क्यस्य विभाषा

6-4-50 क्यस्य विभाषा असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः हलः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्यस्य हल उत्तरस्य विभाषा लोपो भवत्यार्धधातुके। समिध्यिता, समिधिता। दृषद्यिता, दृषदिता। समिधमात्मन इच्छति, समिद् इवाचरति इति वा क्यच्क्यङौ यथायोगं कर्तव्यौ॥

Siddhanta Kaumudi

Up

हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य <{SK44}> । अतो लोपः <{SK2308}> । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥<!मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न !> (वार्तिकम्) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥

Laghu Siddhanta Kaumudi

Up

हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्यस्य विभाषा>> - क्यस्य विभाषा । 'यस्य हलः' इत्यतो हल इति पञ्चम्य्नतमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम् । तदाह — हलः परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्रते,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्याह — आदेः परस्येति । तथा च मिध् अ इता इति स्थिते आह — अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह — तस्य स्थानिवत्त्वादिति । क्यच्सूत्रेमान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकम् । मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिकं विवृण्वन्नाह — मान्तप्रकृतिकेति ।

Padamanjari

Up

क्यस्य इति क्यच्क्यङेः सामान्येन ग्रहणम्, क्यषस्तु हलन्तादसम्भवः । समिधमिवात्मानमाचरतीति । अपपाठोऽयम्, एवं हि क्यङे वाक्यं न प्रदर्शितं स्यात्, क्यचश्च द्वितीयं वाक्यामनर्थकं स्यात् । विधिभेदान्नानर्थकमिति चेत् यद्येवम्, अधिकरणाच्चेति वक्तव्यम् इत्यस्यापि प्रदर्शनीयं स्यात् । तस्मात्समिदिवाचरतीति पाठः । अत्र केचित्कण्ड्वादियकोऽपि ग्रहणमिच्छन्ति, क्यस्य इति कतो यकारस्य ग्रहणे तात्पर्यम्, ताअदित्वं ककारस्याविवक्षितं वदन्ति, नेति वयमादित्वाविक्षायं प्रमाणाभावात् ॥