अन्येष्वपि दृश्यते

3-2-101 अन्येषु अपि दृश्यते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते जनेर्डः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्येष्वप्युपपदेषु कारकेषु जनेर्डप्रत्ययो दृश्यते। सप्तम्यामित्युक्तमसप्तम्यामपि दृश्यते। न जायत इत्यजः। द्विर्जाता द्विजाः। <<पञ्चम्यामजातौ>> ३.२.९८ इत्युक्तम्,जातावपि दृश्यते। ब्राह्मणजो धर्मः। क्षत्रियजं युद्धम्। <<उपसर्गे च संज्ञायाम्>> ३.२.९९ इत्युक्तम् , असंज्ञायामपि दृश्यते। अभिजाः। परिजाः केशाः। <<अनौ कर्मणि>>३.२.१०० इत्युक्तमकर्मण्यपि दृश्यते। अनुजातःअनुजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि भवति, कारकान्तरेऽपि। परितः खाता परिखा। आखा॥

Siddhanta Kaumudi

Up

अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तेरेष्वपि क्वचित् । परितः खाता परिखा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अन्येष्वपि दृश्यते>> - अन्येष्वपि दृश्यते । अज इति । न जात इत्यर्थः । द्विजो ब्राआहृण इति । द्विर्जात इत्यर्थ- ।मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धना॑दित्यादिस्मृतेरिति भावः । अपि शब्द इति । 'सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि, भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः ।

Padamanjari

Up

अन्येष्वपि द्दश्यते॥ द्विर्जात इति। मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