अभ्यासस्यासवर्णे

6-4-78 अभ्यासस्य असवर्णे असिद्धवत् अत्र आभात् अचि य्वोः इयङ् उवङौ

Sampurna sutra

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


अभ्यासस्य य्वोः असवर्णे अचि इयङ्-उवङौ

Neelesh Sanskrit Brief

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


अभ्यासस्य अन्ते विद्यमानः यः इवर्णः / उवर्णः, तस्य असवर्णे अचि परे (क्रमेण) इयङ् / उवङ्-आदेशौ भवतः ।

Neelesh English Brief

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


An इवर्ण and an उवर्ण occurring at end of an अभ्यास respectively get इयङ् and उवङ् आदेश when followed by an असवर्ण letter.

Kashika

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


अभ्यासस्य इवर्णोवर्णान्तस्य अवसर्णेऽचि परतः इयङुवङित्येतावादेशौ भवतः। इयेष। उवोष। इयर्ति। असवर्णे इति किम्? ईषतुः। ईषुः। ऊषतुः। ऊषुः। अचि इत्येव, इयाज। उवाप।

Siddhanta Kaumudi

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया इजादेः -<{SK2237}> इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे ततो दीर्घः । [(परिभाषा - ) वार्णादाङ्गं बलीयः] इति न्यायात् परत्वाच्च । उङ्खति । ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च ।{$ {!156 युगि!} {!157 जुगि!} {!158 बुगि!} वर्जने$} । युङ्गति ।{$ {!159 घघ!} हसने$} । घघति । जघाघ ।{$ {!160 मघि!} मण्डने$} । मङ्घति ।{$ {!161 शिघि!} आघ्राणे$} । शिङ्घति ॥ अथ चवर्गीयान्ताः ॥ तत्रानुदात्तेत एकविंशतिः ॥{$ {!162 वर्च!} दीप्तौ$} । वर्चते ।{$ {!163 षच!} सेचने सेवने च$} । सचते । सेचे । सचिता ।{$ {!164 लोचृ!} दर्शने$} । लोचते । लुलोचे ।{$ {!165 शच!} व्यक्तायां वाचि$} । शेचे ।{$ {!166 श्वच!} {!167 श्वचि!} गतौ$} । श्वचते । श्वञ्चते ।{$ {!168 कच!} बन्धने$} । कचते ।{$ {!169 कचि!} {!170 काचि!} दीप्तिबन्धनयोः $}। चकञ्चे । चकाञ्चे ।{$ {!171 मच!} {!172 मुचि!} कल्कने$} । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे ।{$ {!173 मचि!} धारणोच्छ्रायपूजनेषु$} । ममञ्चे ।{$ {!174 पचि!} व्यक्तीकरणे$} ॥ पञ्चते ।{$ {!175 ष्टुच!} प्रसादे$} । स्तोचते । तुष्टुचे ।{$ {!176 ऋज!} गतिस्थानार्जनोपार्जनेषु$} । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे ।{$ {!177 ऋजि!} {!178 भृजी!} भर्जने$} । ऋञ्जते । उपसर्गादृति -<{SK74}> इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट । भर्जते । बभृज्जे । अभर्जिष्ट ।{$ {!179 एजृ!} {!180 भ्रेजृ!} {!181 भ्राजृ!} दीप्तौ$} । एजांचक्रे ।{$ {!182 ईज!} गतिकुत्सनयोः$} । ईजांचक्रे ॥ अथ द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥{$ {!183 शुच!} शोके$} । शोचति ।{$ {!184 कुच!} शब्दे तारे$} । कोचति ।{$ {!185 कुञ्च!} {!186 क्रुञ्च!} कौटिल्याल्पीभावयोः$} । अनिदिताम् -<{SK415}> इति नलोपः । कुच्यात् । क्रुच्यात् ।{$ {!187 लुञ्च!} अपनयने$} । लुच्यात् ।{$ {!188 अञ्चु!} गतिपूजनयोः$} । अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् ।{$ {!189 वञ्चु!} {!190 चञ्चु!} {!191 तञ्चु!} {!192 त्वञ्चु!} {!193 म्रुञ्चु!} {!194 म्लुञ्चु!} {!195 म्रुचु!} {!196 म्लुचु!} गत्यर्थाः$} । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि। इयाय॥

