3-4-86 एः उः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः
लोटः लस्य एः उः
लोट्लकारस्य विषये प्रत्ययस्य 'इ' कारस्य उकारः भवति ।
The इकार present in the प्रत्ययाs of लोट्लकार is converted to उकार.
लोट इत्येव। लोडादेशानामिकारस्योकारादेशो भवति। पचतु। पचन्तु॥ हिन्योरुत्वप्रतिषेधो वक्तव्यः॥ न वोच्चारणसामर्थ्यात्। अथवा वेति वर्तते, सा च व्यवस्थितविभाषा॥
लोट इकारस्य उः स्यात् । भवतु ॥
लोट इकारस्य उः। भवतु॥
लोट्लकारस्य विषये तिङ्प्रत्ययानाम् इकारस्य उकारः भवति । यथा - 1. परस्मैपदस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य इकारस्य उकारं कृत्वा 'तु' इति लोट्लकारस्य प्रत्ययः सिद्ध्यति । 2. परस्मैपदस्य प्रथमपुरुषबहुवचचनस्य 'झि' प्रत्ययस्य <<झोऽन्तः>> 7.1.3 इत्यनेन 'अन्ति' आदेशे कृते अस्य इकारस्य उकारं कृत्वा 'अन्तु' इति लोट्लकारस्य प्रत्ययः सिद्ध्यति । ज्ञातव्यम् - 1. सिप्-प्रत्ययस्य <<सेह्यर्पिच्च>> 3.4.87 इत्यनेन हि-आदेशः भवति । तथा च, मिप्-प्रत्ययस्य <<मेर्नि>> 3.4.89 इत्यनेन नि-आदेशः भवति । अस्याम् स्थितौ एतत् वार्तिकम् प्रवर्तते - <!हिन्योरुत्वप्रतिषेधो वक्तव्यः !> । हि-प्रत्ययस्य नि-प्रत्ययस्य च उत्वम् न भवति इत्यर्थः । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति । 2. आत्मनेपदस्य प्रत्ययानां विषये <<टित आत्मनेपदानां टेरे>> 3.4.79 अनेन सूत्रेण एकारः विधीयते । एतत् सूत्रम् यद्यपि पूर्वमस्ति, तथापि नित्यत्वात् अस्यैव प्रसक्तिः भवति । अतः वर्तमानसूत्रेण आत्मनेपदानाम् विषये उकारः न विधीयते । 3. <<लोटो लङ्वत्>> 3.4.85 इत्यनेन लोट्-लकारस्य विषये लङ्लकारस्य गुणाः आरोप्यन्ते । <<इतश्च>> 3.4.100 इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । अतः अनेन सूत्रेण लोट्लकारस्यापि प्रत्ययस्थस्य इकारस्य लोपे प्राप्ते वर्तमानसूत्रम् तस्य अपवादरूपेण आगच्छति ।
लोडादेशानामिकारस्येति । अथ तु - लोडादेशो य इकारस्तस्य इत्यर्थोऽभिप्रेतः स्यादिट इत्येव ब्रूयात,'तुह्योः विदाङ्कुर्वन्तु' इति च निर्देशोऽनुपपन्नः स्याद् । अथेदानीमिटोऽपि व्यपदेशिवद्भावेनेत्वं कस्मान्न भवति ? पुनः प्रसङ्गविज्ञानात् टेरेत्वं भविष्यति । न वोच्चारणसामर्थ्यादिति । यदि हिन्योरुत्वं स्यात्'सेर्हुः' 'मेर्नुः' इत्येव ब्रूयाद्, एवं हि प्रक्रियालाघवं भवतीति भावः । ठानि लोट्ऽ, हुझल्भ्यो हेधिःऽ इति लिङ्गं हिनयोरुत्वाभावस्य ॥