लुक् तद्धितलुकि

1-2-49 लुक् तद्धितलुकि स्त्रियोः उपसर्जनस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्त्रीग्रहणमनुवर्तत उपसर्जनस्येति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्योपसर्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकीति किम्? गार्गीत्वम्। उपसर्जनस्येत्येव — अवन्ती। कुन्ती। कुरूः॥

Siddhanta Kaumudi

Up

तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥<!चित्रारेवतीरोहिणीभ्यः स्त्रियामुसंख्यानम् !> (वार्तिकम्) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकि <{SK1408}> इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् ।<!फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ !> (वार्तिकम्) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा ।<!श्रविष्ठाषाढाभ्यां छण्वक्तव्यः !> (वार्तिकम्) ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लुक् तद्धितलुकि>> - लुक्तद्धितलुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति ।गोस्त्रियोरुपसर्जनस्ये॑त्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः ।लुक्तद्धितलुकी॑त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः । फल्गुन इति । फल्गुन्योर्जात इत्यर्थः । णो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातोऽनुराधः । नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातोऽनुराधः । नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रेऽपि ।अनुराधान् हविषा वर्धयन्तः॑ इत्यादौ छान्दसं पुंस्त्वम् । स्वात्यां जातः-स्वातिः । तिष्ये जातस्तिष्यः । पुनर्वस्वोर्जातः — पुनर्वसुः । पस्ते जातो-हस्तः । विशाखयोर्जातो-विशाखः । अषाढासु जातोऽषाढः । बहुलासु जातो बहुलः । चित्रेति । चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति । जातायां नक्षत्राऽणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्ङीष् । ननु 'रेवती नक्षत्रे' 'रोहिणी नक्षत्रे' इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कतं ङीषित्यत आह — आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः ।परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्ये॑ति शेषः । आकृतिगणत्वादिति । स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेसे बाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, आषाढा इत्याभ्यां क्रमाट्टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राऽणोऽपवादष्टप्रत्ययः ।यस्येति चे॑ति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वान्ङीप् । अषाढेति । अषाढासु जातेत्यर्थः । नत्रत्राऽणोऽपवादोऽन् । 'यस्येति च ' इत्याकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्ठाफल्गुनी' त्यादिना टाऽनोर्लुक् तु न, विधानसामर्थ्यात् । छण्वक्तव्य इति । नक्षत्राऽणोऽपवादः । विधिसामर्थ्यादस्यापि न लुक् । अस्त्रियामपीति । अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति । श्रविष्ठासु जात इत्यर्थः । छण् । ईयःयस्येति चे॑त्याकारलोपः । णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः ।

Padamanjari

Up

स्त्रीग्रहणमनुवर्तते इति । न तु गोग्रहणम्, कुतः ? प्रत्ययादर्शनस्य लुक्संज्ञाविधानाद् गोशब्दस्याव्युत्पन्नत्वाद् व्युत्पत्तिपक्षेऽप्यस्वरितत्वात् । उपसर्जनस्य चेति । ऽअनुवर्ततेऽ इत्यपेक्षते । लौकिकं चात्रोपसर्जनं गृह्यते, न शास्त्रीयम् । पूर्वेण ह्रस्वत्वे प्राप्ते इति क्वचित्पठ।ल्ते, तत्र क्वचिदिति विशेषः । पूर्वसूत्रेण हि शास्त्रीयमुपसर्जनं गृहीतं तस्यावकाशो यत्र न तद्धितलुग्निष्कौशाम्बिरिति; अस्यावकाशो यत्र शास्त्रीयमुपसर्जनम्-आमलकमिति । तद्धितलुक्च यथा - पञ्चेन्द्र इति, अत्र हि समासार्थे नानाविभक्तिके पञ्चेन्द्राणीत्येकविभक्तिकमिति अस्त्युपसर्जनत्वम्; तत्रोभयप्रसङ्गे परत्वादयमेव लुग् ह्रस्वं बाधत इत्यर्थः । केचित्वस्मादेव ग्रन्थात् पूर्वसूत्रेऽपि लौकिकस्योपर्जनस्य ग्रहणं मन्यन्ते, तेषां हरीतक्यः फलानि इति लुब्विषये ह्रस्वप्रसङ्ग इत्युक्तम् । स्यादेवम् - लुपि युक्तवदिति शब्दार्थयोरप्यतिदेशः प्रकृत्यर्थस्य यल्लिङ्गं यश्च तदभिधायी प्रत्ययः तयोर्द्वयोरतिदेशः, तत्रौपदेशिकस्य ह्रस्वत्व आतिदेशिकस्य श्रवणं भविष्यतीति ? यद्येवम्, युवतिरिव पुरुषः ऽलुम् मुनष्येऽ युवतिः, द्वौ तिशब्दौ श्रूयेयाताम्; तस्मात् ऽलुब्योगाप्रख्यानात्ऽ इति लुपः प्रत्याख्यानेन वात्र परिहारो वाच्यः, शास्त्रीयं वोपसर्जनं ग्राह्यम् । ग्रन्थस्य च व्याख्यात एवार्थः । अभावरूपेण लुका पौर्वाभर्यासम्भवाल्लुकीति सत्सप्तमीत्याह-लुकि सतीति । पञ्चन्द्र इति । ऽतद्धितार्थऽ इति समासः,ऽसास्य देवताऽ इत्यणः ऽद्विगोर्लुगनपत्येऽ इति लुक्, ऽइन्द्रवरुणऽ इत्यादिना विहितस्य ङीषोऽनेन लुक्, सन्नियोगविशिष्टानामन्यतराभाव इत्यानुको निवृत्तिः । पञ्चशष्कुल इति । ऽतेन क्रीतम्ऽ इत्यार्हीयस्य ठकः ऽअध्यर्द्धपूर्वऽ इति लुक् । आमलकमिति । ऽनित्यं वृद्धशरादिभ्यःऽ इति मयटः ऽफले लुक्ऽ । बदरीकुवलीशब्दाभायाम् ऽअनुदातादेश्चऽ इति अञ् । शष्कुल्यादयो गौरादिङीषन्ताः । अवन्तीत्यादि । अवन्ति-कुन्ति-शब्दाभ्यामपत्ये ऽ वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कुरोः ऽकुरुनादिभ्यो ण्यःऽ, स्त्रियामवन्तीति लुक्, कुरुशब्दाद् ऽऊणुतःऽ इत्युङ् । इतराभ्याम् ऽइतो मनुष्यजातेःऽ इति ङीष् । अत्रापत्यलक्षणा जातिः स्त्रीप्रत्ययान्तेन प्राधान्येनाभिधीयते ॥