7-1-70 उगित् अचां सर्वनामस्थाने अधातोः इदितः नुम्
अधातोः उगित्-अचामङ्गस्य सर्वनामस्थाने नुम्
धातुभिन्नस्य उगित्-शब्दस्य तथा अञ्च् धातोः अङ्गस्य सर्वनामस्थाने परे नुमागमः भवति ।
उगितामङ्गानां धातुवर्जितानामञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति। भवतु — भवान्, भवन्तौ, भवन्तः। ईयसुन् — श्रेयान् श्रेयांसौ, श्रेयांसः। शतृ — पचन्, पचन्तौ, पचन्तः। अञ्चतेः — प्राङ्, प्राञ्चौ, प्राञ्चः। उगिदचामिति किम्? दृषद्, दृषदौ, दृषदः। सर्वनामस्थान इति किम्? भवतः पश्य। श्रेयसः पश्य। अञ्चतिग्रहणं नियमार्थम्, अञ्चतेरेव धातोरन्यस्य मा भूत्। उखास्रत्। पर्णध्वत्। अधातोरिति किम्? अधातुभूतपूर्वस्यापि यथा स्यात्। गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययो गोमान्। अत्र हि धातुत्वादञ्चतिग्रहणाद् न स्यात्॥
अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच श्वन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे ॥ हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे । मघवा ।<!छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव !> (वार्तिकम्) ॥ अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥
अधातोरुगितो नलोपिनोऽञ्चतेश्च नुम्स्यात्सर्वनामस्थाने परे। मघवान् । मघवन्तौ। मघवन्तः । हे मघवन् । मघवद्भ्याम् । तृत्वाभावे मघवा । सुटि राजवत् ॥
'उगित्' इत्युक्ते 'उक्' वर्णः यस्मिन् इत्संज्ञकः अस्ति सः । 'उक्' इति प्रत्याहारः । उ, ऋ, ऌ एतेषां ग्रहणमनेन प्रत्याहारेण भवति । यत् प्रातिपदिकमुगित् अस्ति परन्तु धातुसंज्ञकं नास्ति, तस्य अङ्गस्य सर्वनामस्थाने परे अनेन सूत्रेण नुमागमः भवति । 'अञ्च् गतौ' इति कश्चन धातुः । <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> 3.2.59 अनेन सूत्रेण अस्मात् धातोः (उपपदस्य उपस्थितौ) क्विन्-प्रत्ययः भवति, येन 'प्राच्' , 'उदच्' एतादृशानि प्रातिपदिकानि सिद्ध्यन्ति । एतेषामपि अनेन सूत्रेण सर्वनामस्थानपरे नुमागमः भवति । उदाहरणानि पश्यामः - 1. 'भवतुँ' अस्मिन् शब्दे उकारः इत्संज्ञकः अस्ति । अस्य पुंलिङ्गस्य प्रथमा-द्विवचनस्य रूपसिद्धेः प्रक्रिया इयम् - भवतुँ + औ [प्रथमाद्विवचनस्य प्रत्ययः] → भवत् + औ [इत्संज्ञालोपः] → भवन् त् औ [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमः] → भवं त् औ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → भवन्त् औ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] → भवन्तौ [वर्णमेलनम् ] 2. पठ् धातोः शतृँ-प्रत्ययान्तरूपम् 'पठतृँ' अस्मिन् शब्दे ऋकारः इत्संज्ञकः अस्ति । अस्य पुंलिङ्गस्य प्रथमाबहुवचनस्य रूपसिद्धौ - पठतृँ + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → पठत् + अस् [इत्संज्ञालोपः] → पठन् त् + अस् [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमः] → पठं त् + अस् [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → पठन् त् + अस् [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] → पठन्तः [विसर्गनिर्माणम्] 3. 'प्र + अञ्च् (गतौ) + क्विन्' इत्यस्मात् निर्मितस्य 'प्राच्' अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे प्रक्रिया इयम् - प्राच् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → प्रान् च् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमः] → प्रान् च् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → प्रान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति चकारलोपः] → प्राङ् [<<क्विन्प्रत्ययस्य कुः>> 8.2.62 इति कुत्वम् ।] 