लुप् च

4-3-166 लुप् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे जम्ब्वाः वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वेत्येव। जम्ब्वाः फलेऽभिधेये प्रत्ययस्य वा लुब् भवति। युक्तवद्भावे विशेषः। जम्ब्वाः फलं जम्बूः फलम्, जम्बु फलम्, जाम्बवमिति वा॥ लुप्प्रकरणे फलपाकशुषामुपसंख्यानम्॥ व्रीहयः। यवाः। माषाः। मुद्गाः। तिलाः॥ पुष्पमूलेषु बहुलम्॥ मल्लिकायाः पुष्पं मल्लिका। नवमल्लिका जातिः। बिदार्या मूलं बिदारी। अंशुमती। बृहती।न च भवति — पाटलानि पुष्पाणि। शाल्वानि मूलानि। बहुलवचनात् क्वचिदन्यदपि भवति। कदम्बं पुष्पम्। अशोकम्। करवीरम्। बैल्वानि फलानीति॥

Siddhanta Kaumudi

Up

जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि यक्तवत् <{SK1294}> जम्ब्वाः फलं जम्बूः ।<!फलपाकशुषामुपसंख्यानम् !> (वार्तिकम्) ॥ व्रीहयः । मुद्गाः ।<!पुष्पमूलेषु बहुलम् !> (वार्तिकम्) ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लुप् च>> - लुप् च । लुकैव सिद्धे सुब्विधेः फलमाह — लुपि युक्तवदिति जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्तवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वाः फलान्यपि जम्बूरेव ।फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुष — ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः ।फले लुगि॑त्यस्यापवादः । व्रीहय इति । व्रीह्राख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्गाः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वं, नतु विशेष्यनिघ्नत्वम् । पुष्पमूलेष्विति । वार्तिकमिदम् ।विकारावयवप्रत्ययस्य लुप् स्या॑दिति शेषः । पुष्पं मल्लिकेति ।अथ द्वितीयं प्रागीषा॑दित्यनुवृत्तौमादीनां चे॑ति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः । ततःअनुदात्तादेश्चे॑त्यञो लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । 'लघावन्ते' इत्यन्तोदात्तो जातिशब्दः । ततःअनुदात्तादेश्चे॑त्यञोऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । 'लघावन्ते' इत्यन्तोदात्तो जातिशब्दः । ततःअनुदात्तादेश्चे॑त्यञोऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् ।विदारीति । जातिङीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्ता दित्वादञि तस्य लुप्, युक्तवत्त्वात्स्त्रीत्वम् । पाटलानीति । बिल्वादित्वादण् । एवं साल्वानि । नन्वशोकस्य पुष्पमशोकं, करवीरस्य पुष्पं-करवीरमित्यत्रापिपुष्पमूलेषु बहुल॑मिति लुपि युक्तवत्त्वात्पुंस्त्वे अशोकः पुष्पं, करवीरः पुष्पमिति स्यादित्यत आह — बहुलग्रहणादिति । तथाच युक्तवत्त्वस्याऽप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति । भावः ।

Padamanjari

Up

युक्तवद्भावे विशेष इति । लुपि हि सति'लुपि युक्तवद्व्यक्तिवचने' इति प्रकृत्यर्थगते लिङ्गवचने भवतः, लुकि त्वभिधेयवल्लिङ्गवचने स्याताम् । फलापाकशुषामिति । फलपाकेन शुष्यन्तीटि फलपाकशुषः । व्रीहयो मुद्गा इति । बिल्वाद्यणो लुक्, यवमाषतिलशब्दाः'तृणधान्यानां च द्व्यषाम्' इत्याद्यौदाताः, तेभ्य औत्सर्गिकस्याणो लुक् । मल्लिकाशब्दो मादीनामिति मध्योदातः । अस्यार्थः - अत्र'द्वितीयः प्रागीषात्' इति त्र्यषामिति वर्तते, मकारादीनां त्र्यषां द्वितीयमक्षरमुदातं भवति । नवमालिकाशब्दः'लघावन्ते' इति मध्योदातो जातिशब्दः । विदारीबृहतीशब्दौ गौरादिङीषन्तौ । अंशुशब्दः प्रातिपदिकरवरेणान्तोदातः, ततो मतुप्'ह्रस्वनुड्भ्यां मतुप्' इति मतुबाद्यौदातः, ङीबनुदातः । तदेवमंशुमतीशब्दे मतुबकार उदातः । पाटलानीति । बिल्वादित्वादण्, साल्वशब्दः प्रातिपदिकस्वरेणान्तोदातः । क्वचिदन्यदपि भवतीति । लुपोऽन्यदपि कचित्कार्यं भवति, तत्पुनर्लुग्लुपोरभावश्च । कदम्बमित्यादावनुदातादिलक्षणस्याञो लुक् । कदम्बादयः शब्दाः'लगावन्ते' इति मध्योदाताः । बैल्वानीति । अत्रोभयाभावः, बिल्वाद्यण् ॥