3-4-85 लोटः लङ्वत् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य
index: 3.4.85 sutra: लोटो लङ्वत्
लोटः लङ्वत्
index: 3.4.85 sutra: लोटो लङ्वत्
लोट्-लकारस्य प्रत्ययाः लङ्लकारवत् एव सन्ति ।
index: 3.4.85 sutra: लोटो लङ्वत्
The प्रत्ययाः of the लोट्-लकार are derived in the same way as that of the लङ्लकार.
index: 3.4.85 sutra: लोटो लङ्वत्
अतिदेशोऽयम्। लोटो लङ्वत् कार्यं भवति। तामादयः, सलोपश्च। पचताम्। पचतम्। पचत। पचाव। पचाम। अडाटौ कस्मान् न भवतः, तथा झेर्जुसादेशः लङः शाकटायनस्य एव 3.4.111 इति वान्तु, यान्तु? विदो लटो वा 3.4.83 इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा भविष्यति।
index: 3.4.85 sutra: लोटो लङ्वत्
लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥
index: 3.4.85 sutra: लोटो लङ्वत्
लोटस्तामादयस्सलोपश्च॥
index: 3.4.85 sutra: लोटो लङ्वत्
एतत अतिदेशसूत्रम् । अनेन सूत्रेण लङ्-लकारस्य गुणाः लोट्-लकारे आरोप्यन्ते । इत्युक्ते, लङ्-लकारविशिष्टं प्रत्ययकार्यम् लोट्-लकारस्य विषये अपि भवति इत्यर्थः । यथा -
तस्थस्थमिपाम् तान्तन्तामः 3.4.101 इत्यनेन लङ्लकारस्य विषये तस्-प्रत्ययस्य ताम्-आदेशः, थस्-प्रत्ययस्य तम्-आदेशः, थ-प्रत्ययस्य त-आदेशः तथा मिप्-प्रत्ययस्य अम्-आदेशः भवति । मिप्-प्रत्ययादेशं विहाय अत्र निर्दिष्टाः अन्ये आदेशाः लोट्-लकारस्य विषये अपि भवन्ति । यथा - पठ् धातोः लोट्लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् 'पठतम्' अत्र तम्-प्रत्ययः अनेनैव सूत्रेण लभ्यते ।
नित्यं ङितः 3.4.99 इत्यनेन लङ्-लकारस्य विषये वस्-मस्-प्रत्यययोः सकारस्य लोपः भवति । लोट्लकारस्य विषये अपि अनेन सूत्रेण अयं लोपः जायते । यथा - पठ् धातोः लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् 'पठाव' अत्र व-प्रत्ययः अनेनैव सूत्रेण लभ्यते ।
ज्ञातव्यम् -
लुङ्लङ्लृक्ष्वडुदात्तः 6.4.71 इत्यनेन लङ्लकारस्य विषये अङ्गस्य अडागमः भवति । इदमपि लङ्-विशिष्टम् कार्यम्, परन्तु इदम् कार्यमङ्गकार्यमस्ति, प्रत्ययकार्यम् न । अतः वर्तमानसूत्रेण एतत् कार्यम् न गृह्यते । अस्मिन् विषये काशिकाकारः वदति - 'विदः लटः वा 3.4.83 इत्यतः वाग्रहणमनुवर्तते' । इत्युक्ते, पूर्वसूत्रात् 'वा' इत्यस्य अनुवृत्तिम् स्वीकृत्य अत्र तस्य अर्थः 'व्यवस्थितविभाषा' इति स्वीकरणीयः । व्यवस्थितविभाषा इत्युक्ते 'सूत्रेण उक्तं कार्यम् केषुचन प्रयोगेषु नित्यं भवति, केषुचन अन्येषु प्रयोगेषु नैव भवति' इत्यर्थः । अत्र लोट्-लकारस्य लङ्-लकारवत् कार्यमडागमादिषु विषयेषु न भवतीति निर्देष्टुम् एतत् आवश्यकम् ।
यद्यपि अनेन सूत्रेण लोट्लकारः लङ्वत् कार्यं करोति इत्युच्यते, तथापि लोट्-लकारविशिष्टाः प्रत्ययादेशाः पाठिताः सन्ति चेत् ते एव भवन्ति । यथा -
अ) मिप्-प्रत्ययस्य लोट्-लकारस्य विषये मेर्नि 3.4.89 इत्यनेन नि-आदेशः विधीयते, अतः मिप्-प्रत्ययार्थम् तस्थस्थमिपाम् तान्तन्तामः 3.4.101 इत्यस्य प्रयोगः न भवति ।
आ) इतश्च 3.4.100 इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । तस्य अपवादरूपेण लोट्लकारस्य विषये एरुः 3.4.86 इति इकारस्य उकारादेशः भवति ।
index: 3.4.85 sutra: लोटो लङ्वत्
लोटो लङ्वत् - लोटो लङ्वत् । लङ इव लङ्वत् ।तत्र तस्येवे॑ति षष्ठन्ताद्वतिः । तदाहलोटो लङ इवेति । ननु तर्हिलुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यडागमोऽपि स्यादित्यत आह — तेनेति । लङ इति स्थानषष्ठन्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः । अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः । केन तामादयः, केन वा सलोप इत्यत आह — तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः ।
index: 3.4.85 sutra: लोटो लङ्वत्
लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङदेशेषु च लङ्शब्दः, लोडादेशानां लङदेशवत्कार्यं भवतीत्यर्थः, तदाह - तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङ्दृष्टित्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवतीति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः ।'लङ्ः शाकटायनस्य' इति जुस्भावोऽपि लङ् एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु'सिजभ्यस्तविदिभ्यश्च' इति लङ् दृष्टो जुस्भाविः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ।ल्न्तं विज्ञायते - लङे यत्कार्यं तल्लोटो भवतीति, न तु लङ् यित्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम्'लङ्ः शाकटायनस्य' इत्यत्र स्वयमेव वक्ष्यति ॥