4. 'यावत्' इति 'वतुँप्' प्रत्ययान्तशब्दः । अस्य पुंलिङ्गस्य एकवचनस्य प्रक्रिया इयम् - यावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → यावात् + सुँ [<<अत्वसन्तस्य चाधातोः>> 6.4.14 इति उपधादीर्घः] → यावान् त् + सुँ [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → यावान् त् [<<हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → यावान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति तकारलोपः] 5. ईयसुँन्-प्रत्ययान्तः 'गरीयस्' शब्दः - गरीयस् + सुँ → गरीय न् स् + स् [<<उगिदचां सर्वनामस्थानेऽधातोः>> 7.1.70 इति नुमागमः ] → गरीयान्स् + स् [<<सान्तमहतः संयोगस्य>> 6.4.10 इति उपधादीर्घः ।] → गरीयान्स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] → गरीयान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति सकारलोपः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः अच्-शब्दः 'अञ्च् (गतौ)' इत्यस्य क्विन्प्रत्ययान्तरूपम् । अत्र अच्-इति प्रत्याहारः नास्ति । 2. अञ्च्-धातोः 'पूजायाम्' इति अपि कश्चन अर्थः अस्ति । परन्तु अस्मिन् अर्थे अञ्च्-धातोः क्विन्-प्रत्यये कृते 'अच्' इति प्रातिपदिकं न सिद्ध्यति, 'अञ्च्' इत्येव प्रातिपदिकं सिद्ध्यति । अस्य अनेन सूत्रेण ग्रहणम् न करणीयम् । केवलं 'अञ्च् गतौ' इत्यस्य 'अच्' इति रूपं यद् जायते, तस्यैव अत्र ग्रहणं करणीयम् । 3. वस्तुतः अस्मिन् सूत्रे 'अधातुः' अस्य शब्दस्य प्रयोजनम् नास्तीति भासते, यतः 'अचाम्' इत्यनेन केवलं 'अञ्च्' धातोः नुमागमः विधीय (नियमेन) 'अन्येषां धातूनां विषये नुमागमः मा भूत्' इति स्पष्टीकृतमस्ति । (अस्मिन् विषये काशिकाकारः वदति - 'अञ्चतिग्रहणं नियमार्थम्, अञ्चतेः एव धातोः, अन्यस्य मा भूत् ।') । परन्तु तथाप्यत्र 'अधातुः' शब्दस्य पाणिनिना ग्रहणं कृतमस्ति । अस्मिन् विषये भाष्ये उक्तमस्ति - 'अधातुभूतपूर्वस्य अपि यथा स्यात्' । इत्युक्ते, यः शब्दः पूर्व-अवस्थायाम् धातुः नासीत्, परन्तु कस्याश्चन प्रक्रियायाः अनन्तरम् धातुत्वं प्राप्नोति, तस्य शब्दस्य विषये अपि अनेन सूत्रेण नुमागमः भवेत् - इति स्पष्टीकर्तुमत्र 'अधातोः' इति उक्तमस्ति । यथा, 'गोमत्' इत्युक्ते 'यस्य समीपे गावः सन्ति, सः' । अयम् मतुँप्-प्रत्ययान्तशब्दः अस्ति । अस्मात् शब्दात् 'गोमन्तमात्मानम् इच्छति' अस्मिन् अर्थे <<सुपः आत्मनः क्यच्>> 3.1.8 इत्यनेन क्यच्-प्रत्ययं कृत्वा 'गोमत्य' इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् 'गोमत्य' धातोः कर्त्रर्थे क्विप्-प्रत्ययं कृत्वा पुनः 'गोमत्' इत्येव प्रातिपदिकं सिद्ध्यति, परन्तु तस्य अर्थः - 'यः गोमन्तमात्मानम् इच्छति सः' इति जायते । अयम् क्विप्-प्रत्ययान्तः गोमत्-शब्दः <<क्विबन्ताः धातुत्वं न जहति>> अनेन सिद्धान्तेन धातुसंज्ञकः अपि अस्ति, तथा च, (मतुप्-प्रत्ययान्तः अस्तीति कारणात्) उगित् अपि अस्ति । 