प्रयोजनम्

5-1-109 प्रयोजनम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य

Sampurna sutra

Up

'तत् अस्य प्रयोजनम्' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'अस्य प्रयोजनम्' अस्मिन् अर्थे प्रथमासमर्थात् प्रयोजनवाचिशब्दात् यथाविहितं प्रत्ययः भवति ।

Kashika

Up

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रयोजनं चेत् तद् भवति। इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम्। गाङ्गामहिकम्॥

Siddhanta Kaumudi

Up

तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे औत्सर्गिकः ठञ् प्रत्ययः भवति । वस्तुतस्तु कमपि शब्दम् स्वीकृत्य 'तत् अस्य प्रयोजनम्' इति अर्थः वक्तुं शक्यते । तथापि, अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्य एव करणीयः । अस्मिन् विषये व्याख्यानेषु लभ्यमानानि उदाहरणानि एतानि सन्ति - 1. इन्द्रमहः (= इन्द्रस्य उत्सवः) प्रयोजनमस्य तत् ऐन्द्रमहिकम् वाद्यम् । 2. गङ्गामहः (= गङ्गायाः उत्सवः) प्रयोजनमस्याः सा गाङ्गामहिकी पुष्पमाला । अत्र स्त्रीत्वे <<टिड्ढाणञ्..>> 4.1.15 इति ङीप्-प्रत्ययः क्रियते ।

Balamanorama

Up

<<प्रयोजनम्>> - प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्ताट्ठञित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची । प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः ।

Padamanjari

Up

प्रयुज्यतेऽनेनेति प्रयोजनम्, करणे ल्युट्। किं पुनस्तत्फलम् ? यथाहुः - यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनमिति। इन्द्रमहःउइन्द्रोत्सवः ॥