5-1-19 आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ्
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
आ-अर्हात् प्राग् वतेः अ-गोपुच्छ-संख्या-परिमाणात् ठक्
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये 'गोपुच्छ' इति शब्दम् , संख्यावाचिशब्दम् तथा परिमाणवाचिशब्दं विहाय अन्येभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
तदर्हति 5.1.63 इति वक्ष्यति। आ एतस्मादर्हसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः ठक् प्रत्ययस् तेष्वधिकृतो वेदितव्यः, गोपुच्छादीन् वर्जयित्वा। अभिविधावयमाकारः, तेन अर्हत्यर्थोऽपि ठक् भवत्येव। ठञधिकारमध्ये तदपवादः ठग्विधीयते। वक्ष्यति तेन क्रीतम् 5.1.37। नैष्किकम्। पाणिकम्। अगोपुच्छसङ्ख्यापरिमाणातिति किम्? गोपुच्छेन क्रीतं गौपुच्छिकम्। सङ्ख्या षाष्टिकम्। परिमाण प्रास्थिकम्। कौडविकम्। ठञ् प्रत्युदाह्रियते। सङ्ख्यापरिमाणयोः को विशेषः? भेदगणनं सङ्ख्या एकत्वादिः। गुरुत्वमानमुन्मानं पलादि। आयाममानं प्रमाणं वितस्त्यादि। आरोहपरिणाहमानं परिमाणं प्रस्थादि। ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः।
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
तदर्हति <{SK1728}> इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेषां शब्दानां विषये अनेन सूत्रेण केषुचन अर्थेषु ठक्-प्रत्ययविधानम् क्रियते । अस्मिन् विषये बिन्दुत्रयं क्रमेण पश्यामः -
केषु अर्थेषु ठक्-प्रत्ययविधानं कृतमस्ति? सूत्रे उच्यते - 'आ अर्हात्' । इत्युक्ते, तेन क्रीतम् 5.1.37 इत्यस्मात् प्रथमात् अर्थात् आरभ्य तदर्हति 5.1.63 इति एकादशमर्थं यावत् ये केऽपि अर्थाः प्राग्वतीय-अधिकारे पाठ्यन्ते, तेषाम् विषये अनेन सूत्रेण औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः पाठ्यते । अस्मिन् सूत्रे 'आ' (= 'आङ्') इति अव्ययम् 'अभिविधि' (till and including) अस्मिन् अर्थे कृतमस्ति, अतः अत्र आवल्याम् तदर्हति 5.1.63 इतस्य अपि समावेशः क्रियते इति स्मर्तव्यम् । अतः आहत्य एकादश-अर्थेषु वर्तमानसूत्रेण ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः प्रोच्यते ।
केषाम् शब्दानाम् विषये एतत् ठक्-प्रत्ययविधानम् कृतमस्ति? 'अ-गोपुच्छ-संख्या-परिमाणात्' । इत्युक्ते, संख्यावाचिशब्दान्, परिमाणवाचिशब्दान् (unit of measurement) तथा 'गोपुच्छ' एतम् शब्दम् विहाय अन्येषां सर्वेषां शब्दानां विषये ठञ्-प्रत्ययं बाधित्वा ठक्-प्रत्ययः विधीयते ।
को भेदः ठञ्-ठक्-प्रत्यययोः? ठञ्-प्रत्ययः ञित्-अस्ति, अतः ठञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः भवन्ति । परन्तु ठक्-प्रत्ययः तु कित्-अस्ति, अतः ठक्-प्रत्ययान्तशब्दाः कितः 6.1.165 इत्यनेन अन्तोदात्ताः जायन्ते । द्वयोरपि प्रयोगेण रूपम् तु समानमेव भवतीति स्मर्तव्यम् ।
यथा, तेन क्रीतम् 5.1.37 इति प्राग्वतीय-अधिकारस्य प्रथमः अर्थः । अस्मिन् अर्थे गोपुच्छशब्दात्, संख्याशब्दात् तथा च परिमाणवाचिशब्दात् ठञ्-प्रत्ययः भवति, अन्येभ्यः शब्देभ्यः च ठक्-प्रत्ययः भवति ।
उदाहरणानि -
[अ] गोपुच्छेन क्रीतम् = गोपुच्छ + ठञ् → गौपुच्छिक ।
[आ] सप्तत्या क्रीतम् = सप्तति + ठञ् → साप्ततिक ।
[इ] प्रस्थेन (Kilogram) क्रीतम् = प्रस्थ + ठञ् → प्रास्थिक ।
विशेषः - किम् नाम परिमाणम् ? येन वस्तुनः मापनम् क्रियते, तस्य निर्देशः 'परिमाणम्' इत्यनेन क्रियते । अस्मिन् विषये भाष्ये एका कारिका उक्ता अस्ति -
'ऊर्ध्वमानं किल उन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः ॥'
अस्यां कारिकायाम् 'सङ्ख्या' तथा 'परिमाण' एतयोर्मध्ये विद्यमानः भेदः स्पष्टीकृतः अस्ति । जडत्वस्य मापनार्थम् यत् प्रयुज्यते तत् 'उन्मानम्' नाम्ना ज्ञायते (उन्मान is a unit of measurement of weight. The reference here is that the weighing balance needs to be heldd vertically for assessing the correct weight. Hence the word 'ऊर्ध्वमान' is used in the वार्त्तिक) । सर्वप्रकारस्य मापनार्थम् यत् प्रयुज्यते तत् 'परिमाणम्' नाम्ना ज्ञायते । (परिमाण is a general term used for the unit of measurement) । आयामस्य (breadth / height / depth) मापनार्थम् यत् प्रयुज्यते तत् प्रमाणम् इति कथ्यते । उन्मान-प्रमाणयोः तु परिमाणेनैव ग्रहणम् भवति, अतः सूत्रे केवलम् 'परिमाण' इत्येव उच्यते । परन्तु एतेभ्यः सर्वेभ्यः सङ्ख्या भिन्ना अस्ति, अतः 'परिमाण' शब्देन सङ्ख्याशब्दानां ग्रहणं न भवति; अतः च तेषां निर्देशः अस्मिन् सूत्रे विशिष्टरूपेण कृतः अस्ति ।
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् - आर्हादगो । तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्घटितसूत्रपरम्, आङभिव्याप्तौ, व्याख्यानात् । तदाह — तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाऽश्रवणे उपतिष्ठते । अत्र सङ्ख्यापरिमाणयो पृथग्ग्रहणात्सङ्ख्या न परिमाणम् । तथा च वार्तिकम् — ॒ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः ।॑ इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं=गुञ्जामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामविस्तारोच्छ्रायैः व्रीह्रादि परिच्छिद्यते तत्परिमाणं=प्रस्थादि । आयामो दैध्र्यं येन परिच्छिद्यते तत्प्रमाणम्रत्निप्रादेशादि । सङ्ख्या तु उक्तत्रितयापेक्षया बाह्रा=भिन्ना एकत्वद्वित्वादीत्यर्थः ।
index: 5.1.19 sutra: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्