Neelesh Sanskrit Detailed

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


यत्र द्वित्वं भवति तत्र पूर्वोभ्यासः 6.1.4 इत्यनेन द्वयोः यः प्रथमः, तस्य 'अभ्यास'संज्ञा जायते । अस्य अभ्यासस्य अन्ते विद्यमानः यः इवर्णः / उवर्णः, तस्य असवर्णे अच्-वर्णे परे (क्रमशः) इयङ्/उवङ्-आदेशौ भवतः । यथा -

इष्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

इष् + लिट् [परोक्षे लिट् 3.2.115 इति लिट् ]

→ इ इष् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ इष् + इष् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ इ इष् + लिट् [हलादि शेषः 7.4.60 इति अभ्यासस्य षकारस्य लोपः]

→ इ इष् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]

→ इ एष् + अ [पुगन्तलघूपधस्य च 7.3.86 इति उपधागुणः]

→ इयङ् एष् + अ [अभ्यासस्यासवर्णे 6.4.78 इति अभ्यासस्य इकारस्य इयङ्-आदेशः]

→ इय् एष् + अ [ङकारस्य इत्संज्ञालोपः, यकारोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः]

→ इयेष

एवमेव 'उष्' धातो लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'उवोष' इति सिद्ध्यति ।

ज्ञातव्यम् - 'अभ्यासस्य य्वोः' इत्यस्य येन विधिस्तदन्तस्य 1.1.72 इत्यनेन 'अभ्यासस्य अन्ते विद्यमानस्य इवर्णस्य / उवर्णस्य' - अयमर्थः भवति ।

