राजनि युधिकृञः

3-2-95 राजनि युधि कृञः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते क्वनिप्

Kashika

Up

index: 3.2.95 sutra: राजनि युधिकृञः


कर्मणि इत्येव। राजन्शब्दे कर्मणि उपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति। ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति। राजयुध्वा। राजानं योधितवानित्यर्थः। राजकृत्वा।

Siddhanta Kaumudi

Up

index: 3.2.95 sutra: राजनि युधिकृञः


क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.95 sutra: राजनि युधिकृञः


क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥

Balamanorama

Up

index: 3.2.95 sutra: राजनि युधिकृञः


राजनि युधिकृञः - राजनि युधि कृञः । युधि, कृञ् अनयोः समाहारद्वन्द्वात्पञ्चमी । क्वनिप् स्यादिति । राजनि कर्मण्युपपदे भूतार्ताद्युधेः कृञश्च क्वनिबित्यर्थः । ननु युधेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह — युधिरन्तर्भावितेति । राजकृत्वेति.राजानं कृतवानित्यर्थः ।

Padamanjari

Up

index: 3.2.95 sutra: राजनि युधिकृञः


राजनि युधिकृञः॥ ननु च युधिरकर्मक इति। तत्कथं राजन्शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः। अन्तर्भावितण्यर्थ इति। अनेकार्थथ्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तदा प्रयोज्येन कर्मणा सकर्मको भवतीत्यर्थः॥