'अस्य गोमत्-शब्दस्य सर्वनामस्थाने परे नुमागमः भवेत् वा?' इति पृष्टे 'अधातुभूतपूर्वस्य अपि यथा स्यात्' अनेन सिद्धान्तेन अस्यापि नुमागमः भवतीति ज्ञायते, यतः अयम् गोमत्-शब्दः यद्यपि धातुसंज्ञकः अस्ति, तथापि भूतपूर्व-अवस्थायाम् (इत्युक्ते, क्यच्-प्रत्ययस्य प्रयोगात् पूर्वम्) एषः 'अधातुः' आसीत् । एतादृशानाम् शब्दानामपि नुमागमः भवेत् इति स्पष्टीकर्तुमत्र 'अधातोः' इति ग्रहणं कृतमस्ति । अतः अस्य गोमत्-शब्दस्य प्रथमैकवचनस्य रूपम् 'गोमान्' इति सिद्ध्यति । 4. अत्र अधातोः इत्यनेन केवलं धातुसंज्ञकस्य अङ्गस्य निषेधः भवति । धातुनिर्मितस्य अङ्गस्य न । यथा, 'पठ् + शतृ' इदं प्रातिपदिकम् यद्यपि धातुनिर्मितं अस्ति, तथापि एतत् धातुसंज्ञकं नास्ति । अतः 'अधातुः' इत्यनेन अस्य नुमागमस्य निषेधः न कर्तव्यः । 5. 'उगित्' इत्यस्य विषये अस्य सूत्रस्य प्रसक्तिः पुंलिङ्गशब्दानाम् विषये एव भवति । उगित्-नपुंसकलिङ्गशब्दस्य विषये वर्तमानसूत्रेण नुम्-प्राप्ते विप्रतिषेधेन <<नपुंसकस्य झलचः>> 7.1.72 इत्यनेन पुनः नुम्-एव विधीयते । प्रश्नः - <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 तथा <<नपुंसकस्य झलचः>> 7.1.72 एतयोर्मध्ये विप्रतिषेधः कथं सिद्ध्यति ? उत्तरम् - 'भवन्तौ', 'पठन्तः', 'अङ्', 'यावान्' - एतेषु शब्देषु <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यस्य प्रसक्तिः अस्ति परन्तु <<नपुंसकस्य झलचः>> 7.1.72 इत्यस्य प्रसक्तिः न विद्यते । 'फलानि', 'जगन्ति', 'पयांसि' - एतेषु शब्देषु <<नपुंसकस्य झलचः>> 7.1.72 इत्यस्य प्रसक्तिः विद्यते, परन्तु <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यस्य प्रसक्तिः न विद्यते । 'यावन्ति' (= यावत् शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्), 'पठन्ति' (= 'पठत्' शब्दस्य नपुंसकलिङ्गस्य प्रथमाबहुवचनम्) इत्यत्र द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति । अनेन प्रकारेण अत्र विप्रतिषेधः सिद्ध्यति । (यत्र द्वौ प्रसङ्गौ अन्यार्थौव एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः - इति काशिका) । अतश्च अत्र <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन <<नपुंसकस्य झलचः>> 7.1.72 इत्यस्य प्रयोगः भवति । यथा - गो + अञ्च् (गतौ) + क्विन् + जस् [गो-उपपदपूर्वकात् अञ्च् (गतौ) धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> 3.2.59 इत्यनेन क्विन्-प्रत्ययः, तथा च प्रथमैकवचनस्य जस्-प्रत्ययः] → गवाच् + जस् [<<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन क्विन्-प्रत्यये परे 'अञ्चुँ' धातोः नकारस्य लोपः] → गवाच् + शि [<<जश्शसोः शिः>> 7.1.20 इति शि-आदेशः] → गवान् च् + इ [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन <<नपुंसकस्य झलचः>> 7.1.72 इति नुमागमः] → गवांचि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → गवाञ्चि [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] स्मर्तव्यम् - 'अञ्च् (पूजायाम्)' अस्य धातोः विषये वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति, केवलमञ्च् (गतौ) इत्यस्य विषये अस्य प्रयोगः भवति । अतः 'गो + अञ्च् (गतौ) + क्विन् + जस्' इत्यत्र तु 'गवाञ्च्' इत्येव प्रातिपदिकं सिद्ध्यति, तस्य अग्रे <<नपुंसकस्य झलचः>> 7.1.72 इति नुमागमे कृते 'गवाञ्ञ्चि' इति द्विनकारयुक्तं रूपं श्रूयते । अस्मिन् विषये <<नपुंसकस्य झलचः>> 7.1.72 इत्यत्र भाष्ये विस्तारेण पठितव्यम् ।
