् ये अर्थाः पाठ्यन्ते तेषु सर्वेषु 'स्त्री'शब्दात् तथा 'पुम्स्' शब्दात् <<स्त्रीपुंसाभ्याम् नञ्स्नञौ भवनात्>> 4.1.87 अनेन सूत्रेण सर्वान् अपवादान् बाधित्वा 'नञ्' तथा 'स्नञ्' प्रत्ययौ एव भवतः । यथा - स्त्रीणामपत्यम् / समूहः / विकारः / .. = स्त्रैणम् । परन्तु 'वति'प्रत्ययस्य ये चत्वारः अर्थाः प्रोक्ताः सन्ति, तेषाम् विषये एताभ्याम् शब्दाभ्याम् नञ्/स्नञ्-प्रत्ययौ बाधित्वा 'वति' प्रत्ययः एव भवति । अस्मिन् विषये अष्टाध्याय्यां विशिष्टं सूत्रं न विद्यते, परन्तु आचार्यः स्वयम् <<स्त्री पुंवच्च>> 1.2.66 तथा <<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> 6.3.34 एतयोः सूत्रयोः 'पुंवत्' शब्दस्य प्रयोगं करोति । एतदेव ज्ञापकम् स्वीकृत्य 'स्त्री' तथा 'पुम्स्' शब्दाभ्याम् चतुर्षु वत्यर्थेषु 'वति' प्रत्ययः उच्यते । यथा - स्त्रिया तुल्यम् चलति सः 'स्त्रीवत्' चलति, पुंसा तुल्यं भाषते सा पुंवत् भाषते - इति । 'पुंवत्' शब्दस्य प्रक्रिया इयम् - पुम्स् + वत् → पुम् + वत् [अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति पदसंज्ञा । <<संयोगान्तस्य लोपः>> 8.2.23 इति सकारलोपः] → पुं + वत् [<<मोऽनुस्वारः>> 8.3.23 इति मकारस्य अनुस्वारः] → पुंवत् । 6. अग्रिमसूत्रे (<<तत्र तस्येव>> 5.1.116 इत्यत्र) वर्तमानसूत्रस्य विषये पदमञ्जरीकारः वदति - 'तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्त्यर्था व्याप्ताः' । इत्युक्ते, वर्तमानसूत्रेण निर्दिष्टम् क्रियातुल्यत्वम् यद्यपि तृतीयासमर्थात् उच्यते, तथापि 'इव' इति शब्दस्य प्रयोगं कृत्वा सर्वाः विभक्तयः अत्र तृतीयया उपलक्ष्यन्ते । यथा - [प्रथमा] - ब्राह्मण इव अधीते (studies like a brahmin) = ब्राह्मणेन तुल्यमधीते = ब्राह्मणवत् अधीते । [द्वितीया] - ब्राह्मणम् इव पश्यति (Sees someone as if he is a brahmin) = ब्राह्मणेन तुल्यम् पश्यति = ब्राह्मणवत् पश्यति । [तृतीया] - ब्राह्मणेन इव अधीतम् (Studied like a brahmin) = ब्राह्मणेन तुल्यमधीतम् = ब्राह्मणवत् अधीतम् । [चतुर्थी] - ब्राह्मणाय इव ददाति (Donates just like one would donate to a brahmin) = ब्राह्मणेन तुल्यम् ददाति = ब्राह्मणवत् ददाति । [पञ्चमी] - ब्राह्मणात् इव अधीते (Studies from someone as if he would study from a brahmin) = ब्राह्मणेन तुल्यमधीते = ब्राह्मणवत् अधीते । [षष्ठी] - ब्राह्मणस्य इव स्वम् (The existence / everything associated with a person is just like a brahmin) = ब्राह्मणेन तुल्यम् वर्तते = ब्राह्मणवत् वर्तते । [सप्तमी] - ब्राह्मणे इव वर्तते (Something exists in someone as if it would exist in a brahmin) = ब्राह्मणेन तुल्यम् वर्तते = ब्राह्मणवत् वर्तते ।
