सम्भवत्यवहरति पचति

5-1-52 सम्भवति अवहरति पचति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् ःअरति वहति आवहति

Sampurna sutra

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


'तत् सम्भवति , अवहरति, पचति' (इति) समर्थानां प्रथमात् परः ठञ्-प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


ततिति द्वितीया समर्थविभक्तिरनुवर्तते। तदिति द्वितियासमर्थात् सम्भवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। तत्र अधेयस्य प्रमाणानतिरेकः सम्भवः। उपसंहरणमवहारः। विक्लेदनं पाकः। प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिकः। कौडविकः। खारीकः। ननु च पाके च सम्भवोऽस्ति? न अस्त्यत्र नियोगः। प्रस्थं पचति ब्राह्मणी प्रास्थिकी। तत्पचतीति द्रोणादण् च। द्रोणं पचति द्रौणी, द्रौणिकी।

Siddhanta Kaumudi

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः ।<!तत्पचतीति द्रोणादण् च !> (वार्तिकम्) ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


अस्मिन् सूत्रे त्रीणि क्रियापदानि पाठ्यन्ते । प्रत्येकम् अर्थम् क्रमेण पश्यामः -

  1. सम्भवति - सम् + भू धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य एतत् रूपम् । अस्य धातोः अनेके अर्थाः सन्ति, परन्तु अस्मिन् सूत्रे अस्य अर्थः व्याख्यानेषु 'आधारप्रमाणात् आधेयप्रमाणस्य अनाधिक्यम् ' इति उच्यते । इत्युक्ते, यदि कस्यचन आधारस्य (पात्रस्य) सीमितत्वात् (boundedness) तस्मिन् कस्यचित् प्रमाणस्य अपेक्षया अधिकम् न स्थापयितुम् शक्यते, तर्हि तस्मिन् पात्रे तस्य प्रमाणस्य 'सम्भवनम् भवति' इति उच्यते । due to limited capacity of a container, it cannot hold more amount that a certain quantity - इति आशयः ।

  2. अवहरति - अव + हृ धातोः, लट्लकारस्य प्रथमपुरुषैकवचनस्य एतत् रूपम् । अस्यापि अनेके अर्थाः सन्ति, परन्तु अत्र 'एकत्रीकरणम्' (collect / bring together) इति अर्थः स्वीक्रियते ।

  3. पचतीति पच्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य एतत् रूपम्, पाकक्रियां करोति इत्यर्थः ।

एतेषु त्रिषु अर्थेषु द्वितीयासमर्थात् यथाविहितं प्रत्ययः भवति । यथा -

  1. प्रस्थम् (kilogram) सम्भवति सः प्रास्थिकः कटाहः (container) । सः कटाहः यः एकप्रस्थम् यावत् पदार्थम् धारयति, तस्मात् अधिकम् न - सः प्रास्थिकः कटाहः । A container that can fit one Kg of grains - इत्यर्थः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः विधीयते ।

  2. कुडवमवहरति सः कौडविकः । 'कुडव' इति मापनस्य किञ्चन परिमाणम् । एककुडवं यावत् धान्यम् यः एकत्रीकरोति सः कौडविकः । अत्रापि औत्सर्गिकः ठञ्-प्रत्ययः आगच्छति ।

  3. प्रस्थम् पचति सा प्रास्थिकी ब्राह्मणी । एकप्रस्थम् यावत् अन्नम् पचति - इत्यर्थः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः तथा च स्त्रीत्वे विवक्षिते टिड्ढाणञ्... 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!तत्पचतीति द्रोणादण् च!> । इत्युक्ते, 'तत् पचति' अस्मिन् अर्थे 'द्रोण' (= bowl) शब्दात् अण् प्रत्ययः अपि भवति । पक्षे असमासे निष्कादिभ्यः 5.1.20 इत्यनेन ठक्-प्रत्ययः अपि विधीयते । द्रोणं पचति सः द्रौणः द्रौणिकः वा । स्त्रीत्वे उभयत्र टिड्ढाणञ्... 4.1.15 इति ङीप् - द्रौणी, द्रौणिकी ।

