षष्टिकाः षष्टिरात्रेण पच्यन्ते

5-1-90 षष्टिकाः षष्टिरात्रेण पच्यन्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्

Sampurna sutra

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


'षष्टिरात्रेण पच्यन्ते' (इति) षष्टिकाः ।

Neelesh Sanskrit Brief

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


'षष्टिरात्रेण पच्यन्ते' अस्मिन् अर्थे 'षष्टिक'शब्दः निपात्यते ।

Kashika

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


षष्टिकशब्दो निपात्यते। बहुवचनमतन्त्रम्। षष्टिरात्रशब्दात् तृतीयासमर्थात् कन् प्रत्ययो निपात्यते पच्यन्ते इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टिरात्रेण पच्यन्ते षष्टिकाः। संज्ञा एषा धान्यचिशेषस्य। तेन मुद्गादिष्वतिप्रसङ्गो न भवति।

Siddhanta Kaumudi

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


अनेन सूत्रेण 'षष्टिक' इति शब्दः निपात्यते । अयम् कस्यचन धान्यविशेषस्य संज्ञा अस्ति । यत् धान्यम् 'षष्टिरात्रेण पच्यते' (इत्युक्ते षष्टिरात्रम् यावत् पाकक्रियां कृत्वा यस्य संस्करणम् भवति) तस्य निर्देशार्थम् 'षष्टिक' इति संज्ञा विधीयते । षष्टिक is a specific type of grain whose processing invokes cooking for a period of sixty days.

प्रक्रिया इयम्

'षष्टिरात्रेण पच्यन्ते' अस्मिन् अर्थे कन्-प्रत्ययस्य निपातनम्

→ षष्टिरात्र + कन्

→ षष्टिक ['रात्र' शब्दस्य निपातनात् लोपः]

ज्ञातव्यम् -

  1. सर्वेषाम् धान्यानाम् (यथा मुद्गादीनाम्) विषये अयम् शब्दः न प्रयुज्यते । आचार्यस्य काले प्रयुज्यमाणस्य कस्यचन विशिष्टस्य धान्यस्य इयम् संज्ञा अस्ति । अतएव भाष्यकारः अत्र वदति - षष्टिके संज्ञाग्रहणं कर्तव्यम् । इत्युक्ते, 'षष्टिक'शब्दः संज्ञारूपेणैव बोध्यः ।

  2. यद्यपि अस्मिन् सूत्रे 'षष्टिकाः' इति बहुवचनान्तप्रयोगः कृतः अस्ति, तथाप्यत्र बहुवचनस्य न किमपि प्रयोजनम् । 'षष्टिक'शब्दस्य रूपाणि त्रिषु वचनेषु प्रयुक्तानि दृश्यन्ते ।

Balamanorama

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


षष्टिकाः षष्टिरात्रेण पच्यन्ते - षष्टिकाः । तृतीयान्तादिति ।षष्टिरात्रशब्दा॑दिति शेषः ।

Padamanjari

Up

index: 5.1.90 sutra: षष्टिकाः षष्टिरात्रेण पच्यन्ते


लघुत्वात्प्रथमातिक्रमे कारणाभावाच्च एकवचनेनैव निर्देशाद्विवक्षितं तदिति मन्यमानं प्रत्याह - बहुवचनमतन्त्रमिति। तथा च वार्तिके -'षष्टिके संज्ञाग्रहणं कर्तव्यम्' इत्येकवचनं प्रयुक्तम्। प्रयोगबाहुल्यातु सूत्रे बहुवचनप्रयोगः, षष्टिरात्रेण पच्चन्त इत्यत्रार्थे निपात्यमानस्य षष्टिकशब्दस्य धान्यविशेष एव प्रयोगो यथा स्यात्, णुद्गादिषु मा भूदित्येवमर्थं संज्ञाग्रहणं कर्तव्यमिति वार्तिककारोणोक्तम्। तदेतन्निपातनादेव सिद्धमित्यभिप्रायेणाह - संज्ञैषेत्यादि ॥