नित्यं ङितः

3-4-99 नित्यं ङितः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोपः सः उत्तमस्य

Sampurna sutra

Up

ङितः लस्य उत्तमस्य सः नित्यं लोपः

Neelesh Sanskrit Brief

Up

ङित्-लकारेषु उत्तमपुरुषस्य प्रत्ययस्य अन्तिम-सकारस्य नित्यं लोपः भवति ।

Neelesh English Brief

Up

In case of ङित् लकारs, the ending सकार of the प्रत्ययाः of उत्तमपुरुष is removed.

Kashika

Up

लेट इति, निवृत्तम्। ङितो लकारस्य य उत्तमः, तस्य नित्यं सकारस्य लोपो भवति। अपचाव। अपचाम। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्॥

Siddhanta Kaumudi

Up

सकारान्तस्यङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्य -<{SK42}>इति सस्य लोपः । भवताम् । भवन्तु ॥

Laghu Siddhanta Kaumudi

Up

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलोऽन्त्यस्येति सलोपः। भवाव। भवाम॥

Neelesh Sanskrit Detailed

Up

येषु लकारेषु ङकारः इत्संज्ञकः अस्ति, ते लकाराः 'ङित् लकाराः' नाम्ना ज्ञायन्ते । एतेषु लकारेषु उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य सकारस्य लोपः भवति । उत्तमपुरुषे केवलं परस्मैपदस्य वस्-प्रत्ययः तथा मस्-प्रत्ययः एतौ एव सकारान्तौ स्तः । अतः एतयोः सकारस्य ङित्-लकारेषु लोपः भवति । उदाहरणानि एतादृशानि - 1. पठ्-धातोः लङ्लकारस्य उत्तमपुरुष-द्विवचनस्य रूपसिद्धिः - पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अट् + पठ् + वस् [<<तिप्तस्..>> 3.4.78 इत्यनेन वस्-प्रत्ययः] → अट् + पठ् + शप् + वस् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्] → अट् + पठ् + अ + व [<<नित्यं ङितः>> 3.4.99 इति सकारलोपः] → अट् + पठ् + आ + व [<<अतो दीर्घो यञि>> 7.3.101 इत्यनेन अङ्गस्य दीर्घः] → अपठाव 2. पठ्-धातोः विधिलिङ्लकारस्य उत्तमपुरुष-बहुवचनस्य रूपसिद्धिः - पठ् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> 3।3161 इति लिङ्लकारः] → पठ् + मस् [<<तिप्तस्..>> 3.4.78 इत्यनेन वस्-प्रत्ययः] → पठ् + शप् + मस् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्] → पठ् + अ + यासुट् + मस् [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> 3.4.103 इति यासुट्-आगमः] → पठ् + अ + या + मस् [<<लिङःसलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः] → पठ् + अ + इय् + मस् [<<अतो येयः>> 7.2.80 इति 'या'-इत्यस्य इय्-आदेशः] → पठ् + अ + इ + मस् [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] → पठ् + अ + इ + म [<<नित्यं ङितः>> 3.4.99 इति सकारलोपः] → पठ् + ए + म [<<आद्गुणः>> 6.1.87 इति गुणः] → पठेम एवमेव लृङ्लकारस्य अपठिष्याव, अपठिष्याम -एतयोः रूपयोः , तथा लुङ्लकारस्य अपाठिष्व, अपाठिष्म - एतयोः रूपयोः अनेन सूत्रेण सकारलोपः विधीयते । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'उत्तमस्य सः' इति तदन्तविधिः अस्ति । <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन 'सकारान्तस्य उत्तमपुरुषस्य प्रत्ययः' इति अर्थः सिद्ध्यति । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिमवर्णस्य लोपः भवति । अतः 'उत्तमपुरुषस्य अन्तिम-सकारस्य लोपः भवति' इति अर्थः जायते । 2. अस्मिन् सूत्रे पूर्वसूत्रेभ्यः 'वा' इत्यस्य अनुवृत्तिः मा भूत् एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'नित्यम्' इत्यस्य ग्रहणम् कृतमस्ति ।

Balamanorama

Up

<<नित्यं ङितः>> - नित्यं ङितः । उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम्, प्रसङ्गादिहोपन्यस्तम् ।स उत्तमस्ये॑ति सूत्रमनुवर्तते । तत्र 'स' इति षष्ठन्तम् । तेन उत्तमो विशेष्यते । तदन्तविधिः । 'इतश्च लोप' इत्यतो 'लोप' इत्यनुवर्तते । तदाह — सकारान्तस्य ङिदुत्तमस्येति । ङितो लकारस्य य आदेशः — उत्तमपुरुषस्तस्येत्यर्थः ।वैतोऽन्यत्रे॑त्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । अलोऽन्त्यस्येत्यन्त्यलोपः । भवतामिति । लोटस्तस् । तस्य तामादेशः । शप् । गुणाऽवादेशौ । न च तामादेशस्य सर्वादेशत्वात्प्राग्विभक्तित्वाऽभावा॑न्न विभक्तौ तुस्मा॑ इति निषेधाऽभावान्मकारस्येत्संज्ञा शङ्क्या । संयोगान्तलोपेन मकारान्तप्रश्लेषेण उपदेशेऽन्त्यत्वाऽभावात् । भवन्त्विति । लोटो रेझन्तादेशे शिपि गुणेऽवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणाऽवादेशयोः भव सि इति स्थिते — ।

Padamanjari

Up