Balamanorama

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


अभ्यासस्यासवर्णे - लिटि णलः पित्त्वेन कित्तवाऽभावात्प्राप्तस्यापि लघूपधगुणस्य 'द्विर्वचनेऽचीति' निषिद्धतया गुरुमत्त्वाऽभावादामभावे सति पूर्वं द्वित्वे कृते हलादिशेषे पश्चात् 'वार्णादाङ्गं बलीय' इति परिभाषाया अन्तरङ्गमपि सवर्णदीर्गं बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते — अभ्यासस्य । 'अचि श्नुधात्वि' त्यतोऽचीति, य्वोरियङुवङाविति चानुवर्तते । इश्च उश्च यू, तयोरिति विग्रहः । अभ्यासविशेषणमिदं ! तदन्तविधिः । तदाह — इवर्णोवर्णान्तरस्येति । ङित्त्वादन्तादेशौ । उवोखेति ।अचि श्नुधात्वि॑त्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाऽभावाच्च । ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह — संनिपातेति । णलि परे विहितगुणसंपन्नामिजदिगुरुमत्त्वमाश्रित्य आमं गुणो न प्रवर्तयति, आमि सति धातोर्णल्परकत्वव्याघातादिति भावः । ऊखतुरिति । अपित्त्वेन कित्त्वाल्लघूपधगुणाऽभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्याससस्याऽसवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः । ननुऊखतु॑रित्यत्र ऊकारस्य सवर्णदीर्घसंपन्नस्य एकादेशतया पूर्वान्तत्वेनाऽभ्याससंबन्धित्वात् 'ह्रस्व' इत्यभ्यासस्याऽचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते — इहेति । अथ परहरति — न भवतीति । कुत इत्यत आह — सकृत्प्रवृत्तत्वादिति । तदेवोपपादयति — आङ्गत्वादिति.उ-उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्त्या अभ्यासह्रस्वे सवर्णदीर्घेऊखतु॑रिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासह्रस्वो न भवति ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायादित्यर्थः । ननु वर्णमात्रापेक्षत्वेनाऽन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति ह्रस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह — वार्णादिति । तथा चानया परिभाषया बहिरङ्गोऽपि ह्रस्व एव प्रथमं प्रवर्तत इति भावः । परत्वाच्चेति । नन्विदमनुपपन्नम्, उक्तरीत्या अन्तरङ्गं सवर्णदीर्घं प्रति ह्रस्वस्य परत्वकथनाऽनौचित्यादिति चेन्न, परत्वादित्यस्य परकालप्राप्तकत्वादित्यर्थात् । अभ्यासविकारेषु परस्परं बाध्यबाधकभावाऽभावेन युगपदेव हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्व पूर्वमन्तरङ्गं, परं परं बहिरङ्ग॑मिति न्यायेन बहिरङ्गत्वादित्यलम् । उङ्खतीति । इदित्त्वान्नुम् । ववाखेति । वखधातोर्णलि उपधावृद्धिः । ववखतुरिति । वादित्वादेत्त्वाभ्यासलोपौ न । वङ्खतीति । वखिधातोरिदित्त्वान्नुम् । ववङ्ख । मेखतुरिति । एत्त्वाभ्यासलोपौ । [मङ्खतीति । मखिधातोरिदित्त्वाभ्यासलोपौ न । ममङ्खेति । संयुक्तहल्मद्यस्थत्वादेत्वाभ्यासलोपौ न । नखति नङ्खतीति । 'णो नः' इति नत्वम् । रखतीति । णलि तु उपधावृद्धिः । रराख । अतुसादावेत्वाभ्यासलोपौ — रेखतुरित्यादि । रङ्खतीति । इदित्त्वान्नुम् । ररङ्ख । एखतीति । इखधातोः शपि लघूपधगुणः । इयेख । ईखतुः । इङ्खतीति । इदित्त्वान्नुम् । इङ्खांचकार । ईङ्खतीति । अलधूपधत्वान्न गुणः । ईङ्खाचकार । वल्गतीति । लिटि ववल्ग ववल्गतुः । रङ्गतीति लङ्गतीति । ररङ्गतुः । अङ्गतीति । लिटि — आनङ्ग । वङ्गतीति । लिटि — ववङ्ग ववङ्गतुः । मङ्गतीति । लिटि — ममङ्ग ममङ्गतुः । तङ्गतीति । लिटि — ततङ्ग ततङ्गतुः । त्वङ्गतीति । लिटि तत्वङ्ग तत्वङ्गतुः । श्रङ्गतीति । लिटि — शश्रङ्ग शश्रङ्गतुः । श्लङ्गतीति । लिटि — शश्लङ्ग शश्लङ्गतुः । इङ्गतीति । लिटि इङ्गांचकार । रिङ्गतीति । लिटि — रिरिङ्ग रिरङ्गतुः । लिङ्गतीति । अथखान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह — रेखतीति । शपि लघूपधगुणः । रिरेख रिरिखतुः । त्रखतीति । लिटि — तत्राख तत्रखतुः । त्रिङ्खतीति । लिटि — तित्रिङ्ख त्रित्रङ्खतुः । शिङ्खतीति । लिटि शिशिङ्ख शिशिङ्खतुः । त्वगि कम्पने चेति । चाद्गतौ । त्वङ्गति तत्वङ्ग । युगीति । त्रयोऽपि इदितः । युङ्गति बुङ्गति जुङ्गति । घघ हसने इति । घघति । णलि उपधावृद्धिः । जघाघ जघघतुः । लिण्निमित्तादेशादित्वादेत्त्वाभ्यासलोपौ न । मघि मण्डन इति । इदित्त्वान्नुमित्याह — मङ्घतीति । ममङ्घ ममङ्घतुः । शिघि आघ्राण इति । शिङ्घति शिशिङ्घ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति । दीप्तिः- प्रकाशः । षच सेचन इति । अच्परकसादित्वात् षोपदेशोऽयम् । स्वरितेत्सु 'षच समवाये' इति वक्ष्यते । सेचेति । सत्वस्य लिण्निमित्तत्वाऽभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ । दम्भः शाठं चेति । परविरुआम्भार्थ धर्माद्याचरणं दम्भः — कापटआऽपरपर्यायः ।