5-1-37 तेन क्रीतम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्
'तेन क्रीतम्' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः
'क्रीतम्' अस्मिन् अर्थे तृतीयासमर्थप्रातिपदिकेभ्यः यथाविहितं प्रत्ययः भवति ।
ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः। तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते। तेनेति तृतीयासमर्थात् क्रीतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सप्तत्या क्रीतं साप्ततिकम्। आशीतिकम्। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। शत्यम्। शतिकम्। द्विकम्। त्रिकम्। तेनेति मूल्यात् करणे तृतीया समर्थविभक्तिः। अन्यत्रानभिधानाद् न भवति देवदत्तेन क्रीतम्, पाणिना क्रीतमिति। द्विवचनबहुवचनान्तात् प्रत्ययो न भवति। प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतमिति, अनभिधानादेव। यत्र तु प्रकृत्यर्थस्य संख्याभेदावगमे प्रमाणमस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति। द्वाभ्यां क्रीतं द्विकम्। त्रिकम्। पञ्चकम्। तथा मुद्गैः क्रीतं मोद्गिकम्। माषिकम्। न ह्येकेन मुद्गेन क्रयः संभवति॥
ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥
सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥
'क्रीतम्' इति क्री-धातोः क्त-प्रत्ययान्तरूपम् । 'मूल्यं दत्त्वा स्वीकृतम्' इत्यर्थः । तृतीयासमर्थात् मूल्यवाचिशब्दात् 'क्रीतम्' अस्मिन् अर्थे वस्तुनः निर्देशं कर्तुम् यथाविहितं प्रत्ययः भवति । यथा - 1. सप्तत्या क्रीतम् = सप्तति + ठञ् [<<प्राग्वतेष्ठञ्>> 5.1.18 इति ठञ्] → साप्ततिकम् । 2. पञ्चभिः क्रीतम् = पञ्च + कन [<<संख्याया अतिशदन्तायाः कन्>> 5.1.22 इति कन्] → पञ्चक 3. पादेन क्रीतम् = पाद + ठक् [<<असमासे निष्कादिभ्यः>> 5.1.20 इति ठक्] → पादिक ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'तेन' इति तृतीयासमर्थः केवलम् मूल्यम् एव दर्शयति, साधनमुत कर्तारम् न । यथा, 'हस्तेन क्रीतम्' उत 'देवदत्तेन क्रीतम्' एतेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति । अस्मिन् विषये कोऽपि सिद्धान्तः नास्ति, केवलं 'अनभिधानात्' (इत्युक्ते, शिष्टप्रयोगस्य अभावात्) एतादृशाः प्रयोगाः न क्रियन्ते । 2. अस्य सूत्रस्य प्रयोगः प्रायः एकवचनस्य विषये एव भवति । यथा - 'प्रस्थेन क्रीतम्' इत्यत्र 'प्रस्थ + ठञ् → प्रास्थिक' इति सिद्ध्यति, परन्तु 'प्रस्थाभ्यां क्रीतम् / प्रस्थैः क्रीतम्' इत्यत्र तद्धितप्रत्ययस्य प्रयोगः न भवति । अत्रापि विशिष्टं कारणं नास्ति, केवलम् 'अनभिधानात्' इत्येव भाष्ये उच्यते । परन्तु यत्र प्रकृतेः एकवचनमसमीचीनम् वर्तते, तत्र तु यथायोग्यं द्विवचन-बहुवचनयोः प्रयोगः भवत्येव । यथा, 'द्वि' शब्दः नित्यद्विवचनान्तः अस्ति, अतः 'द्वाभ्याम् क्रीतम्' इत्यत्र द्विवचने सत्यपि तद्धितप्रत्ययस्य प्रयोगः भवति । तथैव, 'मुद्गैः क्रीतम्' इत्यत्रापि तद्धितप्रत्यययोजनं भवितुमर्हति, यतः एकेन वा द्वाभ्याम् मुद्गाभ्याम् न किञ्चित् क्रयणम् सम्भवति ।
<<तेन क्रीतम्>> - तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति ।उदाह्यियते इति शेषः । गौ पुच्छिकमिति ।अगोपुच्छे॑ति पर्युदासाट्ठगभावे ओत्सर्गिकष्ठञिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः ।अगोपुच्छसङ्ख्ये॑ति पर्युदासाट्ठगभावे ठञिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्यर्थः ।अगोपुच्छसङ्ख्यापरिमाणा॑दिति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । 'उदाह्यियते' इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः ।असमासे निष्कादिभ्यः॑ इति ठगिति भावः ।
तेषामिति। अस्य समर्थविभक्तय इत्यनेनैव सम्बन्धः, न प्रत्ययार्थ इत्यनेन। न हि तेषां प्रत्ययानां प्रत्ययार्था निर्दिशयन्ते इत्यन्वयो घटते। ओदनपाकं पचतीतिवद्वा कथञ्चिदन्वयः। तेनेति मूल्यादिति। मूल्यभूतार्थाभिधायिनः करणे या तृतीया सा चेह समर्थविभत्मिरित्यर्थः। मूलेनानाम्यं मूल्यमुलाभ इत्युक्तम्। अन्यत्रेति। अमूल्यादकरणे वा या कृतीया तत्रेत्यर्थः। अनभिधानादेवेति। एवकारः पौनर्वचनिकः। किञ्च- प्रस्थादयः शब्दा नियतपरिमाणानामर्थानां वाचका न मात्रयापि न्यूनाधिकभावे प्रवर्तन्ते, न हि यथा जलमिति प्रस्थेऽपि भवति, कुडवेऽपि भवति, यथा वाग्निरिति भ्राष्ट्राग्नावपि भवति, दावाग्नावपि भवति; यथा वा एको व्रीहिः सम्पन्न इत्यादौ जात्यात्मना सर्वासां व्यक्तीनामैक्यं प्रतीयते, तथा प्रस्थादिषु भवति। तस्मातेषु विभक्तयभावे यावतस्ये वाचकास्तावदेव गम्यते। वाक्ये तु प्रस्थाभ्याम्, प्रस्थैरिति द्विवचनबहुवचनबलातावतोऽनेकस्यावगतिर्भवति। द्वकम्, त्रिकमिति। अत्र हि प्रकृतेरेव वाच्ये द्वित्वबहुत्वे विभक्तिस्तु करणत्वमात्रमाचष्टे, सा च प्रकृतिर्वृतावपि विद्यते। न ह्यएकेन मुद्रेनेति। एकया मुद्गव्यक्त्येत्यर्थः। जात्याख्यायां त्वेकवचनान्तादपि भवत्येव। ननु यद् निष्केण क्रीतं तस्य निष्को वस्नो भवति, ततश्च'सो' स्यांशवस्रभृतयःऽ इत्येव सिद्धः प्रत्ययः, नार्थ एतेन ? एवं तर्हि यस्य शतं मूल्यं न भवत्यथ च तेन क्रीतं कार्यवशातदर्थमिदम् ॥