तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते

5-1-47 तत् अस्मिन् वृद्ध्यायलाभशुल्कोपदाः दीयते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्

Sampurna sutra

Up

'तत् अस्मिन् वृद्धि-आय-लाभ-शुल्क-उपदाः दीयते' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'अस्मिन् वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते' अस्मिन् अर्थे प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति ।

Kashika

Up

तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं वृद्ध्यादि चेत् तद् दीयते। दीयत इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकमभिसंबध्यते। तत्र यदधमर्णेनोत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भाग आयः। पटादीनामुपादानमूलादतिरिक्तं द्रव्यं लाभः। रक्षानिर्वेशो राजभागः शुल्कः। उत्कोच उपदा। पञ्च अस्मिन् वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः। सप्तकः। शत्यः, शतिकः। साहस्रः॥ चतुर्थ्यर्थ उपसंख्यानम्॥ पञ्चास्मै वृद्धिर्वा आयो वा लोभो वा शुल्को वा उपदा वा दीयते पञ्चको देवदत्तः। सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्। सममब्राह्मणे दानम् (मनु० ७.८५) इति यथा॥

Siddhanta Kaumudi

Up

वृद्धिर्दीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कमुपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ।<!चतुर्थ्यर्थ उपसंख्यानम् !> (वार्तिकम्) ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दीयते' इति 'दा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । यस्मिन् वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य निर्देशं कर्तुम् प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । क्रमेण पश्यामः - 1. वृद्धिः इत्युक्ते 'interest given on a loan.' । कश्चन धनिकः कस्मैचित् निर्धनाय किञ्चन धनम् ऋणरूपेण ददातीति चिन्तयामः । अग्रे सः निर्धनः धनिकाय तत् धनम् तु प्रत्यार्पयति एव, परन्तु तस्य उपरि किञ्चन अधिकमपि धनम् ददाति, यत् वृद्धिः नाम्ना ज्ञायते । यथा - धनिकेन दत्तानि शतं रूप्यकाणि प्रत्यार्पयितुम् यदि निर्धनः तस्मै शतोत्तरपञ्चं रूप्यकाणि ददाति, तर्हि अत्र पञ्चरूप्यकाणि वृद्धिः अस्ति । अस्यां स्थितौ 'पञ्च रूप्यकाणि वृद्धिः दीयते अस्मिन् व्यवहारे' इत्यत्र पञ्च-शब्दात् <<सङ्ख्यायाः अतिशदन्तायाः कन्>> 5.1.22 इति कन्-प्रत्ययः भवति । पञ्च रूप्यकाणि वृद्धिः दीयते यस्मिन् व्यवहारे सः पञ्चकः व्यवहारः । 2. 'आयः' इत्युक्ते 'tax' । देशस्य राजा सर्वेभ्यः जनेभ्यः धनस्य अन्नस्य वा यमंशम् देशार्थम् स्वीकरोति, सः अंशः 'आयः' नाम्ना ज्ञायते । अस्यां स्थितौ 'आयः दीयते अस्मिन् देशे / ग्रामे' इत्यत्र प्रथमासमर्थात् आयवाचिशब्दात् अनेन सूत्रेण यथाविहितं प्रत्ययः भवति । यथा, शतमायः दीयते यस्मिन् देशे सः शतिकः देशः । अत्र 'शत'शब्दात् <<शताच्च ठन्यतावशते>> 5.1.21 इत्यनेन ठन्-प्रत्ययं कृत्वा 'शतिक'रूपं सिद्ध्यति । 3. लाभः इत्युक्ते 'profit' । आपणिकः वस्तूनां विक्रयेण मूलात् अतिरिक्तं यत् धनम् लभते, तत् 'लाभः' नाम्ना ज्ञायते । अस्यां स्थितौ 'लाभः दीयते अस्मिन् व्यवहारे / क्रयणे' इत्यत्र प्रथमासमर्थात् लाभवाचिशब्दात् यथाविहितं प्रत्ययः भवति । यथा, सहस्रम् लाभः दीयते यस्मिन् व्यवहारे सः साहस्रः व्यवहारः । अत्र <<शतमानविंशतिकसहस्रवसनादण्>> 5.1.27 इत्यनेन अण्-प्रत्ययं कृत्वा रूपं सिद्ध्यति । 4. 'शुल्क' इति अपि विशिष्ट-प्रकारस्य आयः एव, परन्तु तस्य विशिष्टः अर्थः व्याख्यानेषु दीयते । सैनिकानाम् वेतनार्थम् यत् धनम् राज्ञे दीयते, तत् धनम् शुल्कम् नाम्ना ज्ञायते । A specific tax given to the king that is used to pay the salaries of soldiers is called शुल्क । (अस्मिन् विषये अधिकम् जिज्ञासवः न्यासं पश्यन्तु) । उदाहरणम् - विंशतिः शुल्कम् दीयते अस्मिन् राज्ये तत् विंशकम् राज्यम् । अत्र <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> 5.1.24 इति ड्वुन्-प्रत्ययः भवति । 5. 'उपदा' इत्युक्ते bribe । स्वस्य लाभार्थम् यत् धनम् कस्मैचित् अवैधरूपेण दीयते, तत् 'उपदा' नाम्ना ज्ञायते । उदाहरणम् - चत्वारिंशत् उपदा दीयते यस्मिन् व्यवहारे सः चात्वारिंशत्कः व्यवहारः । अत्र औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । ज्ञातव्यम् - अत्र कौमुदीकारः <!चतुर्थ्यर्थे उपसंख्यानम्!> इति वार्त्तिकमपि पाठयति । इत्युक्ते, 'तद् अस्मिन् दीयते' इत्यस्य स्थाने 'तत् अस्मै दीयते' इति अर्थः स्वीक्रियते चेदपि अस्य सूत्रस्य प्रयोगः भवति - इति आशयः । यथा, 'शतम् वृद्धिः दीयते अस्मै धनिकाय सः शतिकः धनिकः' - इति । भाष्यकारस्तु अस्य वार्त्तिकस्य निर्देशं न करोति, अपितु 'यस्मै दीयते तस्मिन्नपि तद्दीयते' इति उक्त्वा 'अधिकरणेन विवक्षया सम्प्रदानकारकमपि निर्दिश्यते' इति स्पष्टीकरोति । अस्मिन् विषये काशिकाकारः वदति - 'सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्' । इत्युक्ते, 'तस्मै' इत्यस्य निर्देशः विवक्षया 'तस्मिन्' इत्यनेन अपि भवितुमर्हति (यतः कारकाणि विवक्षातः भवन्ति), अतः विशिष्टरूपेण 'तस्मै' ग्रहणस्य आवश्यकता नास्ति - इति ।