<<उगिदचां सर्वनामस्थानेऽधातोः>> - उगिदचाम् ।अधातो॑रितिच्छेदः । उक् इत् येषां ते उगितः । 'अच्' इति च लुप्तनकारस्य 'अञ्चु गतिपूजनयोः' इति धातोग्र्रहणम् । अधातोरित्युगिद्विशेषणम् । न त्वञ्चतेः, असंभवात् ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अधातोरुगित इत्यादिना । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । अजिति अच्प्रत्याहारो न गृह्रते, व्याख्यानात्, 'नपुंसकस्य झलचः' इत्यज्ग्रहणाच्च । अन्यथाउगिदचा॑मित्येव सिद्धे तद्वैयथ्र्यात् । वृद्धिर्गुण इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे गोमच्छब्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजनं च तत्रैव वक्ष्यते । उपधादीर्घ इति । मघवन् त् स् इति स्थिते हल्ङ्यादिना सुलोपे संयोगान्तलोपे च सतिसर्वनामस्थाने चे॑ति दीर्घ इत्यर्थः । नन्विह दीर्घे कर्तव्ये संयोगान्तलोपपस्याऽसिद्धत्वान्नान्तत्वाऽभावात् पचन्नित्यादाविव दीर्घो न संभवतीत्यत आह-दीर्घे कर्तव्य इति । बहुलग्रहणादिति ।क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्यलोके विज्ञेयमेतद्बहुलग्रहेतु॥॑ इति स्थितिः । अत्र दीर्घे कर्तव्ये संयोगान्तलोपस्य न#आसिद्धत्वम् । पचन्नित्यादौ त्वसिद्धत्वमेवेति बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणाल्लभ्यत इत्यर्थः । ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणेन संयोगान्तलोपस्यासिद्धत्वाऽभावकल्पनायां प्रमाणाऽभावात् । वेदे तु यज्ञेन मघवानित्यादौ दीर्घश्छान्दसो भविष्यतीत्यत आह-तथा चेति । त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाभावमब्युपगम्यैवेत्यर्थः । निपातनादिति । कनि प्रत्ययस्य,अवुगागमस्य, घत्वस्य इति त्रयाणां निपातनादित्यर्थः । तथा च नान्तो मघवन्शब्दः सिध्यतीति भावः । मघशब्दादिति । धनपर्यायादित्यर्थः । मघो धनमस्यास्तीत्यर्थे मतुपि॑मादुपधायाश्चे॑ति वत्वे तान्तो मघवच्छब्दः सिद्ध इति भावः । भाषायामपीति । लोके छन्दसि च इत्यर्थः । शब्दद्वयेति । मघवन्शब्दो मघवच्छब्दश्चेति शब्दद्वयंमघवा बहुल॑मित्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थः । आकर इति । 'केशाद्वः' इति सूत्रे कैयटग्रन्थ इत्यर्थः । तत्र ह्रेवमुक्तं॑-॒मघवा बहुल॑मित्येतन्न कर्तव्यम् ।आन्नुक्ष॑न्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वस्य सिद्धत्वा॑दिति । त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाद्दीर्घाऽभावाश्रयणे मघवन्निति रूपम् । मतुपि तुअत्वसन्तस्ये॑ति दीर्घे मघवानिति रूपमिति रूपभेदापत्त्या तदसङ्गतिः स्पष्टैवेति भावः । वस्तुतस्तु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्, मतुपि तुह्रस्वनुड्भ्यां मतु॑विति मतुबुदात्तत्वस्य न गोआ॑न्निति प्रतिषेधे सति पित्त्वादनुदात्तत्वे घकारादकारस्य फिट्स्वरेण उदात्तत्वमिति फलभेदात् कैयटग्रन्थश्चिन्त्य एव । मघवानिति दीर्घः शिष्टसंमतश्चेत्याह — हविरिति । मखेषु यज्ञेषु निश्शङ्कः असौ मघवान् हविर्जक्षिति=भक्षयतीत्यर्थः । मघवन्तावित्यादि । सुटि त्रादेशो नुम्चेति भावः । शसादौ त्रादेशो, नतु नुम्, अरुआवनामस्थानत्वादित्यभिप्रेत्याह — मघवत इति । मघवद्भ्यामित्यादि । त्रादेशे 'स्वादिषु' इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्वे चर्त्वे मघवत्सु । तृत्वाऽभावे मघवेति । नान्तात्सौ राजवद्रूपमिति भावः । ननुमघवा बहुल॑मिति सूत्रेअर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् इति वार्तिकभाष्यकैयटेषु मघवन्शब्दस्य छन्दोमात्र विषयत्वावगमात्कथं तस्य लोके प्रयोग इत्यत आह — छन्दसीवनिपावित्यादि ।