5-1-56 सः अस्य अंसवस्नभृतयः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् ःअरति वहति आवहति
'सः अस्य अंश-वस्न-भृतयः' इति समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः
'अंशः', 'वस्नम् ', 'भृतिः' - एतेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति ।
स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थमंशवस्नभृतयश्चेत् ता भवन्ति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः॥
अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥
'अंश' इत्युक्ते भागः । 'वस्नम्' इत्युक्ते मूल्यम् । 'भृति' इत्युक्ते वेतनम् । एतेषु सर्वेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । उदाहरणानि एतानि - 1. पञ्च अंशाः अस्य सः = पञ्चकः । <<सङ्ख्यायाः अतिशदन्तायाः कन्>> 5.1.22 इति कन् । 2. सहस्रम् वस्नमस्याः सा साहस्री । <<शतमानविंशतिकसहस्रवसनादण्>> 5.1.27 इति अण् । स्त्रीत्वे <<टिड्ढाणञ्..>> 4.1.15 इति ङीप् । 3. द्वे शते भृतिः अस्य सः द्विशत्यः द्विशतः वा । <<पणपादमाषशताद्यत्>> 5.1.34 इति यत् । तस्य <!शताच् चेति वक्तव्यम्!> अनेन वार्त्तिकेन विकल्पः । पक्षे <<सङ्ख्यायाः अतिशदन्तायाः कन्>> 5.1.22 इति कन्, तस्य च लुक् ।
<<सोऽस्यांशवस्नभृतयः>> - सोऽस्यांश । स इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पञ्चक इति । 'संख्यायाः' इति कन् ।
इह च शतं यस्य वक्नो भवति स तेन क्रीतो भवति, तत्र तेन क्रीतमित्येव सिद्धम् नार्थो वस्नग्रहणेन ? नैतदस्ति; योग्यतामात्रेऽप्यस्येदं मूल्यमिति व्यवहारत् ॥