परेश्च घाङ्कयोः

8-2-22 परेः च घाङ्कयोः पदस्य पूर्वत्र असिद्धम् रः लः विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

परि इत्येतस्य यो रेफस्तस्य घशब्देऽङ्कशब्दे च परतो विभाषा लकार आदेशो भवति। परिघः, पलिघः। पर्यङ्कः, पल्यङ्कः। घ इति स्वरूपग्रहणमत्रेष्यते, न <<तरप्तमपौ>> १.१.२२ इति ॥ योगे चेति वक्तव्यम्॥ परियोगः, पलियोगः॥

Siddhanta Kaumudi

Up

परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः <{SK2003}> इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

परि घ इति ।'परौ घः' इत्यप्, हन्तेष्टिलोपः, घत्वं च । पर्यङ्क इति । ठकि लक्षणेऽ पचाद्यच्,'हलश्च' इति घञ्, चाद् घश्च । घ इति स्वरूपग्रहणमत्रेष्यत इति । इष्टिरेवेयम् । परियोगः, पर्यनुयोगः ॥