कपटोऽस्त्री व्याजदम्भोपधयःर॑ इत्यमरः । शाठं कुटिलीभावः ।निकृतस्त्वनृजुः शठः॑ इत्यमरः । पचि व्यक्तीकरम इति । 'पचि विस्तारे' इति चुरादौ वक्ष्यते ।पचे॑त्येके । ष्टुच प्रसाद इति । ष्टुत्वसंपन्नष्टकारः । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति । षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः । तुष्टुचे इति । 'सर्पूर्वाः खयः' इति तकारशेषः । आदेशसकारत्वात् षत्वम् । ऋज गतीति । अर्जनं -संपादनम् । उपार्जनं — सेवनम् ।ऊर्जनेष्वि॑त्यन्ये । अर्जत इति । शपि लघूपधगुणः । रपरत्वम् । नुड्विधाविति । वार्तिकमिदम् । आनृज इति । लिटोऽसंयोगादिति कित्त्वाद्गुणाऽभावे द्वित्वे उदरत्वे रपरत्वे हलादिः शेषे अत आदेरिति दीर्घे नुडिति भावः । ऋजी भृजी इति.ऋदुपधौ द्वौ । आद्य इदित् । द्वितीयस्य ईदित्त्वात्श्वीदितो निष्ठाया॑मिति नेट् । इदित्त्वान्नुम् । अनुस्वारपरसवर्णौ । ऋञ्जांचक्र इति । नुमि सतिसंयोगे गुर्वि॑ति ऋकारस्य गुरुत्वादिजादेश्चेत्याम् । ऋञ्जिता । ऋञ्जिष्यते । ऋञ्जताम् । आर्ञ्जत । ऋञ्जेत । ऋञ्जिषीष्ट । अथ लुङि रूपं दर्शयति — आर्ञ्जिष्यत । भर्जत इति । शपिलघूपधगुणः । रपत्वम् । बभृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अभर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह — अभर्जिष्टेति । लुङस्तादेशः । च्लिः सिच् । इट् । गुणः । रपरत्वम् । अडागमः । षत्वं । ष्टुत्वम् । लृङि — अभर्जिष्यत । एजृ भ्रेजृ भ्राजृ इति । आद्ययोरृदित्वंनाग्लोपी॑त्यर्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति । ऋदित्त्वस्य न किञ्चित्फलमस्ति । न चनाग्लोपी॑ति चङ्परे णौ उपधाह्रस्वः फलं भवितुमर्हति,भ्राजभासे॑त्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईज गतीति । अलघूपधत्वान्न गुणः । ईजते । ईजांचक्र इति । इजादेश्चेत्याम् । वर्चादय एकविंशतिर्वृत्ताः । द्विसप्ततिरिति । 'चवर्गीयान्ता' इति शेषः । शुच शोक इति । स्मृत्वा क्लेशः — शोकः । शोचतीति । वियुक्तं पित्रादिकं स्मृत्वा क्लिश्नातीत्यर्थः । कुच शब्द इति । शब्दनं शब्दः । चुकोच चुकुचतुः । अकोचीत् । कुञ्च क्रुञ्चेति । उभावपि चवर्गपञ्चमोपधौ । कुञ्चतौ अनुस्वारपरसवर्णसंपन्नस्य नकार्थानिकञकारस्य धातुपाठे निर्देशः । धातुपाठे॒नकारजावनुस्वारपञ्चमौ॑ इत्यभियुक्तवादात् । तदाह — अनिदितामिति । अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्त्वेन आशीर्लिङिअनिदिता॑मिति नलोपे कुच्यादिति रूपमतित्यर्थः । लिटि तु चुकुञ्च चुकुञ्चतुरित्यादौ पित्त्वेन संयोगात्परत्वेन च कित्त्वाऽभावान्नलोपो न भवति । क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव, न त्वनुसारपरसवर्णसंपन्नञकारोपध इतिपरेश्च घाङ्कयो॑रिति सूत्रे भाष्यकैयटयोः स्थितम् । अतस्तस्याशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — लुच्यादिति । एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायां त्विति ।नाञ्चेः पूजाया॑मिति निषेधादिति भावः । वञ्चु चञ्चु तञ्चु इति । आद्याः षट् नोपधाः । अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः । तथा च तेषामाशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — वच्याद#इति । लुङि अम्रुञ्चीत् । अम्लुञ्चीदिति नोपधयो रूपम् । सिज्लोपः ।

Padamanjari

Up

index: 6.4.78 sutra: अभ्यासस्यासवर्णे


पूर्वमङ्गस्याजादौ प्रत्यये विधानादिदमारभ्यते । इयेषेति । अत्र गुणस्य स्थानिवद्भावविषये यद्वक्तव्यं तद् द्विर्वचनेऽचि इत्यत्रोक्तम् ॥