तदर्हतीति वक्ष्यतीति। तदेकदेशोऽर्हशब्दो निर्दिश्यत इति भावः, तदाह - आ एतस्मादर्हसंशब्दनादिति। तदर्हमित्ययंत्ववधिर्न भवति, यदि स्यादार्हादित्यनर्थकम्; प्राग्वतेरित्येव सिद्धत्वात्। ननु च वत्यर्थेऽपि ठको विधिर्यथा स्यादित्येवमर्थमार्हादिति वचनं स्याद् ? एवमप्याङ् एव निर्देशः कर्तव्यो वतेरित्येवाभिविधावाकारः। एवमपि ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्रापि वत्यर्थे ठक्प्राप्नोति। तस्माद्व्याख्यानमेवात्र शरणम्। गोपुच्छादीन्वर्जयित्वेति। अगोपुच्छशब्दात्सङ्खयावाचिनः परिमाणशब्दाच्चेत्ययं त्वर्थो न भवति। यदि स्यान्निष्कादिष द्रोणशब्दस्य परिमाणवाचिनः षष्ठिशब्दस्य सङ्ख्यावाचिनः पाठोऽनर्थकः स्याद् ? अनेनैव सिद्धत्वान्नानर्थकः। नियमार्थ पुनर्वचनं स्यात्-असमासएव यथा स्यादिति ? नैतदस्ति; विधिनियमसम्भवे विदेरेव ज्यायस्त्वात्। अभिविधो वायमाकार इति। यदि तु मर्यादायां स्यातस्य ग्रहणमनर्थकं स्यात्, प्राग्ग्रहणानुवृत्यैव सिद्धत्वात्, तेन किं सिद्धं भवति ? तदाह - अर्हत्यर्थेऽपि ठग्भवत्येवेति। सङ्ख्यापरिमाणयोः को विशेष इति। परिमीयते परिच्छिद्यते येन तत्परिमाणम्, सङ्ख्यापि च परिचिच्छिद्यते इति प्रशनः। भेदगणनं सङ्खयेति। भिद्यत इति भेदः, मिथो भिन्नाः पदार्थाः ते गण्यन्ते येन तद् भेदगणनम्। एकत्वादिसङ्खषासामान्योपक्रमत्वाद् भेदगणनी संख्येति न भवति, भेदगणनमित्यनेन पृथक्तवनिवेशितत्वमाह। यथोक्तं पृथक्तवनिवेशितत्वात्सङ्यया कर्मभेदः स्यादिति। एकत्वसङ्खयापि बहुषु बुद्ध्या सन्निवेशितेषु भेदमेकमस्हायमाह। गुरुत्वमानमुन्मानमिति। तुलादावारोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वमुन्मीयते, तदुन्मानमित्यर्थः। आयामामानं प्रमाणमिति। आयामःउदैर्घ्यम्, स येन मीयते तदायाममानम्। एतच्च क्वचित्रियगभिमुखस्य वस्तुनो भवति, यथा - वस्त्रादेर्हस्तादि, क्वचिदूर्ध्वाधरदिगवस्थितस्य भवति - हास्तिनमुदकम्, ऊरुद्वयसमुदकमिति। आरोहपरिणाहमानं परिमाणमिति। आरोहःऊच्छ्रायः, परिणाहःउ विस्तारः; ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्यादि परिमीयते तत्परिमाणम्। परिः सर्वतोभावे, संख्यापरिमाणयोर्विशेषे पृष्ठे उन्मानादविशेवप्रदर्शनं प्रसङ्गेन तद्विशेषस्याप्यज्ञानस्यापनयनार्थम्। ऊर्ध्वमानमिति। ऊर्ध्वारोपणाद् गुरुत्वमानमुन्मानमिति पूर्वोक्त एवार्थः। किलशब्दः प्रसिद्धौ। परिमाणं तु सर्वत इति। ऊर्ध्वमानमित्युपसमस्तमपि मानमित्येतदत्रापेक्ष्यते। एतदर्थमे केचिद् ऊर्ध्वं मानमिति व्यस्तं पठन्ति। आयामस्तेति। मानमित्यपेक्ष्यते, कर्मणि षष्ठी। प्रसिद्धस्तु पाठः आयामस्त्विति। तत्रायामपरिच्छेद्यर्थ उपचारादायामशब्देनोक्तः। सह्ख्या बाह्य तु सर्वत इति। पूर्वोक्तादुन्मानादेः सर्वतो बाह्या, तत्रानन्तर्भावात्। तस्याश्च संख्यायतेऽनयेति निर्वचनं भेदगणनलक्षणत्वं व्याख्यातव्यमित्यनुसन्धातव्यम् ॥