तस्य च दक्षिणा यज्ञाख्येभ्यः

5-1-95 तस्य च दक्षिणा यज्ञाख्येभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्

Sampurna sutra

Up

'तस्य दक्षिणा' (इति) यज्ञाख्येभ्यः समर्थानां प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

'दक्षिणा' अस्मिन् अर्थे षष्ठीसमर्थेभ्यः यज्ञवाचिभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्ययः भवति ।

Kashika

Up

तस्येति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। <<प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि>> (महाभाष्य — वा० ५.१.२०) इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः॥

Siddhanta Kaumudi

Up

द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'यज्ञाख्य' इत्युक्ते 'यज्ञस्य नाम' (यज्ञस्य आख्या यज्ञाख्यः) । षष्ठीसमर्थात् यज्ञस्य नामवाचिनः प्रातिपदिकात् दक्षिणायाः निर्देशं कर्तुमनेन सूत्रेण ठञ् प्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । स्त्रीत्वे <<टिड्ढाणञ्..>> 4.1.15 इति ङीप् । 2. वाजपेयस्य दक्षिणा वाजपेयिकी । 3. राजसूयस्य दक्षिणा राजसूयिकी । 4. द्वादशाहस्य दक्षिणा द्वादशाहिकी । ज्ञातव्यम् - वस्तुतः अत्र 'कालात्' इत्यस्य अधिकारः प्रचलति । अतः ये यज्ञवाचकाः शब्दाः कालवाचकाः अपि सन्ति (यथा - द्वादशाह = द्वादशानि दिनानि यावत् क्रियमाणः यज्ञः) तेभ्यः एव अस्य सूत्रस्य प्रसक्तिः स्यात् । परन्तु वस्तुतः अस्य सूत्रस्य प्रयोगः सर्वेभ्यः यज्ञवाचिभ्यः शब्देभ्यः इष्यते । अतएव अस्मिन् सूत्रे 'यज्ञाख्य' इति स्पष्टरूपेण उक्तमस्तीति व्याख्यानेषु स्पष्टीक्रियते । यथा, काशिकाकारः वदति - 'आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति' । इत्युक्ते, 'आख्या' अस्य शब्दस्य प्रयोगेण पाणिनिः एतत् स्पष्टीकरोति यत् अत्र सर्वेषाम् यज्ञानाम् नामानि ग्रहीतव्यानि - इति ।

Balamanorama

Up

<<तस्य च दक्षिणा यज्ञाख्येभ्यः>> - तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः । द्वादसाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः । तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः ।काला॑दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमितितदस्य परिमाण॑मिति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह — आक्याग्रहणादकालादपीति । अन्यथा 'यज्ञेभ्य' इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः । वस्तुतस्तु 'यज्ञेभ्य' इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः । आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् ।

Padamanjari

Up