तस्य निमित्तं संयोगोत्पातौ

5-1-38 तस्य निमित्तं संयोगोत्पातौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्

Sampurna sutra

Up

'तस्य निमित्तम्' (इति) संयोग-उत्पातौ समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् यथाविहितं प्रत्ययः भवति ।

Kashika

Up

तस्येति षष्ठीसमर्थाद् निमित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तद् निमित्तं संयोगश्चेत् स भवति, उत्पातो वा। संयोगः संबन्धः। प्राणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः। शतस्य निमित्तं धनपतिना संयोगः शत्यः, शतिकः। साहस्रः। उत्पातः खल्वपि — शतस्य निमित्तमुत्पातो दक्षिणाक्षिस्पन्दनं शत्यम्, शतिकम्। साहस्रम् ॥ तस्य निमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम्॥ वातस्य शमनं कोपनं वा वातिकम्॥ पैत्तिकम्। श्लैष्मिकम्॥ सन्निपाताच्चेति वक्तव्यम् ॥ सान्निपातिकम्॥

Siddhanta Kaumudi

Up

संयोगः संबन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ।<!वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् !> (वार्तिकम्) ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ।<!संनिपाताच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ सान्निपातिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अस्य सूत्रस्य अर्थम् ज्ञातुम् प्रारम्भे सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः । 1. निमित्तम् इत्युक्ते कारणम् । 2. संयोगः इत्युक्ते सम्बन्धः / मेलनम् । 3. उत्पातः इत्युक्ते महाभूतानाम् किञ्चन कार्यम् । सूत्रे किमुच्यते? यदि कस्यचन वस्तुनः प्राप्तेः निमित्तम् / कारणम् - (अ) 'केनचित् सह संयोगः' इति वर्तते, नो चेत् (आ) 'महाभूतानाम् किञ्चन कार्यम्' इति वर्तते; तर्हि तस्य निर्देशार्थम् षष्ठीसमर्थात् यथाविहितं प्रत्ययः भवति । अस्य कः अर्थः ? उदाहरणद्वयम् स्वीकृत्य पश्यामः । 1. कश्चन रामः अद्य शतं रूप्यकाणि प्राप्तवान् इति चिन्तयतु । अत्र 'शतम्' इति रामस्य प्राप्तिः । 'अस्याः प्राप्तेः किम् कारणम् ?' इति रामं पृच्छामश्चेत् - 'कश्चन धनपतिः मह्यम् शतं रूप्यकाणि दत्तवान्' इति रामः उत्तरति । इत्युक्ते, 'धनपतिना सह संयोगः ' इति रामस्य शतरूप्यकाणाम् निमित्तम् । धनपतिना सह संयोगः यदि न अभविष्यत्, तर्हि रामः अपि शतं रूप्यकाणि न अप्राप्स्यत् - इति अत्र आशयः । अतः अत्र 'शतम्' इति फलम्, 'धनपतिसंयोग' इति निमित्तम् । अस्यां स्थितौ 'शतस्य निमित्तम् संयोगः' इति वक्तुं शक्यते, अतश्च शत-शब्दात् यथायोग्यः प्राग्वतीय-प्रत्ययः अत्र भवितुमर्हति - शतस्य निमित्तः संयोगः = शत + ठन् / यत् [<<शताच्च ठन्यतावशते>> 5.1.21 इति ठन् तथा यत् प्रत्ययौ] → शतिक / शत्य । अतः 'धनपतिसंयोगः शतिकः अस्ति / शत्यः अस्ति' इति उच्यते । शतस्य प्राप्तेः निमित्तमयम् धनपतिसंयोगः - इति अस्य अर्थः । अन्यदेकमुदाहरणम् - देवदत्तः सहस्ररूप्यकाणि प्राप्तवान् । किम् कारणम्? राजा देवदत्ताय सहस्ररूप्यकाणि अददात् । अतः राज्ञा सह संयोगः अयम् देवदत्तस्य सहस्रस्य कारणम् । अस्यां स्थितौ - सहस्रस्य निमित्तः यः संयोगः सः = सहस्र + अण् [<<शतमानविंशतिकसहस्रवसनादण्>> 5.1.27 इति अण्] → साहस्र । अतः 'राजसंयोगः साहस्रः अस्ति' इति उच्यते । 2. कश्चन रामः अस्ति, तस्य दक्षिणनेत्रम् स्पन्दमानमस्ति (His right eye is flittering) । अस्य वर्णनम् सः इत्थं करोति - 'मम दक्षिणनेत्रस्य स्पन्दनम् मम शतलाभस्य शुभवार्तां ददाति' (He believes that flittering of his right eye is a 'divine signal' that he will be earning 100 rupess soon). अत्र सः एवं मन्यते, यत् तस्य शरीरे पञ्चमहाभूतानाम् काचित् क्रिया जायते, यया तस्य दक्षिणनेत्रस्य स्पन्दनं भवति, येन च सः शतम् लप्स्यते । इत्युक्ते, शरीरे विद्यमानः पञ्चभूतानाम् 'उत्पातः' तस्य शतप्राप्तेः कारणमस्ति - इति तस्य चिन्तनम् । अतः - शतस्य निमित्तः दक्षिणनेत्रस्पन्दनकारक-उत्पातः = शत + ठन् / यत् [<<शताच्च ठन्यतावशते>> 5.1.21 इति ठन् तथा यत् प्रत्ययौ] → शतिक / शत्य । अतः 'दक्षिणनेत्रस्पन्दनकारकः उत्पातः शतिकः / शत्यः अस्ति' इति उच्यते । तथैव - सहस्रस्य निमित्तः वामनेत्रस्पन्दनकारकः उत्पातः = सहस्र + अण् [<<शतमानविंशतिकसहस्रवसनादण्>> 5.1.27 इति अण्] →साहस्र । अतः 'वामनेत्रस्पन्दनकारकः उत्पातः साहस्रः अस्ति' इति उच्यते । अनेन प्रकारेण अस्य सूत्रस्य प्रयोगः विशिष्टेषु अर्थेषु एव भवति । अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - [1] <!वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् !> । षष्ठीसमर्थेभ्यः 'वात', 'पित्त' तथा 'श्लेष्म' शब्देभ्यः 'शमनम्' तथा 'कोपनम्' एतयोः अर्थयोः अपि यथाविहितं प्रत्ययः भवति । अस्य अर्थः अयम् - 'वात', 'पित्त' तथा 'श्लेष्मन् (mucus)' एतेषाम् विषये तेषाम् 'शमनम्' (दमनम्) तथा कोपनम् (वर्धनम् ) एतयोः अर्थयोः यथाविहितं प्राग्वतीयः प्रत्ययः भवति । यथा - - वातस्य शमनं कोपनं वा = वात् + ठक् → वातिक । - पित्तस्य शमनं कोपनं वा = पित्त + ठक् → पैत्तिक । - श्लेष्मणः शमनं कोपनं वा = श्लेमन् + ठक् → श्लैष्मिकम् । प्रक्रिया इयम् - श्लेष्मन् + ठक् → श्लेष्मन् + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → श्लैष्मन् + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → श्लैष्म् + इक [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → श्लैष्मिक [2] <!संनिपाताच्चेति वक्तव्यम्!> - षष्ठीसमर्थात् 'सन्निपात'शब्दात् अपि 'शमनम्' तथा 'कोपनम्' एतयोः अर्थयोः यथाविहितं प्रत्ययः भवति । (सन्निपातः इत्युक्ते वातादीनाम् युगपद्-उद्भवः इति पदमञ्जरीकारः स्पष्टीकरोति) । यथा - सन्निपातस्य शमनं कोपनं वा = सन्निपात + ठक् → सान्निपातिक ।

