3-4-92 आड् उत्तमस्य पित् च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः
लोटः लस्य उत्तमस्य आट् पित् च
लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययानामाट्-आगमः भवति, सः च पित् वर्तते ।
The उत्तमपुरुष प्रत्ययाः of लोट्-लकार get the आट्-आगम, and this आगम is considered पित्.
लोट इत्येव। लोट्संबन्धिन उत्तमपुरुषस्याडागमो भवति, स चोत्तमपुरुषः पिद् भवति। करवाणि, करवाव, करवाम। करवै, करवावहै, करवामहै॥
लोडुत्तमस्याडागमः स्यात्, सः पिच्च । हिन्योरुत्वं न इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥
लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारणसामर्थ्यात्॥
लोट्-लकारस्य परस्मैपदस्य तथा आत्मनेपदस्यापि उत्तमपुरुषस्य प्रत्ययानाम् 'आट्' आगमः भवति । <<आद्यन्तौ टकितौ>> 1.1.46 इति टित्वात् अयम् स्थानिनः पूर्वमागच्छति । अयमागमः पित्-अपि अस्ति, अतः आवश्यकं चेत् अङ्गस्य गुणादेशं कारयति । अष्टमगणस्य तन्-धातुं स्वीकृत्य उदाहरणानि एतादृशानि - 1. परस्मैपदस्य उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + मिप् [<<तिप्तस्>>..3.4.78 इति मिप्-प्रत्ययः] → तन् + उ + मिप् [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + नि [<<मेर्नि>> 3.4.89 इति मिप्-इत्यस्य नि-आदेशः] → तन् + उ + आट् + नि [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + नि [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् अव् आ नि [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवानि 2. परस्मैपदस्य उत्तमपुरुषद्विवचनस्य वस् -प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + वस् [<<तिप्तस्>>..3.4.78 इति वस्-प्रत्ययः] → तन् + उ + वस् [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + व [<<लोटो लङ्वत्>> 3.4.85 इत्यनेन लङातिदेशः । <<नित्यं ङितः>> 3.4.9 इति सकारलोपः] → तन् + उ + आट् + व [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + व [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + आ + व [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवाव 3. परस्मैपदस्य उत्तमपुरुषबहुवचनस्य मस् -प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + मस् [<<तिप्तस्>>..3.4.78 इति मस्-प्रत्ययः] → तन् + उ + मस् [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + म [<<लोटो लङ्वत्>> 3.4.85 इत्यनेन लङातिदेशः । <<नित्यं ङितः>> 3.4.9 इति सकारलोपः] → तन् + उ + आट् + म [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + म [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + आ + म [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवाम 4. आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + इट् [<<तिप्तस्>>..3.4.78 इति इट् -प्रत्ययः] → तन् + उ + इ [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + ए [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → तन् + उ + ऐ [<<एत ऐ>> 3.4.93 इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + ऐ [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + उ + ऐ [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] → तन् + ओ + ऐ [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + ऐ [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवै 5. आत्मनेपदस्य प्रथमपुरुषैकवचनस्य वहि-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + वहि [<<तिप्तस्>>..3.4.78 इति वहि-प्रत्ययः] → तन् + उ + वहि [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + वहे [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → तन् + उ + वहै [<<एत ऐ>> 3.4.93 इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + वहै [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + वहै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + आ + वहै [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवावहै 6. आत्मनेपदस्य प्रथमपुरुषैकवचनस्य महिङ्-प्रत्ययः तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + महिङ् [<<तिप्तस्>>..3.4.78 इति वहि-प्रत्ययः] → तन् + उ + महि [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + महे [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति इकारस्य एकारादेशः] → तन् + उ + महै [<<एत ऐ>> 3.4.93 इति एकारस्य ऐकारादेशः] → तन् + उ + आट् + महै [<<आडुत्तमस्य पिच्च>> 3.4.92 इति आडागमः] → तन् + ओ + आ + महै [आट्-आगमस्य पित्-त्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → तन् + अव् + आ + महै [<<एचोऽयवावावः>> 6.1.78 इति अवादेशः] → तनवामहै
<<आडुत्तमस्य पिच्च>> - भव नि इति स्थिते — आडुत्तमस्येति ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोडुत्तमस्येति । स्तवानि स्तवावेत्यादौ सार्वधातुकपिदिति ङित्त्वनिवृत्त्यर्थं पिद्वचनम् । यद्यपि मिपस्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं, तथापि वस्मसोराडागमस्याऽङित्तवार्थं पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र 'एरु' रित्युत्वं कुतो न स्यादित्यत आह-हिन्योरुत्वं नेति । सामर्थ्यादिति । अन्यथा — 'हु-नु' इत्येव विदध्यादिति भावः । भवानीति । आडागमे सवर्णदीर्घः । न चाऽत्र लङ्वद्भावादितश्चेति लोपः शङ्क्यः, इकारोच्चारणसामर्थ्यात् । अन्यथा 'मो न' इत्येव विदध्यात् । एवं हेरपि बोध्यम् । यद्यपि भवानीत्यादवतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमविधिव्र्यर्थस्तथापि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् । भवावेति । लोटो वस् । गुणावादेशौ । आडागमः । सवर्णदीर्घः । लङ्वद्भावात् 'नित्यं ङित' इति सकारलोपः । एवं मसि भवामेति रूपम् । इति लोट्प्रक्रिया ।
स चोतमपुरुषः पिद्भवतीति । आट एव पित्वं कस्मान्न विज्ञायते, तुल्यविभक्तिकयोहि युक्तः सम्बन्धः - आट् पिदिति ? निर्थकत्वात् । अनुदातत्वं तावदागमत्वादेव सिद्धम् ; करवाणि, मार्जानीत्यादौ गुणवृद्ध्योरपि प्रत्यय एव निमितं न त्वागमः ॥