अस्य वार्त्तिकस्य विषये बिन्दुद्वयं ज्ञातव्यम् -

  1. अस्य वार्त्तिकस्य प्रयोगः 'पचति' अस्मिन् अर्थे एव भवति, न हि 'सम्भवति / अवहति' एतयोः अर्थयोः - इति स्पष्टीकर्तुमत्र 'पचति' इत्यस्य निर्देशः क्रियते ।

  2. अस्य वार्त्तिकस्य विषये कौमुदीकारः वदति - 'चात् ठञ्' । इत्युक्ते, कौमुदीकारस्य मतेन अत्र 'च' इति ग्रहणम् ठञ्-प्रत्ययस्य अनुवृत्यर्थमस्ति, न हि ठक्-प्रत्ययस्य । अतः कौमुदीकारस्य मतेन 'द्रोणम् पचति' इत्यत्र अण् तथा ठञ् एतौ प्रत्ययौ भवतः । अस्य कारणम् व्याख्यानेषु न स्पष्टीक्रियते, परन्तु प्रायः कौमदीकारस्य मतेन निष्कादिगणे 'द्रोण' शब्दः न विद्यते, अतः तत्र ठक्-प्रत्ययस्य प्रसक्तिरेव नास्ति, अतश्च औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । ठञ्-प्रत्ययेनापि 'द्रौणिकः' इत्येव रूपं सिद्ध्यति, परन्तु तत्र स्वरविशेषः विद्यते, इति स्मर्तव्यम् । ञित्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः सन्ति, परन्तु कित्-प्रत्ययाः किति 6.1.165 इत्यनेन अन्तोदात्ताः सन्ति (अतः तेषामादिस्वरः अनुदात्तः विधीयते)।

Balamanorama

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


सम्भवत्यवहरति पचति - संभवत्यवहरति ।त॑दिति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्संभवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति ।आर्हा॑दित्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ् । ननुसंभवती॑त्यस्य उपपद्यत इत्यर्थकत्वादकर्मकत्वात्प्रस्थं संभवतीति कथं द्वितीयेत्यत आह — समावेशयतीत्यर्थ इति । उपसर्गवसादिति भावः । प्रास्थिकी ब्राआहृणीति । ठञन्तत्वान्ङीबिति भावः । अवहरतीप्येतीत्यर्थ इति । उपसर्गवशादिति भावः । प्रास्थिकी ब्राआहृणीति । ठञन्तत्वान्ङीबिति भावः । अवहरतीप्येद्व्याचष्टे — उपसंहरतीति । किंचिदूनमपि यया प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः । तत्पचतीति द्रोणादण् चेति । वार्तिकमिदम् । द्वितीयान्तोद्द्रोणशब्दात्पचतीत्यर्तेऽण्च स्यादित्यर्थः । पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम् । चाट्ठञिति ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासाट्ठगभावे प्राग्वतेष्ठञेव चकारादनुकृष्यत इति भावः । द्रौणीति । अणन्तत्वान्ङीप् । द्रौणिकीति । ठञन्तत्वान्ङीप् ।

Padamanjari

Up

index: 5.1.52 sutra: सम्भवत्यवहरति पचति


प्रमाणानतिरेक इति। आधारग्रमाणादाधेयप्रमाणस्यानाधिक्यमित्यर्थः। तदुपर्स्जने च धारणे संभवतेर्वृत्तिरिति सकर्मकत्वम्। उपसंहरणमवहार इति। आधारप्रमाणादाधेयप्रमाणस्य न्यूनतेत्यर्थः, तदुपसर्जने च धारणेऽवहरतेर्वृतेः सकर्मकत्वम्, सूत्रे स्पष्ट उपसर्गः। नास्त्यत्र नियोग इति। नियोगःउअवश्यम्भावः। तत्पचतीति द्रोणादण् चेति। पचतिग्रहणं सम्भवत्यवहरतीति निवृत्यर्थम्, द्रोणपरिमिते च व्रीह्यादौ द्रोणशब्दस्तस्य पाकसम्भवात् ॥