तस्य वापः

5-1-45 तस्य वापः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्

Sampurna sutra

Up

index: 5.1.45 sutra: तस्य वापः


'तस्य वापः' (इति) समर्थानां प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.45 sutra: तस्य वापः


'वापः' (= क्षेत्रम्) अस्मिन् अर्थे षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.1.45 sutra: तस्य वापः


तस्य इति षष्ठीसमर्थाद् वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। उप्यतेऽस्मिन् वापः क्षेत्रमुच्यते। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। खारीकम्।

Siddhanta Kaumudi

Up

index: 5.1.45 sutra: तस्य वापः


उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.45 sutra: तस्य वापः


वापः इत्युक्ते क्षेत्रम् । वप्-धातोः अधिकरणे घञ्-प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति - उप्यते अस्मिन् सः वापः । अस्मिन् अर्थे षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितं प्रत्ययः भवति । यथा -

  1. प्रस्थस्य वापः = प्रस्थ + ठञ् → प्रास्थिक । 'प्रस्थ' इति गुरुत्वस्य किञ्चन परिमाणम् (kilogram इत्यर्थः) । यस्मिन् क्षेत्रे एकप्रस्थं यावत् बीजानि वप्तुम् शक्यन्ते, तस्य निर्देशं कर्तुम् 'प्रस्थ'शब्दात् औत्सर्गिकः ठञ्-प्रत्ययः भवति । A field where 1 kg of seeds are sown सः प्रास्थिकः वापः ।

  2. द्रोणस्य वापः = द्रोण + ठक् → द्रौणिक । 'द्रोण' इति मापनस्य किञ्चन परिमाणम् , bowl इत्यर्थः । द्रोणं यावत् बीजमुप्यन्ते अस्मिन् वापे सः द्रौणिकः वापः । अत्र असमासे निष्कादिभ्यः 5.1.20 इति ठक्-प्रत्ययः भवति ।

  3. पञ्चानां द्रोणानां वापः पञ्चद्रोणः । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन प्रत्ययस्य लुक् भवति ।

  4. खार्याः वापः खारीकः । अत्र खार्या ईकन् 5.1.33 इत्यत्र पाठितेन <! केवलायाश्चेति वक्तव्यम्!> अनेन वार्त्तिकेन ईकन्-प्रत्ययः भवति । खारी + ईकन् → खारीक ।

ज्ञातव्यम् - अस्य सूत्रस्य प्रयोगः केवलं कर्मणि-अर्थे एव भवति, कर्तरि-अर्थे न । इत्युक्ते, 'प्रस्थस्य वापः' इत्यत्र 'प्रस्थमुप्यते अस्मिन्' इति स्थिते प्रस्थशब्दः कर्मरूपेण विधीयते, अतः प्रस्थ-शब्दात् अत्र प्रत्ययविधानम् भवति; परन्तु 'देवदत्तस्य वापः' इत्यत्र 'देवदत्तेन उप्यते अस्मिन्' इति स्थिते देवदत्तशब्दः कर्तारूपेण विधीयते, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति । अस्मिन् विषये पदमञ्जरीकारः ददाति - 'तस्येति वापापेक्षया कर्मणि षष्ठी, न तु कर्तरि; तेन देवदतस्य वापः क्षेत्रमित्यादौ न भवति' ।

Balamanorama

Up

index: 5.1.45 sutra: तस्य वापः


तस्य वापः - तस्य वापः । अस्मिन्नर्थे षष्ठन्ताद्यथाविहितं टञादयः स्युरित्यर्थः । प्रास्थिकमिति । प्रस्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीष्ठञ् । द्रौणिकमिति । निष्कादित्वाट्ठक् । खारीकमिति । खार्या ईकन् । द्रोणस्य खार्याश्च वाप इत्यर्थः ।

Padamanjari

Up

index: 5.1.45 sutra: तस्य वापः


तस्येति वापापेक्षया कर्मणि षष्ठी, न तु कर्तरि, तेन देवदतस्य वापः क्षेत्रमित्यादौ न भवति ॥ तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते॥ दीयत इत्येकवचान्तं वृद्ध्यादिभिः प्रत्येकमभिसम्बद्ध्यत इति। तेन वृद्धयादीनां बहुत्वेऽपि बहुवचनं न भवतीति भावः। प्रत्येकं सम्बन्धस्तु द्वन्द्वपर्तिनां पदानां बुद्ध्या निष्कर्षाल्लभ्यते एतच्च दीयत इत्यस्य विशेषणस्य वृद्ध्युपक्रमत्व उक्तम्, यदा तु यतत्प्रथमासमर्थ दीयते चेतद्भवतीत्येवमुपक्रम्यते, पश्चातु किं पुनस्तद्दीयत इत्यपेक्षायां वृद्ध्यादयः संतद्यन्ते तदा न किञ्चिद्यत्नसाध्यम्। उतमर्णधनातिरिक्तमिति। उतमर्णेन यद्दतम् धनं तस्मादधिकमित्यर्थः, संज्ञा वृद्धिस्तु न गृह्यते; आयादिभिः साहचर्यात्। उपादानमूलातिरिक्तमिति। पटादीनामुपादानं तन्त्वादि, तस्य मूलमुत्पत्तिकारणं द्रव्यम्, तस्मादधिकं पटादि विक्रयेण यल्लभ्यते स लाभः, निर्वेशो भृतिः, रक्षानिमितको निर्वेशो रक्षानिर्वेशः, सम्बन्धषष्ठ।ल समासः। शुल्कग्रहणं प्रपञ्चार्थम्, तस्याप्यायविशेषत्वात्, तथा च'ठगायस्थानेभ्यः' इति शुल्कस्थानादपि भवति शौल्कशालिक इति। यत्र ग्रामादौ वृद्ध्यादि दीयते तत्र प्रत्ययो विधीयमानः संप्रदाने न प्राप्नोतीत्यत आह - चतुर्थ्यर्थ उपसंख्यानमिति। सिद्धं त्विति। विवक्षातः कारकाणि भवन्तीति संप्रदानस्यैवाधिकरणत्वेन विवक्षितत्वात्सिद्धमिष्टमित्यर्थः। क्व यथेत्याह - सममिति ॥