तदस्यास्त्यस्मिन्निति मतु वित्यधिकारेकेशाद्वोऽन्यतरस्या॑मिति सूत्रे॒छन्दसीवनिपौ चे॑ति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यौ, वश्च मतुप्च ।रथीरभून्मुद्घलानी गविष्टौ, सुमङ्गलीरियं वधूः, ऋतवानं मघवानमीमहे॑ इति तत्र भाष्यम् । तत्र वनिप्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः । मघशब्दः फिट्स्वरेणान्तोदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टस्वरेण मकारादकारो, वकारादकारश्चानुदात्तः ।उदात्तादनुदात्तस्य स्वरितः॑ इति वकारादकारः स्वरितः । तथाच मघवन्निति रूपं मध्योक्षतं संपद्यते । एतादृशमघवन्शब्दविषयकं छान्दसत्वाभिधानम् । कन्यन्ते तु मघवन्शब्दे वकारादकारः प्रत्ययस्वरेणोदात्तः । शिष्टस्वरेण मकारादकारो घकारादकारश्चाऽनुदात्तौ । तथा च मघवन्निति रूपमन्तोदात्तमिति स्थितिः । एतादृशमघवन्शब्दस्तु लोकवेदसाधारणः, तस्य छन्दोमात्रविषयत्वे प्रमाणाऽभावात् । किं चवनो र चे॑ति सूत्रे भाष्यं-॒मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिक॑मिति । अयमपि मघवन्शब्दः फिट्स्वरेणान्तोदात्तो लोकवेदसाधारण एव, छन्दोमात्रविषयत्वे प्रमाणाऽभावादिति भावः । शब्दरत्ने तुन शिष्टं छान्दसं हि तत् इत्युदाहृतभाष्यवार्तिकयोः सामान्यप्रवृत्तयोर्मध्योदात्तमात्रविषयसङ्कोचे प्रमाण#ं न किञ्चिदस्ति । कविप्रयोगाणां तुत तस्थिवांसंनगरोपकण्ठे॑ इत्यादिविषये बहुशः प्रमाददर्शनात्तेषामपि नार्षवचनसङ्कोचकता । अतो मघवन्शब्दस्य सर्वस्यापि लोकेऽसाधुत्वमेवेति प्रपञ्चितम् । सुटि राजवदिति । तृत्वाऽभावपक्षे नान्तत्वाद्दीर्घ इति भावः ।
धातुवर्जितानामिति । नेदमधातोरित्यस्याथप्रदर्शनम् , तस्यान्यपरत्वात् । तस्माद् अञ्चतिग्रहणं नियमार्थम् इति यद्वक्ष्यते, तत्सिद्ध एवायमर्थः प्रदर्शितः । अधातोः इत्यस्य त्वर्थप्रदर्शने उगितामङ्गानामञ्चतेश्चाधातोश्चोहगितो नुम् भवतीति प्रदर्शनीयम् । अञ्चतेश्चेति । अजिति प्रत्यहारग्रहणं तु न भवति नपुंसकस्य झलचः इति पुनरज्ग्रहणात् । तत्र हि प्रत्याहारस्यैव ग्रहणम्, नाञ्चतेः, झलन्तत्वात् । भावनिति । अत्वसन्तस्य चेति दीर्घः । अत्रावयवे कृतं लिङ्गं समुदास्यापि विशेषकं भवतीत्यङ्गस्योगित्वम् । प्राङिति । ऋत्विक् इत्यादिना क्विन, सुः, हल्ङ्यादिसंयोगान्तलोपौ, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । अञ्चतिग्रहणं नियमार्थमिति । न हि अधातोः इति प्रतिषेधादप्राप्ते विध्यर्थमेतद्भवति । एवं ह्यधातोरिति न वक्तव्यम् नियमादेव सिद्धेः । उखास्रदिति । वसुस्रंसु इत्यादिना दत्वम् । अधातोरिति किमिति । अञ्चतिग्रहणान्नियमादेव धातोर्न भविष्यतीति प्रश्नः । अधातुभूतपूर्वस्यापीति । यस्य कदाचिदधातुत्वं दृष्ट्ंअ तस्य सम्प्रति धातुत्वे सत्यपि यथा स्यादित्यर्थः । गोमत्यतेरिति । सुप आत्मनः क्यच्, अवद्यमानः प्रत्ययः - अप्रत्ययः, स पुनः क्विप् । अतो लोपः, क्यस्य विभाषा इति यलोपः, नुम् - गोमान् । कथं पुनरत्र दीर्घत्वम्, यावता अत्वासन्तस्य चाधातोः इत्युच्यते नैष दोषः, अधातोः इति विभज्यते, तत्सामर्थ्यादसन्तस्यैष प्रतिषेधः, नात्वन्तस्य । अत एव तत्र वृतौ असन्तस्यैव प्रत्युदाहरणमुपन्यस्तम् ॥