5-1-108 प्रकृष्टे ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य कालात्
index: 5.1.108 sutra: प्रकृष्टे ठञ्
'तत् अस्य' (इति) कालात् प्रकृष्टे ठञ्
index: 5.1.108 sutra: प्रकृष्टे ठञ्
'अस्य प्रकृष्टः ( = दीर्घः)' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् ठञ् प्रत्ययः भवति ।
index: 5.1.108 sutra: प्रकृष्टे ठञ्
कालातित्येव, तदस्य इति च। प्राप्तम् इति निवृत्तम्। प्रकर्षेण कालो विशेष्यते। प्रकर्षे वर्तमानात् कालात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति। प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणम्। कालिकं वैरम्। ठञ्ग्रहणं विस्पष्टार्थम्।
index: 5.1.108 sutra: प्रकृष्टे ठञ्
कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥
index: 5.1.108 sutra: प्रकृष्टे ठञ्
'प्रकृष्टः' इत्युक्ते दीर्घः । 'अस्य कालः दीर्घः अस्ति' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् ठञ् प्रत्ययः भवति ।
यथा - प्रकृष्टः कालः अस्य ऋणस्य तत् कालिकम् ऋणम् । प्रकृष्टः कालः अस्याः शत्रुतायाः सा कालिकी शत्रुता । (स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययः भवति)।
ज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'ठञ्' प्रत्ययः अधिकारसामर्थ्येन उपस्थितः अस्ति एव । तस्य सूत्रे विशिष्टरूपेण निर्देशस्य कापि आवश्यकता नास्ति । केवलम् स्पष्टतायै अत्र 'ठञ्' इति पुनरुच्यते ।
index: 5.1.108 sutra: प्रकृष्टे ठञ्
प्रकृष्टे ठञ् - प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दाट्ठञित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति ।
index: 5.1.108 sutra: प्रकृष्टे ठञ्
प्रकर्षेणेति। प्रकृष्टशब्दे प्रकृत्यर्थस्य निष्कृप्य कथनमेतत्, एवं प्रकृष्टे उप्रकर्षे। वर्तमानादिति। प्रकर्षविशिष्टेऽर्थे वर्तमानादित्यर्थः। न त्वत्र'नपुंसके भावे क्तः' दर्शितः, कर्मणि क्तान्तोऽयं प्रकृष्यते, स प्रकृष्ट इति; अन्यथा प्रकृष्टो दीर्घः कालोऽस्येनि विग्रहो न घटेत। ठञ्ग्रहणं विस्पष्टार्थमिति। अन्यथानन्तरस्य यतोऽनुवृत्तिराशङ्क्येत ॥