Balamanorama

Up

<<तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते>> - तदस्मिन् । वृद्धि, आय, लाभ, शुल्क, उपदा एषां द्वन्द्वात्प्रथमाबहुवचनम् । ननु तर्हि दीयत इति कथमेकवचनमित्यत आह — वृद्धिर्दीयत इत्यादि क्रेमेणेति । एवंच तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुल्को दीयते, इत्यर्थेषु प्रतमान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । पञ्चक इति । 'सङ्ख्यायाः' इति कन् । शतिकः । शत्य इति । शतमस्मिन्वृद्धिः, आयः, लाभः, शुल्कः, उपदा वा दीयते इति विग्रहः ।शताच्च ठन्यतौ॑ । साहरुआ इति । सहरुआमस्मिन्दीयते इत्यादि विग्रहः ।शतमानसहरुओ॑त्यण् । रक्षानिर्वेश इति । रक्षा=प्रजापरिपालनम्, तदर्थे निर्वेशः=भृतिः रक्षानिर्वेशः । उत्कोचेति ।मह्रं किञ्चिद्दत्तं चेत्तव राजद्वारेऽनुरकूलो भवामी॑त्यादि समयं कृत्वा यद्गृह्रते तदुत्कोच इत्युच्यत इत्यर्थः ।चतुथ्र्यर्थ इति । तदस्मै वृद्ध्यादि दीयते इत्युपसंख्यातव्यमित्यर्थः । सममब्राआहृणे इति । एवंच सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धेरुपसह्ख्यानमिदं नादर्तव्यमिति भावः ।

Padamanjari

Up

पूरणवाचिन इति। पूर्यते येनार्थः स पूरणः, तद्वाचिन इत्यर्थः। एतेन'पूरण' इत्यर्थस्येदं ग्रहणम्, न तु प्रत्ययस्येति दर्शयति। यदि तु पूरणग्रहणं स्वर्येत ततः स्वरितेनाधिकारगतिर्भवतीति'तस्य पूरणे डट्' इति पूरणाधिकारविहिता डटादयः प्रत्यया गृह्यएरन्, यथा-गोस्त्रियोरित्यत्र स्त्र्यधिकारविहिताष्टाबादयः, ततश्च'पूरणाद्भागे तीयादन्' इत्यनन्तान्न स्यात्, अर्थग्रहणे ततोऽपि भवति, तहन्तमपि हि पूरण एवार्थे वर्तते, स्वार्थिकत्वादनः। तस्मादर्थग्रहणमेव न्याय्यम्। ठक्टिठनोरपवाद इति। पूरणादार्ङीयस्य ठकोऽपवादः। अर्द्धादपिअर्द्धाच्यति वक्तव्यमिति टिठनः। स्त्रियां च विशेषः, टिठिनि हि सति ङीप् स्यात्, ठनि तु टाप् भवति। अर्द्धशब्दो रूपकार्द्धस्य रूढिरिति। रूपकमुकार्षापणम्, तदीयस्य भागस्यार्द्धशब्दो वाचकत्वेन प्रसिद्ध इत्यर्थः। तेनार्द्धिक इति भागवत्सापेक्षत्वेनासामर्थ्यं नोद्भावनीयमिति भावः ॥