Balamanorama

Up

<<तस्य निमित्तं संयोगोत्पातौ>> - तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठन्ताट्ठञादयः स्युरित्यर्थः । शत्यः शतिको वेति । शतस्य निमित्तमित्यर्थः ।शताच्चे॑ति यट्ठनौ ।धनपतिसंयोग इति । याजनशुश्रूषादिसम्पर्क इत्यर्थः । उत्पाते उदाहरति — शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति । शतस्य निमित्तमित्यर्थः । सूचकत्वमेवात्र निमित्तत्वमिति भावः । उपसङ्ख्यानमिति । 'आर्हीयस्य ठक्' इति शेषः । कोपनं-वृद्धिः । संन्निपाताच्चेति ।तस्य निमित्तं संयोगोत्पातौ॑ इत्यर्थे ठ॑गिति शेषः । सान्निपातिकमिति । सन्निपातो — वाततित्तश्लेष्मणां दोषाणां सङ्कर इति वैद्यके प्रसिद्ध । तस्य निमित्तं — सान्निपातिकम्, ज्वरप्रकोपादौ अपथ्यभक्षणादिसंयोगः, संनिपातसूचकं जिह्वाकाष्ण्र्यादि च ।

Padamanjari

Up

शुभाशुभसूचक इति। तत्प्रयोजक इतिवत्वष्ठीसमासः। महाभूतानामिति। पृथिव्यादीनाम्। दक्षिणाक्षिस्पन्दनमिति। पाञ्चभौतिकशरीरे द्रव्यमेव च क्रियारूपेण परिणमते इति दक्षिणाक्षिस्पन्दनं महाभूतपरिणामः, तस्य च शुभस्य प्रति निमितत्वम्; ज्ञापकहेतुत्वाद्, न तु कारकहेतुत्वात्। वातिकमिति। शमनकोपने एवात्र प्रत्ययार्थौ, न तु निमितं ताभ्यां विशेष्यते। प्रकरणादिना च तयोरन्यतरावसायः। सन्निपातःउवातादीनां युगपदुद्भवः ॥