<<तेन तुल्यं क्रिया चेद्वतिः>> - अथ बावकर्मार्था निरूप्यन्ते । तेन तुल्यं । तुल्यमिति क्रियेत्यस्य विशेषणम् । सामान्याभिप्रायं नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः । तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राआहृणवदधीते इति । अत्रब्राआहृणव॑दित्युदाहरणम् ।ब्राआहृणेन तुल्यमधीते॑ इति विग्रहवाक्यम् । अत्र ब्राआहृणशब्देन ब्राआहृणकर्तृकाध्ययनं लक्ष्यते । ब्राआहृणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः । गुणतुल्ये इति । द्रव्यतुल्येऽपीति बोध्यम् । तेनचैत्रेण तुल्यो धनी देवदत्तः॑ इत्यादौ न भवति ।अयमेवं न तद्व॑दित्यादौ वतेः साधुत्वार्थमाहेति क्रियापदं प्रयुञ्जते वृद्धाः ।
यततुल्यं क्रिया चेत्सा भवतीति। एतेन समानविभक्तिकत्वात्प्राधान्याच्च र्प्त्ययार्थस्य विशेषणं क्रियाग्रहणमिति दर्शयति। निर्देशानुरोधे तु प्रथमनिर्दिष्टस्य प्रकृत्यर्थस्य विशेषणे भिन्नविभक्तिकत्वाद्वाक्यशेषेऽध्याहार्यः स्यात् - यतत् तृतीयासमर्थं क्रिया चेत्सा भवतीति। तुल्यमित्ये तच्च प्रथमान्तम्, न क्रियाविशेषणत्वेन यदाह - तुल्यमित्येतस्मिन्नर्थे इति। तस्य विशेषणं क्रियाग्रहणम्। सामान्योपक्रमत्वातु'हितं भक्षाः' इतिवतुल्यमिति नपुंसकनिर्द्देशः। ब्राह्णणेन तुल्यं वर्तत इति। ननु ब्राह्मणशब्देन जातिर्द्रव्यं वोच्येत, न ताभ्यां क्रियायास्तुल्यत्वम्; अत्यन्तभेदात्। यत्र तु किञ्चित्सामान्यम्, कश्चिच्च विशेषः, स एव विषयस्तुल्यतायाः। स्यादेतत् - ब्राह्मणसहचरितायामध्ययनीदिकायां क्रियायां ब्राह्मणशब्दस्य वृत्तिः- ब्राह्णणेन तुल्यं वर्तते, कोऽर्थः ? यथा व्राह्णणो वर्तते तथा वर्तत इत्यर्थः। वर्तनमुअध्ययनादिक्रियानुष्टानम्, तेन युक्तमेव तुल्यत्वमिति। एवमपि मुख्ये सन्भवति गौणस्य ग्रहणं युक्तम्। कः पुनर्मुख्यः ? क्रियावाची। पचत्यादीनां तावत्क्रियावाचिनामप्रातिपदिकत्वादसत्वभूतार्थाभिधायित्वाच्च तृतीयासमर्थत्वं न सम्भवति। अव्ययकृतानां तु - कृत्वा, हृत्वा, कर्तुम्, हर्तुमित्येवमादीनां यद्यपि क्रियावाचित्वम्, यथा पञाचकृत्वः कृत्वेति कृत्वोऽर्थोत्पतिर्भिवति; तथाप्यसत्वभूतार्थाभिधायित्वाततीयान्तत्वाभावः घञादयश्च दात्वर्थस्य सिद्धतायां भवन्तः सत्वभूतार्थाभिधायिनो न क्रियावचनाः। अत एव हि तत्र कृत्वोऽर्थप्रत्ययाभावः। न हि भवति पञ्चकृत्वः पाक इति, भवति तु पञ्चपाका इति। यथा पञ्चघटा इति भवति, न तु भवति पञ्चकृत्वो घट इति। भोक्तुअं पाक इत्यादौ धातुवाच्यक्रियोपेक्षस्तुमुन्प्रत्ययः। घृतपाकेन तुल्यस्तैलपाक इत्यादिरपि विषयो न भवति। ननु पञ्चकृत्वः शयितव्यमिति कृत्वसुचो देवनाच्छयितव्यादयः क्रियावचनाः, ततः किम् ? राजशयितव्येन तुल्यं देवदतशयितव्यमित्यादिरवकाशः स्यत्, तता स्खथातव्येन तुल्यं गमनं मन्दत्वात्, तथा नर्तितव्येन तुल्यं गमनं वहुविकारत्वादिति, तता भोकग्तुं पाक इत्यादौ यथा प्रकृतिवाच्यक्रियापेक्षस्तुमुन् भवति, तथा धृतपाकेन तुल्यस्तैलपाक इत्यदौ वतिरपि स्यादिति सोऽप्यवकाशः; तदेवं प्रत्ययार्थविशेषणेऽपि क्रियाग्रहणे सामर्थ्यात्प्रकृत्यर्थोऽपि क्रियैव भवति, न ह्यक्रियया क्रिया तुल्या भवतीति क्रियावाचिभ्य एव वतिना भवितव्यं प्रकृत्यर्थविशेषणे सुतरामिति कथं क्लेशेन क्रियायां वर्तितेभ्यस्तेभ्यो ब्राह्मणादिभ्यः प्रत्ययः ? उच्यते; येनोपमीयते, यश्योपमीयते, यश्च तयोः साधारणो धर्मः - एत्रयमप्यपेक्ष्योपमानोपमेयभावः प्रवर्तते। तत्र यदा क्रियोपमानत्वेन विवक्ष्यते, तदा सावश्यापेक्ष्यसाधारणधर्माधारत्वात्क्रियारूपातां हित्वा सत्वरूपतां प्रपद्यते, ततश्च सामर्थ्याद् भूतपूर्वगत्याश्रयणम् - यस्यार्थस्य क्रियारूपतापूर्वमभूत् सम्प्रति क्रियारूअपातिक्रमेण सत्वभावापन्नोऽपि तृतीयान्तवाच्यः परिगृह्यते। तदेवं सम्प्रति मुख्यक्रयावाच्यिसम्भवाद् भूतपूर्वक्रियारूपार्थवाचिनः शयितव्यादयोऽपि गौणा एव। गौणं च क्रियावाचित्वं ब्राह णादीनामपि सम्भवतीति तेभ्योऽपि भवति प्रत्ययः। तेषां तु न कस्याञ्चिदपि दशायां मुख्यक्रियावाचित्वमित्येतावाÄस्तु विशेषः। यदि तर्हि क्रिययोस्तुल्यत्वले प्रत्ययः ब्राह्मणाध्ययनेन तुल्यमध्ययनं करोति ब्राह्मणवदधीत इत्यन्यः साधारणो धर्मोऽपेक्षणीयः स्यात्। तस्माद् द्रव्ययोरेव तुल्यत्वे प्रत्ययः, क्रिया तु साधारणो धर्म इति युक्तम्। न युक्तम्; एवं हि यथा ब्राह्मणेन तुल्यः क्षत्रियोऽध्ययनेनेति, द्रव्यस्य लिङ्गसंख्यायोगित्वात्। स्वरादिषु पाठाद्भविष्यति ? इहपि तर्हि प्राप्नोति-उपसर्गोच्छन्दसि धात्वर्थे य उद्वतो निवतो यासि। किञ्च पाठाद्भवतु संज्ञा, लिङ्गसंख्याकारकशक्तियोगस्तु केन वार्यते - स्वः पश्येत्यादिवत् ! लौकिके च प्रयोगे क्रिययोरेव सादृश्यं प्रतीयते, न तद्वतोर्देअरव्ययोः। यत्पुनरुक्तम् - साधारणो धर्मोऽपेक्षणीयः स्यादिति ? नैष दोषः; चन्द्र इव मुखमस्या इत्यादौ यथा शब्दानुपाता अपि कान्त्यादयः प्रतीयन्ते, तथात्रापि सौष्ठवादयः प्रत्येष्यन्ते। तस्मात्सुष्ठूअक्तम् - यततुल्यं क्रिया चेत्सा भवतीति। गुणतुल्य इति। गुणैस्तुल्य इति ?'पूर्वसदृश' इति तृतीयासमासः। पुत्रेण तुल्यः स्यूल इति। पुत्रस्य यादृशं स्थौल्यं पितुरपि तादृशमित्यर्थः ॥